________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प०३ पा० ४ सू०२०-२६ ] महावृत्तिसहितम्
२२३ चाऽन्वर्थसंशाग्रहणाद् यैरेकत्वादिभिः संख्यायते तेषां च ग्रहणे प्राप्तेऽतिशत इति प्रतिषेधः । त्यन्तां शदन्तां च संख्यां वर्जयित्वेत्यर्थः । पञ्चभिः क्रीतः पञ्चकः। सप्तकः। “संख्या बाड़डोऽबहुगणात्" [ ३६] इति पय्युदासादबहुगणयोः संख्यात्वम् । बहुकः। गणकः । श्रतिशत इति किम् ? षाष्टिकः । साप्ततिकः । चत्वारिंशत्कः । पञ्चाशत्कः। अर्थवतस्तिशब्दस्येह ग्रहणाडडतेर ति] प्रतिषेधः। कतिभिः क्रीतः, कतिकः।
वतोर्वेट ॥३।४।२०॥ वतुरिति त्यः पञ्चप्रकृतिः । “यत्तदेतेभ्यः परिमाणे वतुः" [ 1] "इदमो यो घः” [३।५।१६१] "किमः'' [३।४।१६२] इति वतोः परस्य कस्य च इड्भवति । ननु च अज्ञाते यत्तेषु कतिशब्दस्यैव संख्यात्वमुक्तम् । तत्कथं ववन्तात्संख्यालक्षणः कः १ इदमेव वलन्तात्परस्य कस्य वेडवचनं ज्ञापकं भवति बत्वन्तस्य संख्या संज्ञेति । यावता क्रीतः, यावतिकः, यावत्कः । तावतिकः । तावत्कः।
विशतित्रिशद्भ्यांड्वुरखौ ॥३।४।२१॥ विंशतित्रिंशच्छब्दाभ्यां ड्युर्भवत्यखुविषये । विंशत्या क्रीतः, विशकः। तेः खे कृते "प्रसिद्ध वदवाभात्' [१२] इति टिखे प्रतिषिद्धे "एप्यतोऽपदे" [३८] इति पररूपम् । त्रिंशता क्रोतः, त्रिंशकः। श्रखाविति किम् ? विंशतिः परिमाणमस्य, "परिमाणारसंख्यायाः सङ्घसूत्राऽध्ययने' [३४५६] 'खौ" [३२११५७] इति कः। विंशतिक परिमाणनामधेयम् । अनर्थकवादस्य तिशब्दस्य त्यन्तल क्षणः प्रतिषेधो न भवति । द्वयोर्दशतोर्वि (न्) भावः शतिश्चात्र त्यो निपातयिष्यते । त्रिशत्परिमाणमेषां त्रिंशत्काः। शदन्तान्नेति प्रतिषेधः कस्मान्न भवति १ विंशति त्रिंशतभ्यामिति योगविभागाको भवति ।
कंसाहन् ॥३।४।२२॥ कंसशब्दान् भवति श्राह्यदर्थेषु । ढणोऽपवादः । कसेन क्रान्तः (क्रीतः) कसिकः । कंसिकी । "अर्धाच्चेति वक्तव्यम्" [वा०] अर्द्धिकी ।
कार्षापणाद्वा प्रतिश्च ॥३।४।२३।। आर्हादिति वर्तते । कार्षापणशब्दात् ठड् भवति तस्य प्रतिरय पादेशो वा भवति । कार्षापणेन क्रीतः, कार्षापणिकः । कार्षापणिकी । प्रतिकः । प्रतिकी।
शतमानविंशति( क )सहस्रवसनादण ॥३॥४॥२४॥ शतमानादिभ्योऽण् भवति । श्रादिर्थे । ठणोऽपवादः । शतमानेन क्रोतम्, शातमानम् । वैशतिकम् । साहस्रम् । वासनम् ।
___ सूर्पाद्वा ॥३।४।२५॥ श्राह्यदिति वर्तते । सूर्पशब्दाद्वाऽण् भवति । नित्ये ठाण प्राप्ते विकल्पोऽयम् । सूर्प परिमाणनाम | सूर्पण क्रीतम् , सौर्पम् । सौपिकः ।
राबखौ ॥३।४।२६॥ श्रार्दादिति वर्तते । रादुत्तरस्य श्राहीयस्य त्यस्योब्भवस्यखौ। द्वाभ्यां कंसाम्यां क्रीतम् , द्विकंसम् । त्रिसम् | हृदथे रसे कृते संख्यापूर्वपदानां तदन्तविधिना कंसाहट , तस्योप। अधिकमर्धमस्मिन्नित्यध्यर्धम् , संख्यासंज्ञाविधानेऽध्यर्धग्रहणं सकविध्यर्थमित्युपसंख्यासंज्ञा । अध्यर्धेन कंसेन कीतं ठट उपि अध्यर्धकसम् | द्वाभ्यां कंसान्यां क्रीतम् इत्यागतयोरण्ठयोरुब्भवति । द्विसूर्पम् । त्रिसूर्पम् । अध्यर्धसूर्पम् । रादिति हेत्वर्थे का। रस्य हेतुनिमित्तं यो हृत् तस्योग्न भवति । द्विसूर्पण पटेन क्रीतम् , दिसौपिकम। "तनिमित्तादपि समाहारलक्षणादादुवक्तव्यः" [वा.]। द्वयोः सूर्पयोः समाहार: दिस। द्विसूत क्रीतम् द्विसूर्पमिति । न वक्तव्यः। अभिधानवशात् समाहारे वाक्यमेव भवति । न त्योत्पत्तिः । अखाविति किम् ? पाञ्चलोहितिकम् । पाश्चकलापिकम् । परिमाणनामधेये इमे। पञ्च लोहितानि परिमाणमस्य पश्चकपाला: परिमाणमस्येति "परिमाणासंख्यायाः सधसूत्राऽध्ययने" [ १ ] "ख" [१७] । इति ठण् । परिमाणस्य द्योरादरैपि प्राप्ते “अखुशाणे" इति प्रतिषिद्धे श्रादेरैप । अन्ये पञ्चलोहित्यः परिमाणमस्येति विगृह्य "तस्य हृत्यढे' [ वा० ] इति पुंवद्भावं विदधाति ।
For Private And Personal Use Only