________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
#. ३ फा० ४ सू० १३५-१४१] महावृत्तिसहितम्
२३९ परोवरपरम्परपुत्रपौत्रमनुभवति ॥३४॥१३॥ निर्देशादेव समर्थविभक्त्युपादानम् । परोवर परम्पर पुत्रपौत्र इत्येते य इप्समर्थेभ्योऽनुभवतीत्यस्मिन्नर्थे खो भवति । पराँश्च श्रवराँश्च अनुभवति परोवरीणः । त्यसभियोगे परोवरभावो निपात्यते । पराँश्च परतराँश्च अनुभवति परम्परीणः । त्यसन्नियोगे परपस्तरयो: परमरभावः । कथं मन्त्रिपरम्परा मन्त्रं भिनत्तीति प्रयोगः ? शब्दान्तरमप्यस्ति । पुत्रपौत्राननुभवति पुत्रपौत्रीणः।
अवारपारात्यन्तानुकामंगामी ॥३।४।१३६॥ अवारपारं अत्यन्त अनुकाम इत्येतेभ्य इप्समर्थेभ्यो गामीत्यस्मिन्नथें खो भवति । गमिष्यतीति गामी । "आवश्यकाऽधमर्णयोणिन्" [२।३।१४६] इति श्राव: श्यकायें गिन । वय॑त्कालभावस्य "म्यादिर्वस्यति २।३१] इति वचनात् । अवारपार गामी श्रवारपारीणः पोतः। विगृहीतादपि भवति । अवारीणः । पारीणः। "विपरीताच्चेति वक्तव्यम्" [वा.] पारावारीणः । अतएव निपातनात्पारस्य वा पूर्वनिपातः। अन्तस्याभावोऽत्यन्तम् । “मि" [ ॥३॥५] इति अर्थाभावे हसः । अथवा अन्तमतिक्रान्तः अत्यन्तः । “तिकुप्रादयः' [ १३१८१] इति षसः । हसपने वान्तादपि वचनात्खः । अत्यन्तं गामी अत्यन्तीनः । कामस्याऽनुरूपमनुकामम् । यथार्थे हसः। अनुगतो वा कामः, अनुकामः । श्रनुकामं गामी अनुकामीनः ।
समां समां विजायते ॥४।१३७॥ समा संवत्सरः । तदेकदेशे समाशब्द उपचरितः । विजननक्रियायाऽवश्याविच्छेदात् “कालावन्यविस्छेदे' [ ५] इतीप् । वीप्सायां द्वित्वम् । समां समां शब्दाद्विजायते इत्यस्मिन्नर्थे खो भवति । मृदवि (धि) कारेऽपि सुबन्तसमुदायाद् वचनात्यः । समां समां विजायते समांसमीना गौः। समांसमीना वडवा । त्ये कृते "सुपो धुमृदोः" [111१४२] इति सुप उप् । पूर्वपदे सुपोऽनुब्वक्तव्यः। यदा संवत्सरे समाशब्दः प्रवर्तते तदा समायां समायामिति विग्रहेऽपि समांसमीना गौः। त्यविषये पूर्वपदस्य समां भावो निपात्यते, उत्तरपदस्य च पादः खम् । परिशिष्टस्य तु सुपः "सुपो धुमृदोः" [४१४२] इत्युप् ।
अनुग्वलंगामी ॥३।४।१३८॥ अनुग्विति क्रियाविशेषणम्। अनुगुशब्दात् अलङ्गामी इत्येतसि. नर्थे खो भवति । गवां पश्चात् अनुगु । पश्चादर्थे हसः । अनुगु अलङ्गच्छति अनुगवीनः ।
यखावध्वनः ॥३।४।१३६॥ इबत्र समर्था संभवति अध्वशब्दादिप्समर्थादलङ्गामीत्यस्मिन यखो त्यौ भवतः। अध्वानमलङ्गच्छति अध्वन्यः, अध्वनीनः यदा यस्तदा "येऽहौ" [५१५६] इति टिखप्रतिषेधः। अन्यत्र "खेऽध्वनः" [ १६०] इति टिखाभावः ।
छश्चाऽभ्यमित्रात् ॥३।४।१४०॥ अमित्रममि अभ्यमित्रम् । “वीप्सेत्थंभूतलक्षणेऽभिनेप' [ १५] इतीपू "लक्षणेनाभिमुस्येऽभिप्रती" [ १] इति हसः। क्रियाविशेषणमेतत् । अभ्यमित्रशब्दाद् वासमर्थादलङ्गामीत्यस्मिन्नर्थे छो भवति यखौ च । अभ्यमित्रमलङ्गच्छति, अभ्यमित्रीयः, अभ्यमित्या, अभ्यमित्रीणः।
गोष्ठीनाश्वीन कौपीनशालीनवातीनसातपदोनहैयङ्गवीनम् ।।३।४।१४१।। गोष्ठीनादयः शब्दा निपात्यन्ते । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठः। "सुपि" [२७] "स्थः कः'' [२८] इति कः । गोष्टशब्दाद् भूतपूर्वोपाधिकात् स्वार्थे खम निपात्यते । गोष्ठो भूतपूर्वो गोष्ठीनो देशः। चरटोऽपवादः । अश्व
1." स्थ' इत्येव सूत्रम् । अनुवृत्त्यभिप्रायेण "स्थः कः' इति वृत्तौ ।
For Private And Personal Use Only