________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.०३ पा० ३ सू० १६०-१६] महावृत्तिसहितम्
२१५ माथिकः। मौलमाथिकः । पदस्य वी पदवी । "वेनो डित्" इति इकारो डित् । "सर्वतोऽक्त्यर्थादित्ये" [ 1 ग. सू०] इति डीविधिः । तां धावति, पादविकः । पदस्य पश्चाद्धावतीति, अनुपदिकः । श्राक्रन्दिकः ।
पदद्योग हाति ॥३॥३॥१६०॥ तदिति वर्तते । पदाशब्दाद् इप्समर्थाद् गृह्णातीत्यस्मिन्नथें ठण भवति । श्रादिपदं गृह्णाति, आदिपदिकः । पौर्वपदिकः । श्रौत्तरपदिकः ।
प्रतिकण्ठलनामार्थात् ।।३।३।१६।। तदिति गृह्णातीति च वर्तते । प्रतिकण्ठ ललाम अर्थ इत्येतेभ्य इप्समर्थेभ्यो गृह्णातीत्यस्मिन्नर्थे ठण् भवति । कण्ठं प्रति, प्रतिकण्ठम् । “लक्षणेनाभिमुख्येऽभिप्रती' [1३11इति हसः । प्रतिकण्ठं गृह्णाति, प्रातिकण्ठिकः । प्रतिगतः कण्ठः, प्रतिकण्ठः इत्यत्राभिधानं नास्ति । "पुरुषध्यमऋषु हविभूषण लक्ष्मसु । वामश्रेष्टावनीन्द्रेषु ललामं नवसु स्मृतम् ॥' लालामिकः । आर्थिकः ।
धर्म चरति ॥३।३.१६२।। धर्मशब्दादिप्समर्थाच्चरतीत्यस्मिन्नर्थे ठण भवति । तदिति वर्तमाने पुनः समर्थविभक्त्युपादानं किम् ? श्रासेवायां यथा स्यात् । मुहुर्मुहुर्धर्मं चरति, धार्मिकः । "अधर्माच्चेति वक्तव्यम्" [वा०] । श्राधर्मिकः ।
प्रतिपथमेति ठश्च ॥३॥३॥१६३।। प्रतिपथशब्दादिप्समर्थादेतीत्यस्मिन्नर्थे ठो भवति ठण् च । प्रतिपथमेति, प्रतिपथिकः । प्रातिपथिकः।
समवायात्समवैति ।।३।३।१६४॥ समवायवाचिभ्य इ'समर्थेभ्यः समवैती यस्मिन्नर्थे ठण भवति । बहुवनिर्देशात्तस्य तत्पर्यायाणां च ग्रहणम् । समवायं समवैति, सामवायिका। सामूहिकः । सामाजिकः । सांसदिकः ।
परिषदो ण्यः ॥३।३।१६५।। तदिति वर्तते । परिषच्छब्दादिप्समर्थात् समवैतीत्यस्मिन्नर्थे ण्यो भवति । ठणोऽपवादः । परिषदं समवैति, पारिषद्यः ।
सेनाया वा ॥३३॥१६६॥ सेनाशब्दादिपसमर्थाद्वा एयो भवति समवैतीत्यस्मिन्नथें । पक्षे ठण भवति । सेनां समवैति सैन्यः । सैनिकः ।
नानाटिककोक्कुटिकौ ॥३॥३॥१६७।। लालाटिफकोक्कुटिकशब्दौ निपात्येते । ललाटकुक्कुटीशब्दाभ्याम्पसमर्थाभ्यां पश्यतीत्यस्मिन्नर्थे ठण, निपात्यते । ललाटं पश्यति, लालाटिकः सेवकः । कुक्कुटीशब्देन कुक्कुरीपातमत्रो देशो लक्ष्यते । कुक्कुटौं पश्यति, कौक्कुटिको भित्तुः । पुरो युगमात्रदेशप्रेक्षीत्यर्थः ।
तस्य धर्म्यम् ॥३।३१६८।। धर्म्य न्याय्यम् । तस्येति तासमर्थाद् धर्म्यमित्यस्मिन्नर्थे ठण भवति । शुल्कशालाया धर्म्यम्, शोल्कशालिकम् । श्रातरिकम् । आपणिकम् ।
ऋन्महिष्यादेरण ॥३॥३॥१६६।। तस्य धर्म्यमिति वर्तते । ऋकारान्तान्मृदः महिषी इत्येवमादिभ्यवाण् भवति । ठणोऽपवादः । मातुर्धर्म्य मात्रम् । पैत्रम् । होत्रम् । शास्त्रम् । महिण्यादिभ्यः । महिष्या धर्म्यम्, माहिषम् । महिषी । प्रजावती । केषाश्चित् प्रजापतीति पाठः। प्रलेपिका । विलेपिका । अनुलेपिका । वर्णकपेषिका । 'भस्य हृत्यढे" श१४७ वा०] इति पुंवद्भावः प्राप्तः "न वुहृत्कोड: ११ इति प्रतिषिध्यते । "विसितुस्टिः खं च" [वा.]। विशसितुर्धय॑ वैशस्त्रम् | "विभाजयितुर्णिखच" [वा.]। विभाजयितुर्धर्म्य वैभाजित्रम् ।
१. सो( शो )रकमाथिकः १० । सौ( शौ )ल्वमाथिकः अ० ।
For Private And Personal Use Only