________________
Shri Mahavir Jain Aradhana Kendra
म० ३ पा० ४ सू० ६८०७६ ]
www.kobatirth.org
महावृत्तिसहितम्
२२९
पारायण तुरायणचान्द्रायणं वर्तयति
|| ३ | ४ | ६८ ॥ तदिति वर्त्तते । पारायणतुरायण चान्द्रायणशब्देभ्य इप्समर्थेभ्यो वर्तयतीत्यस्मिन्नर्थे ठञ् भवति । पारायणं वर्तयति पारायणिकः । शिष्य एवाभिधानं नाध्यापके । तुरायणं यज्ञ' वर्तयति तौरायणिकः । यजमान एव न योजके । चान्द्रायणिकः ।
1
Acharya Shri Kailassagarsuri Gyanmandir
संशयमापन्नः || ३|४|६९ ॥ संशयशब्दादिप्समर्थादापन्न इत्यस्मिन्नर्थे ठञ् भवति । सशीतिः संशयः, तमापन्ने कर्तृकर्मणी भवतः । तत्र कर्त्तरि पुरुषेऽभिधानं नास्ति । संशयं विषयभावेनापन्नः सांशयिकः । स्थावादि ।
योजनं याति || ३ | ४|७० || योजनशब्दादिप्समर्थाद्यातीत्यस्मिन्नर्थे ठञ् भवति । योजनं याति यौननिकः । संख्यापूर्वपदादपि । द्वैयोजनिक: । "क्रोशशतयोजन झतयोरुपसंख्यानम् [वा०] । क्रोशशतं याति क्रौशशतिकः । यौजनशतिकः । " ततोऽभिगमनमर्हति च वक्तव्यम्" [वा०] क्रोशशतादभिगमनमर्हति कौशशतिकः । यौवनशतिको गुरुः ।
पथः कट् ||३|४|७१ ॥ तदिति वर्तते । पथिशब्दादिप्समर्थाद्यातीत्यस्मिन्नर्थे कट् इत्ययं त्यो भवति । पन्थानं याति पथिकः, पथिकी । द्वौ पन्थानौ याति द्विपथिकः, द्विपथिकी। हृदर्थे रसे कृते सान्तात्पूर्वनिर्णयेनायमिष्यते ।
पन्थो ण नित्यम् ||४|४|७२ || नित्यग्रहणं यातीत्यस्य विशेषणम् । पथिशब्दादि समर्थान्नित्यं यातीत्यस्मिन्नर्थे णो भवति तत्सन्नियोगे पन्थ इत्ययञ्चादेशः । पन्थानं याति पान्थः । नित्यमिति किम् ? पथिकः ।
उत्तरपथेनाहृतं च ||३|४|७३ || निर्देशादेव भाया उपादानम् । उत्तरपथशब्दाद् भासमर्यादाहृतं यातीति चानयोरर्थयोष्ठञ् भत्रति । उत्तरपथेनाहृतम्, श्रौत्तरपथिकम् । उत्तरपथेन याति श्रौत्तरपथिकः । "वारिजङ्गकस्थळकान्ताराजशङ्कुपूर्वपदादिति वक्तव्यम्” [ वा० ] वारिपथेनाहृतं वारिपथिकः वारिपथेन याति वारिपथिकः । एवमर्थद्वयोऽपि । जाङ्गलपथिकः । स्थालपथिकः । कान्तारपथिकः । श्राजपथिकः । शाङ्कु पथिकः । “मधुकमरिचयो: स्थलपूर्वादय् वक्तव्यः " । स्थलपथेनाहृतं स्थालपथं मधुकं मरिचं वा ।
कालेभ्यः ||३|४|७४ || बहुत्वनिर्देशः स्वरूपनिरासार्थः । अधिकारोऽयम् । यदित ऊर्ध्वमनुक्रमिष्यामः कालवाचिभ्य इत्येवं तद्वेदितव्यम् । वक्ष्यति तेन निर्वृच: " [ ३।४।७५ ] । मासेन निर्वृतम् मासिकम् । श्रार्द्धमासिकम् ।
तेन निर्वृत्तः ||३ | ४ | ७५ ॥ तेनेति भासमर्थेभ्यः कालवाचिभ्यो निवृत्त इत्यस्मिन्नर्थे ठञ् भवति । मासेन निर्वृत्तः, मासिकः । साँव्वत्सरिकः प्रासादः ।
तमवी ( घो ष्टो भृतो भूतो भावी ||३|४|७६ ॥ तमितीप्समर्थात् कालवाचिशब्दात् श्रवी(घी) टो भृतो भूता भावीति एतेष्वर्थेषु ठञ् भवति । सत्कृत्य नियुक्तोऽवी ( घी )ष्टः । वेतनेन क्रीता भू (भृतः । माखमवो (धी ) ष्टों भृता भूतो भावो वा मासिकः । श्रर्द्धमासिकः । साँव्वत्सरिकः । "कालाध्वन्यविच्छेदे " [१४(४] इतोप् । अवी ( घी )ष्टभू ( द ) तयोरर्थयोर्मासैकदेशे मुहूर्ते पासशब्दो वर्तते । तस्याऽध्येषण भरणक्रियाभ्यां व्याप्तेरविच्छेदः । भूतभाविभ्यां तु खुसन्तया ( स्वसत्तया ) कालस्य व्याप्तेरविच्छेदः सिद्ध एव । इह षष्टिं भूतः षाष्टिकः । साप्ततिकः । इति कथं कालवाचित्वम् १ कालस्य संख्येयत्वात् कालविषयत्वाद्वा । रमणीयं काल भूत इत्यत्राऽनभिधानान्न भवति ।
१. याजकः अ० पू० । २. ख सन्तया अ० पू० ।
For Private And Personal Use Only