________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ३ पा० ४ सू० ५३०५८ ]
महावृत्तिसहितम्
२२७
राष्ट् च ||३|४|५३||
ढकाचितपात्रान्तात् गत् इप्समर्थात्सम्भवत्यादिष्वर्थेषु ठट् भवति खश्व वा । तेन त्रैरूप्यं भवति । द्वे ग्राहके सम्भवति श्रवहरति पचति वा द्वयाढकिकी । द्वयादकीना । श्राभ्यां मुक्ते तस्य " राखौ " [ ३।४१२६ ] इत्युप् । व्याढकी । “परिमाणादृष्टदृषि" [३ | ११३६ ] इति ङीविधिः । टट्खयोर्वचनादवम् ( दुम्न ) भवति । द्वयाचितीना, द्वयाचिता । "न विस्ताचितकम्बल्यात् " [३।१।२७] इति ङीप्रतिषेधः । द्विपात्रिको । द्विपात्रीणा । द्विपात्री ।
कुलिजाच्च ||३|४|१४|| चकारस्त्रिका अनुकर्षणार्थः । रादिति वर्तते । कुलिजशब्दान्तात् रात् इप्सम - र्थात् सम्भवत्यादिष्वर्थेषु भवति खश्व वा । तेन त्रैरूप्यम् । कुलिजं परिमाणविशेषः । द्वे कुलिजे सम्भवत्यवहरति पचति वा द्विकुलिजिकी, द्विकुलिजीना, द्विकुलिनी । केचिदुपोऽपि विकल्पमिच्छन्ति । पक्षे टणः श्रवणम् । द्वैकुलिजिकीति । त एव " अशा " [ ५/१/२२] इत्यत्र कुलिजस्यापि प्रतिषेधमिच्छन्ति ।
तदस्यांशवस्नभृतयः ||३|४|५५|| तदिति वासमर्थात् श्रस्येति तार्थे यथाविहितं त्यो भवति यत्तद्वासमर्थम् श्रंशवस्नभृतयश्चेत्तद् भवन्ति । पञ्च श्रंशा वा वस्नो वा भृतिर्वाऽस्य, पञ्चकः । सप्तकः । शतिकः, शत्यः । साहस्रः । खारीकः ।
परिमाणत्सङ्ख्यायाः सङ्घसूत्राऽध्ययने ||३||४|५६ || तदस्येति वर्तते । परिमीयते परिच्छिद्यतेऽनेन परिमाणम् । परिच्छेदकमिह तत् पारिभाषिकम् । तदिति वासमर्थात् संख्यावाचिनः परिमाणे वाधिकादस्येति तार्थे यथाविहितं त्यो भवति । यत्तदस्येति सङ्घसूत्राऽध्ययनानि चेद् भवन्ति । सङ्घे पञ्च परिमा णमस्य सङ्चस्य पञ्चकः । सप्तकः । सूत्रे ग्रन्थ इत्यर्थः । पञ्चाऽध्यायाः परिमाणमस्य पञ्चकं जैनेन्द्रम् । श्रष्टकं पाणिनीयम् । शतकं स्तोत्रम् । श्रधीतिरध्ययनं तस्मिन् । पञ्च रूपाण्यस्याध्ययनस्य पञ्चकम् । सप्तकम् । कर्मणि यद्यध्ययन शब्दो व्युत्पाद्येत सूत्रान्न भेदः स्यात् । "स्वोमे दो वक्तव्यः " [ वा० ] पञ्चदशाद्यर्थः पञ्चदश मन्त्राः परिमाणमस्य स्तोमस्य पञ्चदशः स्तोमः । एवं सप्तदशः। एकविंशः । परिमाणादिति योगविभागः कर्तव्यः । तदस्येति वर्तते । पञ्चकलापः परिमाणमस्य पञ्चकला पिकम् । पाञ्चलोहितिकम् । प्रस्थः परिमाणमस्य प्रास्थिको राशिः । कौतिकः । खारीशतिकः । वर्षशतं परिमाणमस्य वार्षशतिकः । "जीवित परिणाम इति च वक्तव्यम्" [ वा० ] षष्टिः संवत्सरा जीवितपरिमाणमस्थ, षाष्टिकः । साप्ततिकः । श्राशीतिकः । नेदं वक्तव्यम् । “ तमवी ( घी ) ष्टो भू ( भृ, तो भूतो भावी ” [ ३।४।७६ ] इत्येव सिद्धम् । षष्टिं भूतो (तः ) पाष्टिकः । एवञ्चानुवपि सिद्धः । द्वे षष्टी भूतो द्विषाष्टिकः । इह विधानो ( ने ) "शदुबस्तौ” [ ३३४॥२६ ] इत्युपू प्रसज्येत ।
खौ ||३|४|५७ || खुविषये च परिमाणविशिष्टायाः संख्याया यथाविहितं त्यो भवति । विंशतिः परिमाणमस्य विंशतिकं परिमाणनामधेयम् । स्वार्थे चाऽत्र त्यो द्रष्टव्यः । पञ्चैव पञ्चकाः शकुनयः । त्रय एव त्रिका: सा ( शा ) लङ्कायनाः ।
पक्तिविशत्त्रिशच्चत्वारिंशत्पञ्चाशत् षष्टिसप्तत्यशीतिनवतिशतम् ||३|४|५८ ॥ पङ्क्त्यादयः शब्दा निपात्यन्ते । यदत्र लक्षणेनानुपपन्नं तत्सर्वे निपातनात्सिद्धम् । तदस्य परिमाणमिति वर्तते । पञ्चपादा. परिमाणमस्य पङ्क्तिस्तच्छब्दः क्रमसन्निवेशोऽपि । पञ्चशब्दात्तिरित्ययं व्यष्टिखं च निपात्यते । द्वौ दश तौ परिमाणमस्य वर्गस्य विंशतिः । द्वविभावः शतिश्च त्यः । त्रिचतुःपञ्चानाम् इमारिमाश्रान्तादेशाः शच्च त्यः । त्रयो दशतः परिमाणमस्य वर्गस्य त्रिंशत् । चत्वारो दशतः परिमाणमस्य चलारिंशत् । पञ्च दशतः परिमाणमस्य पञ्चाशत् । षड्दशतः परिमाणमस्य षष्टिः । षषस्तिरित्ययं त्योऽपदत्वं च । सप्त दशतः परिमाणमस्य सप्ततिः । ससनस्तिरित्ययं त्यः । अष्टौ दशतः परिमाणमस्य श्रशीतिः । अष्टमः अशीभावः विश्व
For Private And Personal Use Only