________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
जैनेन्द्र-व्याकरणम्
[अ० ३ पा० ४ सू० १५६-११३
उपत्यका । श्रधीत्येतस्मात्पर्वतमारूढे देशे वर्तमानात्त्यक इत्त्वाभावश्च स्त्रीलिङ्गे खुविषये । पर्वतमध्यारूढो देशो
ऽधित्यका ।
कर्मठः || ३ | ४ | १५६ || कर्मठ इति निपात्यते । कर्मशब्दादीप्समर्थादूघटते इत्यस्मिन्नर्थेऽठो निपात्यते । कर्मणि घटते कर्मठः ।
तदस्य सञ्जातं तारकादिभ्य इतः || ३|४|१५७ ॥ तदिति वासमर्थे यः सञ्जातोपादि ( धि )'भ्यस्तारकादिभ्योऽस्येति ताऽर्थे इतो भवति । तारकः संजाता श्रस्य तारकितं नमः । पुष्पिता लता । तारका । पुष्प । कर्णक । ऋजीष । सूत्र । निष्क्रमण । पुरीष । उच्चार। प्रचार । कुड्मल | मुकुल | कुसुम | स्तवक । किसलय | वेग । वेश । निद्रा । बुभुक्षा | पिपासा । श्रद्धा । स्वन ( श्वभ्र ) । श्रन्न । रोग । अङ्गारक । वर्णक । द्रोह । सुख । दुःख | उत्कण्ठा | भर । व्याधि | "गर्भादप्राणि नि" [ग० सू०] गर्भिताः शालयः । श्रप्राणिनीति किम् ? गर्भिणी गौः ।
प्रमाणे द्वयस दुघ्नरमात्रटः || ३|४|१५८ ॥ तदस्येति वर्तते । तदिति वासमर्थात्प्रमाणेऽर्थे वर्तमानादस्येति ताऽर्थे द्वयसट् दध्नट् मात्रट् इत्येते त्या भवन्ति । प्रमाणस्य प्रमेयापेक्षत्वात्प्रमेयस्त्यार्थः । कः प्रमाणमस्य ऊरुद्वयसम् । ऊरुमात्रम् । यद्यप्यायामः प्रमाणत्वेन प्रसिद्धस्तथाप्यभिधानवशाद् द्वयसड् - दावूर्ध्वमाने, मात्र पुनरविशेषेण । कर्षमात्रं घृतम् । प्रस्थमात्रं धान्यम् । धनुर्मात्री भूमिः । " प्रमाण शब्दा ये प्रसिद्धास्तेभ्यो द्वयसाद्दीन ध्वंसनं चक्तम्" [ वा० ] समः प्रमाणमस्य समः । दिष्टिः प्रमाणमस्य दिष्टिः । वितस्तिः । “राञ्च ध्वंसनं वक्तव्यम्" [वा० ] द्वौ सम प्रमाणमस्य द्विसमम् । त्रिसमम् । द्विदिष्टिः । द्विवितस्तिः । तदन्तविध्यभावात्पूर्वेणाप्राप्तिः । चकारः किमर्थः ? संशये स्थायिनं मात्रटं वक्ष्यति | तत्राऽपि राध्वंसनमेव यथा स्यात् । "ढटू स्तोमे वक्तव्य:" [वा०] पञ्चदशाहानि परिमाणमस्य यज्ञस्य पञ्चदशः स्तोमः । सप्तदशः । पञ्चदशी रात्रिः । छन्दसि पूर्वमेव सिद्धमछन्दोविषयार्थमेतत् । " शन्शतो डिंनिकव्यः''[वा०] पञ्चदशाहोरात्रा: परिमाणमेषां पञ्चदशिनाऽर्द्धमासाः । त्रिंशिनो मासाः (द्वात्रिंशिनो देवेन्द्राः । त्रयस्त्रिंश इत्यपीष्यते । “विंशतेश्चेति वक्तव्यम्” [ वा० ] विंशिनो भवनेन्द्राः । विंशिनो रसः । ' माय 1 परिमाणाभ्यां संख्यायाश्चापि संशये मात्रड् वक्तव्यः" [वा०] समः प्रमाणमस्य स्यात् सममात्रम् । वितस्तिमात्रम् | प्रस्थः परिमाणमस्य स्यात् प्रस्थमात्रम् । कुडवमात्रम् । पञ्च संख्याः प्रथां स्यात् पञ्चमात्राः । पुरुषाः दशमात्राः । उक्तं च
"प्रमाणध्वंसनं राच्च ढट्स्तोमे शनूशतोर्णिनिः । प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये ।। "
“स्वार्थे द्वयलण्मान्नटौ बहुलं वक्तव्यौ " [ वा० ] तावदेव तावद्द्द्वयसम् । तावन्मात्रम् । यावदेव यावद्द्द्वयसम्, यावन्मात्रम् ।
पुरुषहस्तिनोऽण् च ॥३ | ४ | १५६ ॥ तदस्येति वर्तते प्रमाण इति च । पुरुष - हस्तिशब्दाभ्यामय् च भवति, द्वयसादयश्च भवन्ति । पुरुषः प्रमाणमस्य पौरुषम् । पुरुषद्वयसम् । पुरुषदध्नम् । पुरुषमात्रम् । हस्ती प्रमाणमस्य हास्तिनम् | "प्रायोऽनपत्येऽणोनः " [ ४|४|१५५ ] इति टिखप्रतिषेधः । हस्तिद्वयसम् । हस्तिदघ्नम् । हस्तिमात्रम् । प्रमाणशब्दाच्च प्रसिद्धौ " प्रमाणादध्वसनमिति " च भवति । पुरुषः प्रमाणमस्य पुरुषः । “अणादोर्ना ध्वंसनवचनाच्छ्रवणोच्चाराच्चेति ध्वंसनं द्वयसडादीनामेव द्रष्टव्यम् ।” अण् तदन्तान्न सम्भवति । द्वौ पुरुषौ प्रमाणमस्य द्विपुरुषं जलम् । द्विपुरुषी द्विपुरुषा वा खाता । द्विहस्ति जलम् । द्विहस्तिनी नदी । नान्तखान्ङीविधिः ।
For Private And Personal Use Only