________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३०
जैनेन्द्र-व्याकरणम्
[ अ० ३ पा० ४ सू० ७७-८०
मासाद वयसि खञ || ३ | ४|७७ ॥ तमवी ( धी )ष्टो भृतो भूतो भावीति वर्तते । मासशब्दाद्वयस्यभिधेये खन भवति । ठञोऽपवादः । वयसीति वचनात् । श्रवी ( धी ) प्रभृतग्रहणं नाभिसम्बध्यते । मासं भूतो भावी वा, मासीनः । कथं भावि वयो विगमः इति चेत् अरिष्टदर्शनात् । अकार: "जिदुष्टदरकविकारे " [ ४ | ३ | १५१] इत्यत्र पुंवद्भावप्रतिषेधार्थः । मासीनो दुहितृकः । वयसोति किम् ? मासिकः ।
Acharya Shri Kailassagarsuri Gyanmandir
यः ||३|४| ७८ || मासशब्दाद् वयस्यमिधेये यश्च भवति । मासं भूतो भावी वा मास्यः । योगविभाग उत्तरार्थः ।
रात् || ३ | ४ |७९ ॥ मासाद् वयसीति वर्तते । मासान्ताद राद वयस्यभिधेये यो भवति । द्वौ मासौ भूतो भावी वा द्विमात्यः । प्राग्वतः संख्यापूर्वपदानामनुपीति ठञपवादयोर्यखत्रोः प्राप्तयोरनेन यो विधीयते ।
परामासारख्यश्च ||३|४|८०|| परमासशब्दाद् वयस्यभिधेये यो भवति यश्च । षण्मासाद् भूतो भावी वा पारमास्य । षण्मास्यः । अन्ये चशब्देन टयं समुच्चिन्वन्ति । यस्त्वनुवर्त्तनादेव भवति तेषां पाएमासिक इत्यपि ।
ठश्चार्यास || ३ | ४|८|| षण्मासशब्दादवयस्यभिधेये टो भवति एयश्चानन्तरः । षाएमासिको नायकः । षाण्मास्यः ।
समायाः खः ||३|४|८२॥ श्रवी ( धीष्टादयश्चत्वारोऽर्था अनुवर्त्तन्ते । समाशब्दादिप्समर्थादीष्टादिष्वर्थेषु खो भवति । नोऽपवादः । समामवी (घी) ष्टो भूतो भावी वा समीना | I
[ राद् भूतबलेः || ३|४|८३ || समाशब्दान्ताद् निर्वृत्तादिषु पञ्चस्वर्थेषु खो भवति भूतबलेराचार्यस्य मतेन । नान्येषाम् । प्रातः संख्यापूर्वपदानां तदन्तग्रहणमनुपीति पूर्वेण नित्ये खे प्राप्ते विभाषेयम् । द्वे समे भृते भूतो भावी द्विसमीनः । द्वैसमिकः । त्रिसमीनः । चैमिकः । कालः परिमाणग्रहणेन न गृह्यते । तेन "रिम (स्याखुशाणे [ ५।२।२२ ] इति थोरैग्न भवति ।
रात्र्यहः संवत्सरात् || ३ |४| ८४ ॥ रादिति वर्त्तते । श्रहन् संवत्सर इत्येवमन्ताद्रान्निर्वृत्तादिष्वर्थेषु भूतबलेराचार्यस्य मतेन खो भवति । श्रहन् । द्वयहीनः । द्वैयह्निकः । श्रत्रापि श्रहरन्तादिति वचनात् "राजाहः सखिभ्यष्टः " [ ४।२।१३ ] इति सान्तो न भवति । श्रन्यथा “एभ्योऽह्वोऽह्नः " [ ४।२1१०] इत्यादेशे सति द्वह्नीन इत्यनिष्टं रूपं स्यात् । द्वैयह्निरु इति चेष्यते । तत्कथं सिध्यति १ द्वयोरहोः समाहारः टे सान्ते "न समाहारे" [ ४/२/६१ ] इत्यह्नादेशप्रतिषेधे च सति सिद्ध्यति । संवत्सर, द्विसंवत्सरीणः । द्विसांवत्सरिकः । “संख्यायाः (संख्या) संवत्सरस्यं " [ २२० ] इति द्योरादेरै ।
1
वर्षा दुप्च ||३|४| ८५|| रादिति वर्त्तते । वर्षशब्दान्तान्निर्वृत्तादिष्वर्थेषु भूतबलेराचार्यस्य मतैन ठञ उब्भवति खश्च । श्रन्येषां ठञेव । तेन त्रैरूप्यम् । द्वेवर्षे भूतः, द्विवर्षः, द्विवर्षणः, द्विवार्षिकः । " वर्षस्वाभाविनि " [ ५।२।२१] इति द्योरादेरै । भाविनि द्वैवार्षिक इति भवति ।
प्राणिन्युप् ||३|४|८६६ ॥ पुनरुग्रहणं नित्यार्थम् । वर्षशब्दान्तादूरात्प्राणिनित्यार्थेऽभिधेये नित्यं त्यस्यो भवति । पूर्वेण विकल्पेन पक्षे ठञः श्रवणं खश्च न भवति । द्वे वर्षे भूतो भावी वा द्विवर्षो दारकः । भूतभाविनोरेवार्थयोरयं नित्यमुविष्यते नान्यत्र । द्वे वर्षे श्रधीष्टो भू (भृ ) तो वा कर्म करिष्यति, द्विवार्षिको मनुष्यः ।
तदस्य ब्रह्मचर्यम् ||३|४|८७॥ तदिती समर्थात् कालवाचिनो मृदोऽस्येति तार्थे ठञ् भवति यत्तदिसमर्थ तस्य व्यापकं त्यार्थस्य च स्वं ब्रह्मचर्यं चेद् भवति । मासं ब्रह्मचर्य्यमस्य मासिको ब्रहाचारी | सम्बन्ध वृत्तावन्तर्भूत इति पुरुषोऽभिधेयः । एवम्, अर्धमासिकः । सांवत्सरिकः । "संख्यापूर्वपदाच्च "
For Private And Personal Use Only