________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
जैनेन्द्र-व्याकरणम् [म० ३ पा० ४ सू० ४-५२ लोकात् ॥३॥४॥४४॥ तत्र विदित इति वर्तते । लोकशब्दादीप्समर्थाद्विदित इत्येतस्मिन्नर्थे ठण भवति । लोके विदितः, लौकिकः ।
सर्वात् ॥३।४।४५।। सर्वशब्दात्परो यो लोकशब्दः, तदन्तान्मृदष्ठण भवति तत्र विदित इत्यस्मिन्नर्थे । सर्वलोके विदितः, सावलौकिकः । अनुशतिकादित्वादुभयौप् ।
तदस्मिन्वृद्धद्यायलाभशुल्कोपदा दीयते ॥३॥४॥४६॥ तदिति वासमर्थाद् वृद्धयादिविशिष्टादस्मिन्नितीबर्थे यथाविहितं त्यो भवति । यत्तद्वासमर्थ वृद्धयादिविशिष्टं दीयते चेत्तद् भवति । वृद्धि : कालान्तरादिवा । नियनिबद्धा प्राप्तिरायः। पटादीनां मूल्यातिरेको लाभः । वा ( वणिजां रक्षाकारितो राजभाग: शुल्कः। उत्कोटः उपदा। दीयते इत्येकवचनान्तं वृद्धथादिभिः प्रत्येकमभिसम्बध्यते । पञ्चास्मिवृद्धिर्वा आयो वा लामो वा शुल्को वा उपदा वा दीयते, पञ्चकः । प्रास्थिकः । कौडविकः । "इह तदस्मै दीयते इति वक्तव्यम् " [वा० ] पञ्चाऽस्मै वृद्धयादि दीयते, पञ्चकः । सप्तकः । न वक्तव्यम् । सम्प्रदानस्याधिकरणविवक्षया सिद्धम् ।
डडर्धाः ॥३४॥४७॥ इडिति प्रत्याहारग्रहणम् । 'तस्य पूरणे ब्र" [१३] इत्यारभ्य आ तमाकागत् । डडन्तान्मृदः अर्धशब्दाच्च ठो भवति तदस्मिन्वृद्धधायलाभशुल्कोपदा दीयते इत्यस्मिन्नथें । ठणः "अर्धाच्च" [४।२।१०३ (वा० ] इत्यौपसंख्यानिकस्य च ठटोऽपवादः। पञ्चमः दीयते वृद्धिर्वा आयो वा लाभो वा शुल्को वा उपदा वा, पञ्चमिकः । द्वितीयिकः । अधिकः । स्त्रियाम्-अधिका।
भागाद्यश्च ॥३४४८॥ भागशब्दोऽधवाची । तदस्मिन्वृद्धथायलाभशुल्कोपदा दीयते इति च वर्तते । भागशब्दाद्यो भवति ठश्च । भागो वृद्धयादिरस्सिन्दीयते भाग्यं शतम् । भागिकं शतम् ।
तद्धरति वहत्यावहति भाराद् वंशादेः ॥३॥४॥४६॥ वंशादिभ्यः परो यो भारशब्दः तदन्तान्मृदः ई (इ) समर्थाद् हरत्यादिश्वर्थेषु यथाविहितं त्यो भवति । हरति नयतीत्यर्थः । वदति उत्क्षिपतीत्यर्थः । श्रावहति उत्पादयतीत्यर्थः । वंशभारं हरति वहति श्रावहति वा, वांशभारिकः। वाल्वभारिकः। भारादिति किम् । वत्सं हरति । वंशादेरिति किम् ? भारं हरति । केवलान्न भवति । अन्ये पुनरन्यथा सूत्रार्थ ग्राहिताः। वत्सा (वंशा) दिभ्यो भारभूतेभ्यस्त्यो भवति । अथद्वारेण भारो वंशादेविशेषणम् । भारभूतात् (न् ) हरति, वाशिकः। वाल्वजिकः। भारादिति किम् ? एकं वंशं हरति । वत्सा(वंशादेरिति किम् ? भारभूतान् यवान् हरति । सूत्रार्थद्वयमपि प्रमाणम् । वंश । वल्बज । कूट । मूल । स्थूल । खट्वा । अश्व । इत्तु ।
__ वस्नद्रव्याभ्यां ठको ॥३॥७॥५०॥ वस्नद्रव्यशब्दाभ्यामिपसमर्थाभ्यां हरत्यादिध्वर्थेषु यथासंख्यं ठ क इत्येतो त्यौ भवतः। वस्नं हरति वहति आवहति वा, वस्तिकः । द्रव्यकः ।
सम्भवत्यवहरति पचति ॥३॥४॥५१॥ तदिति वर्तते । इप्समर्थान्मृदः सम्भवत्यादिष्वर्थेषु यथा. विहितं त्यो भवति । सम्भवति गृह्णातीत्यर्थः। अवहरति तयं नयतीत्यर्थः । पचति विक्लदनं करोतीत्यर्थः। प्रस्थं सम्भवत्यहरति पचति वा, प्रास्थिकी स्थाली। एवं कौडविकी। खारीकी । ननु या प्रस्थं सम्भवति सा पचत्यपि, तत्कथं भेदः १ इदं तर्हि पचतेदाहरणम् । प्रस्थं पचति ब्राह्मणो. प्रास्थिकी। तत्पचतीति गोवादण च वक्तव्यः" [वा०] । द्रोणं पचति द्रौणी, द्रौणिकी।
बाऽऽढकाचितपात्रात्खः ॥२४॥५२॥ आढक-आचितपात्रशब्देभ्य इप्समर्थेभ्यः सम्भवत्यादिध्वर्थेषु वा खो भवति । पूर्वेण नित्ये ठणि प्राप्ते विभाषेयम् । आढकं सम्भवति अवहरति पचति वा, आढकीना, अाढकीकी । श्राचिताना, आचितिकी। पात्रोणा. पात्रिको । अाढकादोनि परिमाणानि ।
For Private And Personal Use Only