________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ. ३ पा० ४ सू० ८-१२]
महात्तिसहितम्
२२१
तासाद ( ब ) साच्च छ एव भवति । विश्वजनीयम् । “पञ्चजनशब्दादुपसंख्यानम्" [वा.] पञ्चजनीनम् । अत्र "दिक्संख्यं खो" [११३१४५] इत्यनेन विहितात्समानाधिकरणाद् बसादेवेष्यते । पञ्चजनीयमन्यत् । 'सर्वजनाट्टण खश्च वक्तव्यः" [बा.] सार्वजनिकः । सर्वजनीनः । अत्रापि यहादेवेष्यते । सर्वजनीयमन्यत् । “महाजनाहज्वक्तव्यः" [वा०] महाजनिकम् । षसादयं विधिः । बसाच्छ एव भवति । महाजनीयम् । ईनादेशे कृते "नोऽपुंसो हृति" [४|१३० ] इति टिखं प्राप्तम् , सूत्रे नकारान्तनिपातनान्न भवति । भोगः शरीरम् । तदंसा( दन्तात् मातृभोगीणः। पितृभोगिणः। मात्रादिभ्यः केवले यश्छ एव भवति । मात्रीयः। पित्रीयः। "राजाऽचार्याभ्यां भोगान्ताभ्यां नित्यमिति वक्तव्यम्' [वा०] राजभोगीनम् । प्राचार्यभोगीनम् । आर्यभोगान् ( गीन) शब्दस्य "क्षुम्नादित्वात्" [११५१७ ] णत्वं ( न ) भवति । नित्यग्रहणं किम् ? केवलाभ्यां न भवति । राज्ञे हितम् । प्राचार्याय हितमिति । सर्वाण्णो वा ॥
३८॥ तस्मै हितमिति वर्तते । सर्वशब्दाद् वा णो भवति पक्षे छो भवति । सर्वस्मै हितम् , सार्वम् । सर्वीयम् ।
पुरुषाढण् ॥३।४।९॥ पुरुषशब्दाड्डण भवति तस्मै हितमित्यस्मिन्विषये। छस्याऽपवादः । पुरुषाय हितं पौरुषेयम् । अल्प ( त्य) ल्पमिदम् । "पुरुषाद् वधविकारसमूहतेनकृतेष्विति वक्तव्यम्"। पौरुषेयो वधः । "तस्येदम्" [३३८] इत्यण प्राप्तः । पौरुषेयो विकारः। "प्राणिवालादेः" [ ३।३।३०५ ] इत्यण प्राप्तः । पौरुषेयं स्यमागतं ( यः समूहः ) "तस्त्र समूहः" इत्यण प्राप्तः । पौरुषेयः प्रासादः । पौरुषेयो ग्रन्थः । तेन कृते "नि ग्रन्थे ( कृते अन्थे ) [२३५] "खौ” [ ३।२६] हत्यण प्राप्तः।
मारणवचरकात्खा ॥३॥४.१०॥ तस्मै हितमिति वर्तते। माणव-चरक-शब्दाभ्यां खज भवति । छस्याऽपवादः । माणवाय हितं माणवीनम् । चारकीणम् ।
तदर्थ विकृतेः प्रकृती ॥३।४११॥ हितमिति निवृत्तम् । तस्मै इति वर्तते । तस्मै इदं तदर्थ समानजातीयमभिन्नसन्तानवर्ति कारणम् , प्रकृतिः। तस्या एवाऽवस्थान्तरं विकृतिः । तदर्थमित्येतत्प्रकृतेर्विशेषणम् । तदर्थायां प्रकृताविति । यद्येवं स्त्रीलिङ्गमीप च प्राप्नोति । "सूत्रेऽस्मिन् सुविधिरिष्टः" [५।२१११४] इने पा ( इतीपो) वाया एकेन च निर्देशः। विकृतिवाचिोऽबन्तान्मृदस्तदायां प्रकृतावनि भि)धेयायां यथाविहितं त्यो भवति । विकृत्यर्थायां प्रकृती त्यो भवतीत्यर्थः । अङ्गारेभ्यः, अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः। शङ्कव्यं दारू । पिचव्यः कर्पासः। अपूप्याः। श्रपूपीयास्तन्दुलाः। विग्रहे तादयलक्षणाऽप् द्रष्टव्या। तदर्थमिति किम् ? मूत्राय यवागूः। उच्चाराय यवान्नम् । पादरोगाय नड़व. लोदकं कल्पते । योग्यतामात्रेण विकृतिप्रकृत्यभिसम्बन्धो मा भूत् । अत्र केचित्तस्मै ग्रहणं नानुवर्त्तयन्ति । तादयं तयाऽपि व्यज्यते । यथा गुरोरिदम् , गुर्वर्थम् इति । विकृतिवाचिनस्तान्तात्तदर्थायां प्रकृतावभिधेयायां त्यमुत्पादयति । एवमङ्गाराणामिमानि अङ्गारानि काष्ठानि, अङ्गारीयाणि । तदर्थमिति किम् ? यवानां धानाः धानानां शक्लवः। नात्र प्रकृतेरनन्यार्थया गम्यते। अपि तु प्रकृत्यन्तरनिवृत्तिमात्रम् । नान्येषां धाना नान्येषां शक्लवः । अत एव विकारप्रकृतिसम्बन्धमात्रेऽपि त्यो न भवति । धानानां यवाः, शक्तूनां धानाः इति । विकृतैरिति किम् ? उदकार्थः कूपः। नात्र पार्थिवस्य कूपस्य विकृतिरुदकम् । प्रकृताविति किम् ? अस्या कोशी । असिरयसो विकृतिर्भवति । तन्न कोशी तस्य प्रकृतिः।।
छदिरूपधिवलेढा. ॥१४॥१२॥ तदर्थ विकृतेः प्रकृताविति वर्तते । छदिस् उपधि वलि इत्ये. तेभ्यो ढम् भवति । छदिरानि छादिषेयाणि तृणानि । इह छदिरथ चर्मेति परत्वात् "धर्मणोऽ"
For Private And Personal Use Only