________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३१
अ. ३ पा० ४ सू. 4-11] महावृत्तिसहितम् द्वादशवार्षिकः । “ब्रह्मचर्यमित्यस्मिार्थे महानाम्न्यादिभ्य उपख्यानम्" वा०] । महानाग्न्यो नाम ऋचः । महानाम्नीनां ब्रह्मचर्यम् , माहानाम्निकम् । श्रादित्यवतिकम् । गोदानिकम् । तच्चरतीति च महानाम्न्या. दिभ्य उपसख्यानम् [वा० । महानाम्नीश्चरति माहानाम्नि । महानाम्नीसहचरितं व्रतं चरतीत्यर्थः । एवम्, श्रादित्यवतिकः । गौदानिकः । "अवान्तरदीक्षादिभ्यो दिन् वक्तव्यः" वा०] । अवान्तरदीक्षां चरति अवान्तरसीसीटेववती तिलवती। “अष्टाचत्वारिंशतो डवुडिनौ च बक्तव्योगवा०]। अष्टाचत्वारिंशदवर्षाणि व्रतं चरति, श्रष्टाचत्वारिंशत्कः । श्रष्टाचत्वारिंशी। 'चातुर्मास्याना यखं च बुडिनौ च वक्तव्यौ" [वा । चातुर्मास्यानि चरति चातुर्मासकः। चातुर्मासो। अथ किमिदं चातुर्मास्यानी त ? 'चतुर्मासापण्यो यज्ञे तत्रभवे वक्तव्यः" [वा. ] । चतुर्यु मासेषु भवन्ति चातुर्मास्यानि । “सज्ञायामण वक्तव्यः" [वा.11 चतुर्यु मासेषु भवा पौर्णमासी चातुर्मासी । कार्तिकी । फाल्गुनी । अाषाढी चेति । अथ मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम् । आर्धमासिकम् । सांवत्सरिकमित्यत्य सिद्धये यत्नः कर्तव्यः। न कर्तव्यः । मासं भतं भावि वा ब्रह्मचर्य मासिकमिति भविष्यति ।
तस्य दक्षिणा यशाख्यात् ॥३४८॥ तस्येति तासमर्थात् यज्ञाख्यान्मृदो दक्षिणेत्यस्मिन्नर्थे ठञ् भवति । यज्ञमाचष्टे यज्ञाऽख्यः। प्रकरणे उषीति ( सुपि [ २०१७] इति ) योग विभागे "भूलविमुजादिभ्यः' [वा०] इति (वा ) कः। अग्निष्टोमस्य दक्षिणा अाग्निष्टोमिकी । 'तस्येवम्" [ 1] इत्यस्याऽणोऽपवादः। एवं राजसूयिकी। दासौदनिकी । श्रकालार्थ चाऽख्यग्रहणम । अन्यथा कालाधिकारात एकाहद्वादशाहप्रभृतिभ्य एव यज्ञेभ्यः स्यात् । प्राग्वतः संख्यापूर्वपदाना सदन्तग्रहण. मनुपीति कालावि (घि) कारेऽपि द्वादशाहादिश्वस्ति प्राप्तिः।
तत्र दोयते भववत् ॥३।४।८६।। तत्रेतीपसमर्थात् कालवाचिनो मृदो दीयते इत्यस्मिन्नर्थे भव इव त्यविधिदितव्यः । यथा मासे भवं मासिकम् । श्रार्धमासिकम् । “कालाटुज" [३।२।१३१] इत्येवमादिविधिः । एवं मासे दीयते मासिकम् । पार्द्धमासिकम् । प्रावृषेण्यम् । हैमनम् । शैशिरम् । वद्ग्रहणं सर्वसादृश्यार्थम् । इह कार्यग्रहगामपि कर्त्तव्यम् । मासिकम् । वासन्तम् । हैमनम् । कर्त्तव्यम् , यन्मासे कार्य तन्मासे भवमित्यपि भवति । ततः "तत्र भवः' [ ३।३।२८ ] इत्येव सिद्धम् । रादनुवर्थ तहीह कार्यग्रहणं सार्थकम् । द्वयोर्मास्योः कार्य द्वैमासिकम् । भवार्थलक्षणस्य ठनः "रस्योबनपत्ये" [३।७४इत्यप प्रसज्येत । नेदं युक्तम् । उबेवात्रेभ्यते । यदन्यैरप्युक्तम् । कार्यग्रहणमप्यनर्थकम् | तत्र भवेन कृतत्वादिति । अथापि कार्यमनुपः प्रयोगो दृश्यते । एवं तहि "तेन कार्य" मित्यत्र स द्रष्टव्यः । द्वाभ्यां मासा यां कार्य द्वैमासिकम् । "जय्यसभ्यकार्यसुकरम्" [३।४।६२ ] इति ठम् । तत्र दीयते इति योगविभागः कर्त्तव्यः । यज्ञाख्यादित्यनुवर्तते । अग्निष्टोमे दीयते श्राग्निष्टोमिकमन्नम् । राजसूयिकम् । वाजपोयकम् । द्वयोर्वाजपेययोर्दीयते द्वैवाजपेयिकम् ।
ब्युष्टादेरण ॥३।४।६०॥ इह कलिभ्य इति नापेक्ष्यते । सामान्येन विधानात् । तत्रेति वर्तते । व्युष्ठ इत्येवमादि य ईप्समर्थ यो दीयते इत्यस्मिन्नर्थेऽण् भवति । उछी विवास इत्यस्य के व्युष्टमिति कालवाचि । व्युष्टे दीयते वैयुष्टम् । नित्यशब्दादोचन्तादपि वचनाद् भवति । तीर्थ । निष्क्रमण | उपसंक्रमण। प्रवेशन । संग्राम । संघात । प्रवास । उपवास । अग्निपदी। पीलुमूल । "प्रणप्रकरणे अग्निपदादिभ्य उपसंख्यानम" [वा० ] न कर्तव्यमिह पाठात् ।
तेन यथाकथाचहस्ताभ्यां णयौ ॥३।४।६१॥ अत्रापि कालेभ्य इति नापेक्ष (क्ष्य) ते। दीयते इति वतते । तेनेति भासमाभ्यां यथाकथाच-हस्तशब्दाभ्यां दीयत इत्यस्मिन्नथें यथासंख्यं णयौ भवतः । यथाक्याच दीयते याथाकथाचम् । अनादरदत्तमित्यर्थः । हस्तेन दीयते इस्त्यम् ।
For Private And Personal Use Only