________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
जैनेन्द्र-व्याकरणम्
[अ०३ पा० ४ सू०१३-१४
[ 1] इति अनि प्राप्त पूर्वनिर्णयेन ढञ् भवति । छादिषेयं चर्म । उपधीयत इत्युपधिः, रथाङ्गं गुणान्तरयोगाद् विकृतिरियम् । उपध्यर्थम् , औपधेयं दारु । वालेयास्तन्दुलाः।
ऋषभोपानहो ज्यः ॥३१४:१३|| तदर्थ विकृतेः प्रकृताविति वर्तते । ऋषभ उपानह इत्येताभ्यां ज्यो भवति । ठस्यापवादः । गुणान्तरयोगादपि विकारो मवति । तद्यथा बैभीतकोऽपूपः इति । ऋषभार्थेभ्यो वत्सः ( श्राभ्यो वत्सः ) । प्रौपानह्यो मञ्जः । "चर्मणोऽन" (३१५] इत्यतः पूर्वनिर्णयेनायमेवेष्यते । औपाना चम।
चर्मणोऽञ् ॥३।४।१४।। तदर्थ विकृतेः प्रकृताविति वर्तते । चर्मण इति विकारसम्बन्धे ता। चर्मणो या विकृतिस्तदवाचिनोऽञ भवति । छस्याऽपवादः। वदर्धयर्थ वाद,म । वळ (वरत्रा) - वात्र (वारत्र) चर्म । सनङ्गुर्नाम चर्मविकारः, ततः पूर्वनिर्णयेन उवर्णान्तलक्षणो यो भवति । सनङ्गव्यं चर्म ।
तदस्यास्मिन्निति ॥३४१५॥ प्रकृतिविकृतिभावस्तादर्थ्य वेह न विवक्षितं योग्यतामा विवक्षितम् । तदिति वासमर्थादस्य अस्मिन्नित्येतयोरर्थयोर्यथाविहितं त्यो भवति । इतिकरणस्ततश्चेद विवक्षा। श्रस्य सम्भावने ऽभिधानम् । तेन मख याद भेदः। प्रासादोऽस्य स्यात् प्रासादीयं दारू । प्राकारीया इष्टकाः। प्रासादोऽस्मिन् देशे स्यात् प्रासादीयो देशः। प्राकारीया देशः। इह कस्मान भवति, प्रासादो देवदत्तस्य स्यात् । इति करणादविवक्षाऽत्र ।
परिखाया ढञ ॥३॥४॥१६॥ तदस्याऽस्मिन्निति वर्तते । परिखाशब्दावन भवति । छस्यापवादः । परिखाऽस्मिन्देशे सम्भाव्यते पारिखेयो देशः । पारिखेयो भूमिः । इत ऊर्ध्व छयो नानुवर्तेते ।
आर्हाट्टण ॥३।४।१७॥ तदहतीति निवृत्तम् । प्रागेतस्मादह संशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामः, तेषु ठणधिकृतो वेदितव्यः। प्रागिति वर्तमाने अभिविष्यर्थमाद्ग्रहणम् । अर्हतीत्यस्मिन्नप्यथें ठण् भवति । वक्ष्यति "तेन क्रीतम्" |३३५ । वस्त्रेण क्रोतं वास्त्रिकम् । गोपुच्छिकम् ।
शतादस्वार्थेऽसेठयो ॥३॥४॥१८॥ आदिति वर्तते । स्वार्थे शतमेव । शतशब्दादस्वार्थेऽसेठय इत्येतो त्यौ भक्त अाहीयेष्वथेषु । कस्यापवादः। शतेन क्रीतम्, शतिकम् । शत्यम् । अवार्थ इति किम् ? शतं परिमाणमस्य शतकं स्तोत्रम् । नात्र प्रकृत्यर्थादर्थान्तरभृतस्त्यार्थः समुदायः किन्तु शतमेव । यत्र खर्थान्तरभावस्तत्र विधिरेव न प्रतिषेधः । शतेन क्रोतं शतिकं पटशतम् । शत्यं पटशतम् । वाक्येन ह्यत्र त्यार्थस्य शतत्वं गम्यते न श्रुत्या । अस इति किम् ? द्वौ च शतं च द्विशतम् । तेन क्रोतं द्विशतकम् । द्वाभ्यां शताभ्यां क्रीतमिति रसे "राहुबखौ" [१२६] इत्युपि नास्ति विशेषः । ननु स-त्यविधौ तदन्तविधिर्नास्तीति असग्रहणमनर्थकम् ? नाप्युत्तरत्र तदन्तविधेआपकम् । “प्राग्वतः सख्यापूर्वपदानां तदन्तग्रहणमनुपीति उपसंख्यानमवश्यं कर्तव्यम् ।' पारायणं वर्तयति पारायणिकः । द्विपारायणिकः । असंख्यापूर्वपदस्य न भवति । सहस्रण क्रीतम् , साहस्रम् । सुवर्णसहस्रेण क्रीतमित्यत्राण न भवति । तथा उनन्तायाः प्रकृतेनेष्यते । द्वाम्यां सूर्याभ्यां क्रीतम् , द्विसूण क्रीतम् तदन्तविधेरभावात् 'सूर्पाद्वा" [ २५] इत्ययं विधिन भवति । सामान्येन ठण , द्विसौपिकम् । “परिमाणमस्याखुशाणे'' [१२।२२] इति धोरैम् । एवं तर्हि पूर्वत्र तदन्तविधिरपि भवतीति ज्ञाप्यते । गव्यम् । अगव्यम् । हवि यम् । प्रसूरहविष्यम् । अपूप्यम् । यवापूप्यम् । अष्टक्यम् । एकाष्टक्यम् । राजदन्त्यम् । माष्यम् । तिल्यम् । कृष्णतिल्यम् ।
संख्यायाः कोऽतिशतः ॥३४१९॥ श्रादिति वर्तते । संख्याया अतिशदन्तायाः को भवति । आहादर्थेषु ठणोऽपवादः । संख्याशब्दः “कति: संख्या" [११॥३३] इति कतिशब्दं प्रत्याययति । तत्र
For Private And Personal Use Only