________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
जैनेन्द्र-व्याकरणम्
[अ० ३ पा० ४ सू० ५६-६७
त्यः । नव दशतः परिमाणमस्य नवतिः । नवशब्दात्तिः । दश दशतः परिमाणमस्य शतम् । दशानो शभावः तश्च त्यः । विंशत्यादीनां क्वचित्संख्यानप्रधानत्वम्, कचित्संख्येयप्रधानत्वम् । लिङ्गवचनं च स्वाभाविकत्वादेव सिद्धम् । इह यथाकथञ्चिद्व्युत्पत्तिः क्रियते । सहस्रादयोऽप्यनयैव दिशाऽनुगन्तव्याः । दशशतानि परिमाणमस्य, सहस्रम् । दशसहस्राणि परिमाणमस्य, अयुतम् ।
पञ्चदशती वर्ग वा ॥३॥४॥५९॥ पञ्चन् दशन् इत्येतौ शब्दो वर्गेऽभिधेये वा निपात्यते । तदस्य परिमाणमित्यस्मिन्विषये नित्ये के प्राप्ते पक्षे डदित्ययं त्यो निपात्यते । पञ्च परिमाणमस्य पञ्चद्वर्गः । दशद्वर्गः । दशको वर्गः।
तदर्हति ॥४॥६०॥ तदितीप्समर्थादर्ह तीत्यस्सिन्नथें यथाविहितं त्यो भवति । श्वेतच्छत्रमर्हति श्वतच्छत्रिकः । श्राभिषेचनिकः । वास्त्रयुगिकः । दाध्योदनिकः । शतिकः । शत्यः । इह भोजनमहतीत्यनभिधानान्न भवति । "स्त्रीपुंसान्नुक्त्वात्' [ ३३७२ ] इत्येषोऽपि विधिरनभिधानान्नावतरति । ठणादय इमं योगं प्राप्य निवृत्ताः।
प्राग्वतष्ठम् ॥३।४।६१॥ तदहें वदिति वक्ष्यते । प्रागेतस्मादवत्संशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामः तेष ठअधिकृतो वेदितव्यः । वक्ष्यति "पारायणतुरायण चान्द्रायणं वतयति" [१५] पारायणिकः। "प्राग्वतः संख्यापूर्वपदानां तदन्तग्रहणमनुपि" इति द्वैपारायणिकः । इह ( ठणि ) प्रकृते तस्योप् प्रसज्येत तेन ठअधिकृतः ।
छेदादेनित्यम् ॥३॥४/६२॥ नित्यग्रहणमर्हतीत्यस्य विशेषणम् । छेदादिभ्यो नित्यमहतीत्यस्मिन्नर्थे यथाविहितं त्यो भवति । छेदं नित्यमर्हति छैदिकः । छेद । भेद । होह । द्रोह । तस्कर । नर्त । कर्ष । विकर्ष । विप्रकर्ष । प्रयोग । संप्रयोग । विप्रयोग । सम्प्रश्न । प्रेषण | विरागः विरङ्गं च ।
शीर्षच्छेदाद्यश्च ।।३।४।६३॥ नित्यमिति वर्तते । शीर्षच्छेदशब्दात् इप्समर्थात् नित्यमहतीत्य. स्मिन्नर्थे यो भवति ठञ् च । शीर्षच्छेदं नित्यमर्हति शीर्षच्छेदिकः । अन्ये शिरश्छेदं नित्यमहतीति त्यसन्नियोगे शिरसः शीर्षभावं वर्णयन्ति । तदयुक्तं यत्नाभावात् । तस्मान्नियतविषयः शिरःपर्यायः शीर्षशब्दोsस्तीत्यभ्युपगन्तव्यम् ।
दण्डादेः ॥३।४।६४॥ नित्यमिति निवृत्तम् । दण्ड इत्येवमादिभ्योऽहतीत्यस्मिन्नर्थे यो भवति । ठोडपवादः । दण्डमर्हति दण्ड्यः । दण्ड । मुशल । मधुपर्क | कशा । अर्घ । मेघा । मेघ । वध । उदक । युग। इरु (भ)।
पात्राद्धश्च ॥३४॥६५॥ तदहंतीति वर्तते । पात्रशब्दाद्धो भवति चकाराद्यश्च । ठोऽपवादः । पात्रमिति परिमाणं च गृह्यते । पात्रमहं ति पात्रियः । पात्र्यः ।
कडङ्गरदक्षिणास्थालीबिलाच्छश्च ॥२४॥६६॥ तदहतीति वर्तते । कडङ्गर दक्षिणा स्थालीबिल इत्येतेभ्यश्लो भवति यश्च । ठोऽपवादः । मुद्गादि काष्ठं कडङ्गरम् । कडङ्गरमर्हति कडङ्गरीयो गौः। दक्षिणामहति दक्षिणीयः । दक्षिण्यः । स्थालीविलमर्हति स्थालीविलीयाः स्थालीविल्यास्तण्डुलाः। पाकाई इत्यर्थः ।
यविग्भ्यां घखबौ ॥३।४।६७॥ तदहतीति वर्तते । यश-ऋत्विक्शब्दाभ्यां यथासंख्यं घभित्येतो त्यौ भवतः । ठोऽपवादः । यज्ञमहं ति यज्ञियः । आविजीनः। उपचायत्तत्कापि तथोक्तम् । यज्ञकर्माहति, यशियो देशः । ऋत्विक्कर्माहति, पाविजीनं कुलम् ।
For Private And Personal Use Only