________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३६
जैनेन्द्र-व्याकरणम्
[ अ० ३ पा० ४ सू० ११६ - १२१
1
स्तेयसख्ये || ३ | ४|११६ ॥ स्तेय मुख्य इत्येते शब्दरूपे निपात्येते स्तेनशब्दात्तासमर्थात् भावकर्मणोर्यः, नशब्दस्य च खं निपात्यते । स्तेनस्य भावः कर्म वा स्तेयम् । यण् ( ट्यण् ) चात्रेष्यते । स्तैन्यम् । सखिशब्दाद् भावकर्मणोर्यः । सख्युर्भावः कर्म वा सख्यम् । “दूतवणिगय यो वक्तव्यः " [वा० ] दूतस्य भावः कर्म वा दूत्या । वणिज्या ।
Acharya Shri Kailassagarsuri Gyanmandir
कपिज्ञाते ||३|४|११७॥ कपि ज्ञातिशब्दाभ्यां तासमर्थाभ्यां दञ् भवति भावे कर्मणि चाभिधेये । कपेर्भावः कर्म वा कापेयम् । इगन्तत्वादण् प्राप्तः । ज्ञातेर्भावः कर्म वा ज्ञातेयम् । प्राणिजातित्वादत्र प्राप्तः । त्वत्तलावपि भवतः । कपित्वम् । कपिता । ज्ञातित्वम् । ज्ञातिता ।
पत्यन्त पुरोहितादेयः ||३ | ४ | ११८ ॥ पत्यन्तात्पुरोहितादेश्च रयो भवति । तस्य भावे कर्मणि चेति वर्तते । बृहस्पतैर्भावः कर्म वा बार्हस्पत्यम् । सैनापत्यम् । इगन्तत्वाद प्राप्तः । पुरोहितादिभ्यः । पुरोहितस्य भावः कर्म वा पौरोहित्य म् । राज्यम् । पुरोहित । "राजन से" [ ग० सू० ] । स इति किम् ? सौराज्यम् । ब्राह्मणादित्वाट्यण् । ग्रामिक । खण्डिक । दण्डिक । कर्मिक । वस्तिक' | शिलिक । सूचिक | अञ्जलिक । छत्रिक । वर्षिक । प्रतिक। सारथिक । सांजनिक । श्राजनिक । साराक्षसूचक । ब्राह्मणादेराकृतिगणत्वाट्यणि सिद्धे स्त्रियां टार्थे वचनम् ।
1
वयोवाक्प्राणिजात्युद्गात्रादिभ्योऽन || ३|४|११६ ॥ वयसो वाग्भ्यः प्राणिमातिवाचिभ्य उद्गात्रादिभ्यश्चाञ भवति । तस्य भावे कर्मणि चेति वर्तते । कुमारस्य भावः कर्म वा कौमारम् । कैशारम् । कालभम् । प्राणिजातिभ्यः । श्राश्वम् । श्रष्टुम् । माहिषम् । उद्गातुर्भावः कर्म वा श्रौद्गात्रम् । उद्गातृ । उन्नेतृ । प्रतिहन्तृ । प्रशास्तृ । होतृ । भर्तृ । रथगणक । पक्लिगणक । सुष्ठु । दुष्ठु । श्रव । वधू ।
हायनान्तयुवादिभ्योऽण् ॥३|४|१२० ॥ हायनान्तेभ्यो युवादिभ्यश्चाण् भवति । तस्य भावे कर्मणि चेति वर्तते । श्रवयोवाचित्वे हायनान्ताः प्रयोजयन्ति । द्विहायनस्य युवादेर्भावः कर्म वा, द्वैहायनम् । त्रैहायनम् । युवादिभ्यः - यूनो भावः कर्म वा यौवनम् । मनोज्ञादित्वाद् वुञ प्राप्तः; श्रनेनाण् । ": अम आणि [ ४ । ४ । १५८ ] इति टिखप्रतिषेधः । पूर्वे सूत्रे यद्यग्रहणं क्रियेत हस्तिनो भावः कर्म वा हास्त - मित्यत्र “प्रायोऽनपत्ये ऽणीनः " [ ४ । ४ । १५५ ] इति टिखप्रतिषेधः प्रसज्येत । मृद्द्महणे लिङ्गविशिष्टस्यापि, युवतेर्भावः “मस्य हृत्यढे "[वा०] इति पुंवद्भावे कृते यौवनम् । युवन् । यजमान । "पुरुषादसे " [ग०सू०] अस इति किम् ? राजपौरुष्यम् । पुरुषत्वम् । कर्तृ । ऋत्विक् । कन्दुक । श्रवण । कुस्त्री । दुःखी । सुस्त्री । सुहृदय । सुहृत् । दुर्हत् । सुभ्रातृ । दुर्भ्रातृ । वृषल । परित्राजक । सब्रह्मचारिन् । श्रनृशंस | "हृदयाद से " [ग०सू०] स इति किम् ? अहृदयत्वम् । चपल । निपुण । पिशुन । कुतूहल । क्षेत्रज्ञ | भो त्रियस्य भावः कर्म वा श्रौत्रम् | उद्गात्रादिरत्रैव पठितव्य इति चेत्; न; श्रस्याऽनित्यत्वात् । तेनानृशंस्यमिति सिद्धम् ।
4
ध्यादेरिकः ||३|४|१२१ ॥ ध्यादिग्रहणमिको विशेषणम् । धि श्रादिर्यस्येकः स ध्यादिः, ध्यादिर्य इक् तदन्तान्मृदोऽय् भवति । तस्य भावकर्म्मणोरिति वर्तते । शुचेर्भावः कर्म वा शौचम् । नखरजनि । नाखरजनम् । हरीतकी । हारीतकम् । पृथु । पार्थवम् । वधू । वाधवम् । पितृ । पैत्रम् । ध्यादिग्रहणं मृत्समुदायस्य विशेषणमित्यन्ये । घ्यादेर्मृद इगन्तात् । कृशानु । कार्शा नवम् । प्रतिहर्तृ । प्रातिहार्त्रम् |
१. वल्लिक अ० पू० । २. प्रमातृ अ० । ३. सूत्रम् "अनः" इत्येव । अणीत्यनुवृत्त्यभिप्रायेण "अनः अणि " इति ।
For Private And Personal Use Only