________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७० ३ पा० ४ सू० १२२-१२७ ] महावृत्तिसहितम्
२३७ इह (विश्च )ना च विनरौ। चित्रे ( विनु ) र्भावः कर्म वा परत्वाद्द्वन्द्वलक्षणो वुझ् । चैत्र ( वैन )कमिति । कथं काव्यम् १ कविशब्दो ब्राह्मणादिषु पठनीयः । ध्यादेरिति किम् ? पाण्डुत्वम् । पाण्डुता । इक इति किम् १ बकुलत्वम् ।
योडो रूपोत्तमाद् वुन ॥१४१२२॥ त्रिप्रभृतीनामन्त्यम् उत्तमम् , उत्तमस्य समीपमुपोत्तमम्। रुरुपोत्तमं यस्य मृदः, तद्रूपोत्तमम् । योङो मृदो रूपोत्तमाद् वुञ् भवति । तस्य भावकर्मणोरिति वर्तते । रमणीयस्य भावः कर्म वा, रामणीयकम् । श्रोपाध्यायकम् । योङ इति किम् ? कापोतम् । रूपोत्तमादिति किम क्षात्रियम् । कुवलयत्वम् । रूपान्त्यादिति वक्तव्ये उत्तमग्रहणं त्रिप्रभृतिनामचां परिग्रहार्थम । तेनेह न भवति । कायत्वम् , कायता । कथं ज्ञायते तमशब्दोऽयमातिशयिकः। अयमेतेषामतिशयेन उद्गततम इति, "सन्महत्परमोत्तमोत्कृष्टम्" [१॥३॥५६] इति निपातनात् । "किमेमिझिमझादामध्ये" [१२।२० ] इति अाम्न भवति । अव्युत्पन्न वा मृद्रूपम् । त्रिप्रभृत्यन्तवाचि धुपोत्तमादिति सिद्ध रुग्रहणंमनेकहल्व्यवधानेऽपि प्रापणार्थम् । आचार्यकम् इति । “सहायाति पक्तव्यम्" [वा०] । साहायकम् । साहाय्यम् ।
द्वन्द्वमनोक्षादेः ॥३।४।१२॥ द्वन्द्वमनोज्ञादिभ्यश्च वुञ् भवति । तस्य भावकर्मणोरिति वर्तते । कुरुकाशीनां भावः कर्म वा कोरुकाशिका । भारतबाहुबलिका । अपालवसुपालिका । मनोज्ञादिभ्यः । मनोजस्य भावः कर्म वा, मानोशः । प्रियरूप । श्रादो (अभि) रूप । कल्याण । मेधाविन् । श्राद्य (व्य)। सुकुमार। कुलपुत्र । छान्दस । छात्र । श्रोत्रिय । चौर । धूर्त । वैश्वदेव । युवन् । यौवनिका । "प्रकृत्या के राजन्यमनुष्ययुवानः" [वा०] इति प्रकृतिभावः । ग्रामपुत्र | ग्रामखएड | ग्रामकुमार । अमुष्यपुत्र अमुष्यकल । शरपुत्र । गोत्र ।
वृद्धचरणाच्छलाघाऽत्याकारावेते ॥३६४१२४॥ वृद्धवाचिनश्चरणवाचिनश्च मृदो वुञ् भवति भावकर्मणोरर्थयोः श्लाघादिषु विषयभूतेषु द्योत्येषु वा । श्लाघो विकत्थनं स्मय इत्यर्थः । अत्याकारः परावि(घि) क्षेपः । अवेतः अवगतः। गार्गिकया श्लाघते । गार्गिकया अत्याकुरुते । गार्गिकामवेतः । चरणात् । काठिकया श्लाघते । काठिकया श्रत्याकुरुते । काठिकामवेतः । श्लाघादिष्विति किम् ? काष्ठेन प्रसिद्धः । प्राणिजातिलक्षणोऽन् ।
होत्राभ्यश्छः ॥३।४।१२५॥ होत्राशब्द ऋत्विजां वाचकः । बहुखनिर्देशः स्वरूपनिरासार्थः । होत्राभ्य विग्विशेषवाचिभ्यः शब्देभ्यश्छो भवति मावकर्मणोरथयो। अच्छावाकस्य भावः कर्म वा, श्राच्छावाकीयम। मैत्रावरुणीयम् । ब्राह्मणाच्छंसीयम् । श्रच्छावाक्त्वम् । अच्छावाकता। अथवा होत्रा कठः। अच्छावाकशब्दसहचरिता ऋक अच्छावाक् । मैत्रावरुणीशब्दसाहचर्याद् मैत्रावरुणी। ब्राह्मणाच्छंसिशब्दसहचरिता क ब्राह्मणाच्छंसी । "होत्रायाः स्वार्थे को (छो) वक्लव्या' [वा०] । होत्रैव होत्रीयः ।
ब्रह्मणस्त्वः ॥३।४।१२६॥ ब्रह्मशब्दात् होत्रावाचिनस्त्वो भवति भावकर्मणोरर्थयोः । ब्रह्मणे भावः कर्म वा ब्रह्मत्वम् । पुनरारम्भः तलादिनिवृत्यर्थः। यस्तु जातिवाची ब्रह्मशब्दः ब्राह्मणपर्यायः, ततस्त्वतली भवतः। ब्रह्मलम् । ब्रह्माता।
धान्यप्ररोहणे खन्न ।।४।१२७॥ भावकर्मग्रहणं निवृत्तम् । तस्येति वर्तते । प्रकर्षेण रोहन्ति धान्यान्यस्मिन् प्ररोहणं क्षेत्रमित्यर्थः । धान्यविशेषवाचिभ्यः प्ररोहणेऽभिधेये खञ् भवति । प्रियङ्गए प्ररोहणं क्षेत्रं प्रैयङ्गवीणम् । मौद्गीनम् । गोधूमीनम् । धान्यानामिति किम् ? तृणानां प्ररोहणं चत्वरम् । प्रग्रहण
For Private And Personal Use Only