________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ३ पा० ३ सू० १६८-२०८
जैनेन्द्र-व्याकरणम्
२१९
विषेण वध्यः, विष्यः । वध इति प्रकृत्यन्तरम् । वधमर्हति वध्यः । सीतया समितं सङ्गतं सीत्यं क्षेत्रम् | " रथसीताहलेभ्यो यविधौ तदन्तविधिरपीष्यते" [वा०] परमसीत्यम् । द्विसीत्यम् ।
धर्मपथ्यर्थ न्यायादनपेते || ३ | ३|१६८ || निर्देशादेव समर्थविभक्त्युपादानम् । धर्म पथिन् अर्थ न्याय इत्येतेभ्यः कासमर्थेभ्योऽनपेतेऽर्थे यो भवति । धर्मादनपेतं धर्म्यम् । पथ्यम् | अर्थ्यम् । न्याय्यम् |
छन्द निर्मिते || ३ | ३|१६६॥ छन्द इच्छा । निर्मितमुत्पादितम् । निर्देशादेव भासमर्थाच्छन्दः शब्दात् निर्मितेऽर्थे यो भवति । छन्दसा निर्मितः, छन्दस्यः ।
उरसाऽः च ||३|३|२००|| निर्देशाद् भाया उपादानम् । उरः शब्दाद् भासमर्थान्निर्मितेऽर्थेऽण् भवति यश्च । उरसा निर्मितः, श्रौरसः । उरस्यः ।
मदजनहलात्करणजल्पकर्षेषु ||३|३|२०१ ॥ मद जन हल इत्येतेभ्यो यथासंख्यं करण जल्प कर्ष इत्येतेष्वर्थेषु यो भवति । करणादयः शब्दा भावे करणे वा व्युत्पादयितव्याः । तेन सामर्थ्यात्त्योत्पत्तिः । मदकस्य करणं मद्यम् । मदस्थाने केचिन्मतशब्दं पठन्ति तेषां मत्यमिति भवति । जनस्य जल्पः जन्यः । हलस्य कर्षः, इल्यः । द्विहल्यः । परमहल्यः ।
तत्र साधुः ||३|३|२०२॥ तत्रेतीसमर्थात्साधुरित्येतस्मिन्नर्थे यो भवति । सामनि साधुः, सामन्यः । कर्मण्यः । सभ्यः । शरण्यः । साधुरिह योग्यो निपुणो वा न तु हितः, तत्र हि प्राक्ठणीय एव त्यः ।
प्रतिजनादेः खम ||३|३|२०३|| तंत्र साधुरिह वर्तते । प्रतिजन इत्येवमादिभ्यः खञ भवति । यस्याऽपवादः । जनं जनं प्रति प्रतिजनम् । यथार्थे हसः । प्रतिजने साधुः प्रातिजनीनः । प्रतिजन । इदंयुग । संयुग । परयुग । परकुल । परस्यकुल । अमुष्यकुल । निपातनात्ताया अनुप् । सर्वजन । विश्वजन । पञ्चञ्चन । महाजन । योऽत्र हितार्थः साध्वर्थः, तत्र वचनात्प्राकूठणीयस्य बाधा ।
भक्ताण्णः ||३|३|२०४ || तत्र साधुरिह वर्तते । भक्तशब्दाणो भवति । यस्याऽपवादः । भक्ते साधुर्भाक्तस्तदुलः ।
परिषदो रयः || ३ | ३|२०५|| तत्र साधुरिति वर्तते । परिषच्छन्दा एण्यो भवति । यस्याऽपवादः । परिषदि साधुः पारिषद्यः । गोऽप्यत्राऽनुवृत्तिरिष्यते । परिषदि साधुः पारिषदः ।
कथादेष्टन् || ३ | ३| २०६ ॥ तत्र साधुरिति वर्तते । कथा इत्येवमादिभ्यष्ठय् भवति । यस्याऽपवादः । कथायां साधुः, काथिकः । कथा | विकथा । विश्वकथा | संकथा । वितन्द्रा । कुष्टिदा ( कुष्टचित् ) । जनवाद | जनेवाद | चित्रवृत्ति । सङग्रह । गण । गुण । श्रायुर्वेद । गुड । कुल्यास ( कुल्माष ) । सक्तु । पूप | मांसौदन | इक्षु | वेणु । संग्राम | संघात | प्रवास | निवास । उपवास ।
पथ्यतिथिवसतिस्वपतेर्ढन् ॥३ | ३|२०७ ॥ तत्र साधुरिति वर्तते । पथ्यादिभ्यो ढञ् भवति । यस्यापवादः । पथि साधु पाथेयम् । श्रातिथेयम् । वासतेयम् । स्वापतेयम् ।
समानोदरे शयितः ||३|३|२०८ ॥ तत्रेति वर्तते । निर्देशाद् वा ( ईप्समर्थात् ) समानोदरशब्दात् शयित इत्यस्मिन्नर्थे यो भवति । समानोदर्यः । सोन्दर्यः । "वोदयें " [ ४ | ३ | १३४ ] इति समानस्य सादेशः । कथं तर्हि सोदरशब्दस्य सिद्धि: ! " समानस्य'' [ ४ | ३|१३२ ] इति योगविभागात् । इत्यभयनन्दिविरचितायां जैनेन्द्र महावृत्ती तृतीयस्याऽध्यायस्य तृतीयः पादः समाप्तः ।
१ - रिह व प्र० पू०
For Private And Personal Use Only