SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ जैनेन्द्र-व्याकरणम् [अ०३ पा० ४ सू० १२.१०५ जय्यलभ्यकार्यसुकरम् ॥३||२|| कालेभ्य इति वर्तते । तेनेति भासमर्थात् कालवाचिनो मृदो जय्य लभ्य कार्य सुकर इत्येतेष्वर्थेषु ठा भवति । मासेन वय्यो मासिको हस्ती । मासेन शक्यते जेतुमित्यर्थः । मासेन लभ्यो मासिकः पटः। मासेन कार्य मासिकं गृहम । मासेन सुकरो मासिकः प्रासादः। सम्पादिनि ।।३।४।१३।। कालेम्य इति निवृत्तम् । भासमर्थान्मृदः सम्पादिन्यर्थे ठञ् भवति । कर्णवेष्टाम्यां सम्पादि शोभते कार्णवेष्टिकं मुखम् । वस्त्रयुगेन सम्पद्यते वास्त्रयुगिकं शरीरम् ।। कर्मवेषाद्यः॥४६॥ तेन सम्पादिनीति च वर्तते । कर्मवेषशब्दा यां यो भवति । ठोऽपवादः । फर्मण सम्पद्यते कर्मण्यं शौर्यम् । वेषेण सम्पद्यते वेष्या नर्तकी । नेपथ्येन शोभते इत्यर्थः । तस्मै प्रभवति सन्तापादेः ॥ ५॥ तस्मै इति अपसमर्थेभ्यः सन्तापादिभ्यः प्रभवतीत्यस्मिनर्थे ठञ् भवति । अलमर्थेऽप् । सन्तापाय प्रभवति मान्तापिकः । सन्ताप | सन्नाह । संयोग । संग्राम । सम्पराय । सम्पेष । निष्पेष । निसर्ग। उपसर्ग । विसर्ग । प्रवास । उपवास । संघात । संमोहन । शक्तुमांसौदनाद् विग्रहीतादपि । शाक्तुमांसौदनिकम् । शाक्तुकम् । मासिकम् । औदनिकम् । योगाद्यश्च ॥३४९६॥ तस्मै प्रभवतीति वर्तते । योगशब्दाद्यो भवति ठञ् च । योगाय प्रभवति, योग्यः । यौगिकः । कर्मण उका. ॥३४॥६५॥ तस्मै प्रभवतीति वर्तते । कर्मशब्दादुका, भवति । कर्मणे प्रभवति कार्मुकं धनुः। समयस्तदस्य प्राप्तम् ॥३।४।६८।। तदिति वासमर्थात्समयादस्येति ताऽर्थे ठम् भवति यत्तद्वासमर्थ प्राप्तं चेत्तद्भवति । समयः प्राप्तोऽस्य सामयिकम् । प्राप्तकालमित्यर्थः । ऋतोरण ॥३।४।९९।। ऋतुशब्दात् वासमर्थात्प्राप्तोपाधिकादस्येति ताऽर्थेऽण् भवति । ऋतुः प्राप्तोऽस्य, आर्तवं पुष्पम् । "उपवस्त्रादिभ्य उपसंख्यानम्" [वा० ] | उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशितम् । कर्मनामधेयम् । कालाद्यः ॥३४॥१००॥ तदस्य प्राप्तमिति वर्तते । कालशब्दाद्यो भवति । कालः प्राप्तोऽस्य, काल्यं शीतम् । रात्रावृषितायामहरादिः कालोऽपि काल्यः । प्रकृष्टे ठः ॥३।४।१०१।। तदस्येति वर्तते कालादिति च । प्रकृष्टे प्रकर्षे वर्तमानादस्येति ताऽर्थे ठो भवति । प्रकृष्टः दीर्घः कालोऽस्य कालिकम् ऋणम्। कालिकं सख्यम् । अन्ये प्रकृष्ट ठअिति पठन्ति । कालिका मैची। (प्रयोजनम् ॥३४११०२कालादिति निवृत्तम् । तदस्येति वर्तते । प्रयोजयतीति प्रयोजनम् । नन्द्यादिपाठाल्ल्युः । बहुलवचनाद्वा कर्तरि युट । तदिति वासमर्थात्प्रयोजनोपाधिकादस्येति ताऽर्थे ठञ् भवति । अहत्पूजाप्रयोजनमस्य आईत्पूजिकः । ऐन्द्रमहिकः ।) वैशाखाषाढषाष्टिकैकागारिकडाकालिकट ॥३।४।१०॥ वैशाखादयः शब्दा निपात्यन्ते । यदत्र लचोनानुपपन्नं तत्सर्व निपातनासिद्धं तदस्य प्रयोजनमित्यस्मिन्विषये। "विशाखाषाढाभ्यां यथासंख्यं मन्थदण्डयोरग्निपात्यते ।" विशाखा प्रयोजनमस्य वैशाखो मन्थः। अाषाढो दण्डः । "षष्टिरात्रेण पच्यन्ते इत्यस्मिन्वाक्ये कः । रात्रशब्दस्य च खम् ।" षष्टिका नाम ब्रीडयः । असंज्ञायां वाक्यमेव भवति । षष्टिरात्रेण पच्यन्ते मुद्गा इति । "एकागारशब्दात्तदस्य प्रयोजनमित्यस्मिन्नथै चौरेऽभिधेये ठज ।" एकागारं प्रयोजनमस्य ऐकागारिकश्योर। चोरादन्यत्र वाक्यमेव । एकागार प्रयोजनमस्य मिलोरिति । श्रथया "एक: समर्थः भगारमोषि For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy