SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०३ पा०४ सू.३५-४३] महा २२५ तेन क्रीतम् ॥३॥४॥३५॥ तेनेति भासमर्थात् क्रीतमित्येतस्मिन्नर्थे यथाविहितं ठणादयो भवन्ति । निष्केण क्रीतम् , नैष्किकम् । शतिकम् । शत्यम् । साहस्रम् | द्विकम् । त्रिकम् । इह करणादिति वक्तव्यम् । कर्तरि माभूत् । देवदत्तेन क्रीतम् । "मूल्यादिति च वक्तव्यम्' [वा०] । इह मा भूत् पाणिना क्रीतमिति । "द्विबह्वन्ताच्च करणाप्रतिषेधो वक्तव्यः'' [वा०] । द्रोणाभ्यां क्रीतम् । द्रोणैः क्रीतम् इति । नेदं बहु वक्तव्यम् । अभिधानतो व्यवस्था भविष्यति । यत्र प्रकृत्यर्थस्य संख्याभेदावगतिरस्ति तत्र द्विबहत्वविषयेऽपि भवति । द्वाभ्यां क्रोतम् , द्विकम् । मुद्गैः क्रोतम् , मौगिकम् । तस्य वापः ॥३४३६॥ उन्यतेऽस्मिन्निति वापः क्षेत्रम् । तस्येति तासमर्थात् वाप इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति । प्रस्थस्य वापः, प्रास्थिकः। कोद्रविकः । खारीकः । "यस्य प्रकरणे वातपित्तश्लेष्मपक्षिपातेभ्यः शमनकोपनयोरुपसंख्यानम्" [वा०] वातस्य शमनं कोपनं वातिकं द्रव्यम् । एवं पैत्तिकम् । श्लैष्मिकम् । सान्निपातिकम् । निमित्तं संयोगोत्पादौ ॥१४॥३७॥ बुद्धिपूर्विका व्याप्तिः संयोगः। शुभाशुभयोः सूचकः उत्पादः । उत्पात इत्यर्थः । तस्येति तासमानिमित्तमित्यस्मिन्नर्थे यथाविहितं त्यो भवति यत्तन्निमित्तं संयोग उत्पादो वा स चेद् भवति । शतस्य निमित्तमीश्वरेण संयोगः शतिकः, शत्यः। साहस्तः। शतस्य निमित्तं दक्षिणाक्षिस्यन्दनमुत्पादः शतिकः । शत्यः। साहस्रः। सोमग्रहणस्य निमित्तमुत्पादो भमिकम्पः । सौमग्रहणिकः । योऽसंख्यापरिमाणावादेः ॥३४॥३०॥ तस्येति तासमाद्यो भवति संख्यापरिमाणावादीन वर्जयित्वा निमित्तं संयोगोत्पादावित्यस्मिन् विषये। ठणादीनामपवादः। वनं निमित्तं संयोग उत्पादो वा वन्यः । यशस्यः । स्वयः। श्रायुष्यः । असंख्यापरिमाणावादेरिति किम् ? पञ्चानां निमित्तं संयोग उत्पादो वा. पञ्चकः । सप्तकः । परिमाणात् । प्रस्थस्य निमित्तं संयोग उत्पादो वा प्रास्थिकः । द्रौशिकः । खारीकः। अश्वादिर्गणः। अश्वस्य निमित्तं संयोग उत्पादो वा श्राश्विकः । अश्व । अश्मन् । गण । ऊ । उमा। भड़ा। वर्षा । वस्त्र । वसु । संख्यापरिमाणयोरर्थभेदोऽस्ति । "उर्वमानं किलोन्मानं परिमाणं तु सर्वतः । मायामं तु प्रमाण स्यात् संख्या तु गुणनास्मिका।" गोब्रह्मवर्चसात् ॥३४॥३६॥ तस्य निमित्तं संयोगोत्पादाविति वर्तते । गोब्रह्मवर्चस्शब्दाभ्यां यो भवति । गोनिमित्तं संयोग उत्पादो वा गव्यः । ब्रह्मणो वर्च, ब्रह्मवर्चसम्, अत एव निपातनात्सान्तः। ब्रह्मवर्चसस्य निमित्तं संयोग उत्पादो वा ब्रहावर्चस्यः । पूर्वेण ये सिद्धे सत्यारम्भो नियमाय । एकाचो गोशब्दादेव बचो ब्रह्मवर्चसशब्दादेव यः । इह न भवति । नावो निमित्तं संयोगः नाविकः । वास्तुयुगिकः। द्वयच एव पूर्वेण यो वेदितव्यः । पुत्राच्छ वा ॥३।४।४०॥ तस्य निमित्तं संयोगोत्पादाविति वर्तते । पुत्रशब्दाच्छो यश्च । पुत्रस्य निमित्तं संयोग उत्पादो वा पुत्रीयः । पुत्र्यः । सर्वभूमिपृथिवीभ्यामण ॥३।४।४१॥ तस्य निमित्तं संयोगत्पादाविति वर्तते । सर्वभूमि-पृथिवीशब्दा यामण भवति । ठणोऽपवादः । सर्वभूमेनिमित्तं संयोग उत्पादो वा, सार्वभौमः । अनुशतिकादित्वादुभयत्रैप । पृथिव्या निमित्तं संयोग उत्पादो वा, पार्थिवः । ईश्वरः ॥४॥४२॥ तस्येति वर्तते । तासमर्थाभ्यां सर्वभूमिपृथिवीशब्दा यामीश्वर इत्यस्मिन्नर्थेऽण् भवति । ठणोऽपवादः । सर्वभूमेरीश्वरः, सार्वभौमः । पार्थिवः । तत्र विदितः ॥३॥४॥४३॥ तत्रेतीप्समर्थाभ्यां सर्वभूभिपृथिवीशब्दाभ्यां विदित इत्यस्मिन्नर्थेऽण भवति । सर्वभूमौ विदितः सार्वभौमः। पार्थिवः । २६ For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy