SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८ जैनेन्द्र-व्याकरणम् [भ० ३ पा० ३ सू० ११२-११० रथं वहति, रथ्यः। युग्यः । प्रासङ्गयः । इहानभिधानान्न भवति । कालसंशिनं युगं वहति राजा । युगं वहति मनुष्यः । “शकटादण वक्तव्यः" [वा०] शकटं वहति शाकटो गौः । “हलसीरा?ण वक्तव्यः" [वा. ] हलं वहति हालिकः । सैरिकः। नेदं वक्तव्यम्; शकटस्य बोढा हलस्य वोढा इत्येवं विग्रहे शैषिकेणाणा "हलसीरा?ण्" [ १२] इति ठणा च सिद्धम् । तर्हि रथग्रहणमप्यनर्थकम् । “रथाद्यः" [३३६ ] इत्यनेन सिद्धत्वात् । तदन्तार्थमिह रथग्रहणम् । द्वौ रथो वहति, द्विरथः । अत्र प्रारद्रवीयस्य "रस्योबनपत्ये" [३।७४ ] इत्युप् प्रसज्यते । धुरो ढण वा ॥३।३।१६२॥ धूःशब्दाद् वहतीत्यस्मिन्नर्थे ढण भवति यश्च । प्रकृतिविशेषाहणा विधीयमानेन यस्य बाधने प्राप्तेऽनेन समुच्चयः क्रियते । न त्वनुकर्षः । उत्तरत्राऽप्यनुवृत्तेः । धुरं वदति, धौरेयः । धुर्म्यः। सर्वैकाभ्यां खः ॥३।३।१९३॥ तद्वहतीति वर्तते । सर्व एकशब्दाभ्यां परस्या धुरः खो भवति । सर्वा धूः, सर्वधुरा । “पूर्वकालैकसव" [२४] इत्यादिना पसः । सर्वधुरां वहति, सर्वधुरीणः । एक धुरीणः। 'एकधुराशब्दारखस्योस् वक्तव्यः" [वा०] एकधुरं वहति. एकधुरः । न वक्तव्यः । एकस्या धुरो बोढेभ्या ( त्या ) गतस्याणः "रस्योबनपत्ये" [३।११७४] इत्युपा सिद्धम् । इष्टसङ्ग्रहार्थश्चकारोऽनुवर्त्यः । उत्तरधुरीणः। विध्यत्यकरणेन ॥३३॥१९४॥ तदिति वर्तते । इप्समर्थान्मृदः विध्यतीत्यस्मिन्नर्थे यो भवति न चेत्करणेन विध्यति तदिति । पादं विध्यति पद्याः शकराः। "पद्य"[३/१६४] इति पादस्य पदादेशः। ऊरव्याः कण्टकाः। प्रकरणेनेति किम १ पादं विध्यति धनुषा । प्रतीयमानेऽपि धनुषः करणत्वेनानभिधानान्न भवति । शक्र विध्यति । चोरं विध्यति राजा। जन्यधेनुष्यान्नवश्यवन्यगण्यपद्यमूल्यहृद्यसतीर्थ्यगाहप-याः ॥३॥३॥१९५॥ जन्यादयः शब्दा निपात्यन्ते । जनी वधः, तां वहतीत्यत्रार्थे यः । जन्याः परिणेतसहायानामियं संज्ञा । 'धेनुष्येति संज्ञायां धेनुशब्दाद्यः षुक्चागमः" प्रकृष्टा धेनुर्धनुष्या । या गोपालाय दोहार्थे दीयते । अन्यत्र धेनुतरेति भवति । अन्नं लब्धेत्यस्मिन्वाक्ये अन्नापणो निपात्यते । श्रान्नः। वशं गत इत्यस्मिन्वाक्ये वशशब्दाद्यः । वश्यः । विनेय इत्यर्थः । धनगणशब्दाभ्यामिवन्ताभ्यां कब्धरि य: । वनं लब्धा वन्यः । गणं लब्धा गएयः । पदमस्मिन् दृश्यते अस्मिन्वाक्ये पादशब्दाद्यः । पद्य हिमम् । पद्यः कर्दमः । पदमस्मिन्द्रष्टुं शक्यमित्यर्थः । 'मूलमस्याबहि' इत्यस्मिन्वाक्ये मूलशब्दाद्यः। मूल्या मुद्गाः । मूल्या माषाः । मूलोत्पाटेन समाह्या इत्यर्थः । श्रथवा मूलेन समं मूल्यं वस्त्रम् । मूलेनानम्यं वा मूल्यम् । हृदयस्प प्रिय इत्यस्मिन् वाक्ये हृदयशब्दाद्यः। "हृदयस्थ हल्लेखयाण्लासेषु' [ १६] इति हृदादेशः। हृद्यो देशः। हृद्यमन्नम् । हृदयस्य बन्धनमृषिः हृद्यः। वशीकरणभूत इत्यर्थः। समाने तीर्थे वसतीत्यस्मिन्वाक्ये समानतीर्थशब्दाद्यः। समानस्य च सभावः । सतीर्थ्यः । गृहपतिना संयुक्त इत्यस्मिन्वाक्ये गृहपतिशब्दात् ज्ञायां न्यो निपात्यते । गाईपत्योऽग्निः। बयस्तुलाभ्यां सम्मिते ॥३३॥१६॥ निर्देशादेव भाया उपादानम् । वयस्तुला इत्येताभ्यां भासमर्थाभ्यां सम्मितेऽर्थे यो भवति । वयसा सम्मितः, वयस्यः । संज्ञायामभिधानम् । अन्यत्र वयसा सम्मितः शत्रुरित्येव । तुलया सम्मितं तुल्यम् । सदृशमित्यर्थः। नौधर्मविषसीताभ्यस्तार्यप्राप्तबध्यसमितेषु ॥३।३।१९७॥ त्यार्थवसाभासमर्थादिति लभ्यते । नावादिभ्यश्चतुर्यो भासमर्थेभ्यो यथासंख्यं तार्यादिषु यो भवति । नावा तायं नाव्यमुदकम् । “यि त्ये" [३।६७] इत्यावादेशः। प्राक्कनेन धर्मेण प्राप्तं धर्म्यम् । वयनाणं तु धर्मादनपेतं धर्म्य न्याय्यमुच्यते । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy