________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४
जैनेन्द्र याकरणम् [.३ पा० ४ सू० २०-३४ ___ कार्षापणसहस्रसुवर्णशतमानाद्वा ॥३।४।२७॥ कार्षापण सहस्र सुवर्ण शतमान इत्येवमन्ता. त्परस्याहीयस्य त्यस्य वोब् भवति । पूर्वेण नित्य उपि प्राप्ते विभाषेयम् । द्वाभ्यां कार्षापणान्यां क्रीतं द्विकार्षापणं द्विकार्षापणिकम् । त्रिकार्षापणं त्रिकार्षापणिकम् । अध्यर्धकार्षापणम् । अध्यर्धकार्षापणिकम् । "प्राग्वतः संख्यापूर्वपदानां तदन्तग्रहणमनुपीति कार्षापाणाद्वा प्रतिश्च" (२४॥२३] इति ठट् । अनुप्पक्षे च प्रतिरादेशो विकल्पितः। द्विप्रतिकम् । त्रिप्रतिकम् । अध्यधप्रतिकम् । द्वाभ्यां सहस्राभ्यां क्रीतं द्विसहस्रम् । द्विसाहनम् । त्रिसहस्रम् | त्रिसाहस्रम् । अध्यर्धसहस्रम् । अध्यर्धसाहस्रम् । "संख्यायाः संख्यासंवत्सरस्य" शिश२] इति घोरेप । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसुवर्णम् द्विसौवर्णिकम् । त्रिसुवर्णम् , त्रिसौवर्णिकम् । अध्यर्धसुवर्णम् , अध्यर्धसोवर्णिकम् । “परिमाणस्याखुशाणे" [१२।२२ ] इति द्योरैप् । सुवर्णमुन्मानं कथं परिमाणम् ! अशाण इति प्रतिषेधात् । उन्मानस्यापि द्यौरभवति द्वाभ्यां शतमानाभ्यां क्रीतं द्विशतमानम् । द्विशातमानम् । त्रिशतमानम् । त्रिशातमानम् । अध्यर्धशातमानम् ।
द्वित्रिबहोनिष्कबिस्तात् ॥३।४।२८ ॥ द्वि त्रि बहु इत्येतेभ्यः परौ यो निष्कविस्तशब्दौ तदन्तादात्परस्या यस्य त्यस्य वोभवति । द्विनिष्कम् । द्वि नैष्किकम् | त्रिनिष्कम् । त्रिनैष्किकम् । बहुनिष्कम् । बहुनैष्किकम् । द्विबिस्तम् । द्विस्तिकम् । त्रिबिस्तम् । त्रिबैस्तिकम् । बहुबिस्तम् । बहुबैस्तिकम् ।
विंशतिकारखः ॥२४॥२९॥ वेति निवृत्तम् । यदिति वर्वते । विंशतिकशब्दान्तात् रात् श्रादिथेषु खो भवति । द्वाभ्यां विंशतिकाभ्यां क्रीतम् , द्विविंशतिकीनम् । त्रिविंशतिकीनम् । अध्यर्धविंशतिकीनम् । वचनात्खस्योम्न भवति ।
खारीकाकणोभ्यां कप् ॥३॥४॥३०॥ रादिति वर्तते । खारी काकणीशब्दान्तात् आह्रदर्थेषु कब् भवति । दाभ्यां खारीभ्यां क्रीतम् , द्विखारीकम् । त्रिखारीकम् । अध्यर्धखारीकम् । द्विकाकणीकम् | त्रिकाकणीकम् । अध्यर्धकाकणीकम् । "केवलाभ्यां चेति वक्तव्यम्" [चा०] । खार्या क्रीतं, खारीकम् । काकणीकम् ।
पणपादमाषाद्यः ॥३४॥३१॥ रादिति वर्तते । पण-पाद-माषशब्दान्ताद् रादाह्रदर्थेषु यो भवति । द्वाभ्यां पणाभ्यां क्रीतम् , द्विपण्यम् । त्रिपण्यम् । अध्यर्धपण्यम् । द्विपाद्यम् । त्रिपाद्यम्। अध्यर्धपाद्यम् । "असिवन्नाऽभात् [४।४।२१] इत्यखस्याऽसिद्धत्वात्पाच्छब्दस्य पद्भावो न भवति । "पधे"[३३।१६४] इति पदादेशोऽपि पादस्य केवलस्योक्तम् (क्तः)। द्विमाष्यम् । त्रिमाष्यम्। अध्यर्धमाष्यम् ।
शताद् वा ॥३४॥३२॥ रादिति वर्तते । शतशब्दान्ताद् गदाह्रदर्थे वा यो भवति । द्वाभ्यां शता-यां क्रीतं द्विशत्यम् । त्रिशत्यम् । अध्यर्धशत्यम् । पक्षे ठण् । तस्य "रादुबखौ' [ ३०२६] इत्युप् । द्विशतं त्रिशतम् । अध्यधशतम् ।
शाणात् ॥३।४।३३॥ रादिति वर्तते वेति च । शाणशब्दान्तादादिर्थेषु वा यो भवति । पक्षे ठण। तस्य चोप् । पञ्चभिः शाणैः क्रीतं पञ्चशाण्यम् । पञ्चशाणम् | अध्यर्धशाण्यम् । अध्यर्धशाणम् । योगविभाग उत्तरार्थः।
द्वित्रिभ्यामण च ॥३४॥३४॥ शाणादिति वर्तते। द्वित्रिशब्दाभ्या परो यः शाणशब्दस्तदन्ताद् रादाहीयेष्वर्थेष्वण भवति यश्च वा । तेन त्रैरूप्यम् । द्वाभ्यां शाणाभ्यां क्रीतम, द्वैशाणम्। त्रैशाणम् । त्रिशाण्यम् । त्रिशाणम् । अणि परतः "खुशाण" इति प्रतिषेधादादेरैप ।
For Private And Personal Use Only