SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१६ जैनेन्द्र-व्याकरणम् [म०३ पा० ३ सू० १७0-150 अवक्रयः ॥ ३३६१७० ॥ तस्येति वर्तते । तस्येति तासमर्थान्मृ दोऽवाय इत्यस्मिन्नथें ठण भवति । श्रवक्रीयतेऽनेनेत्यवक्रयः। श्रन्याय्यमपि स्वेच्छया परिकल्पितपरिमाणम् । द्रव्यमेकत्र पिण्डितमित्यर्थः । शुल्कशालायामवक्रयः शौल्कशालिकः । श्रातरिकः । अापणिकः । गौल्मिकः । सदस्य पण्यम् ॥३॥३३१७१॥ तदिति वासमर्थात् पण्यविशिष्टादस्येति तार्थे ठण भवति । अपूपाः पण्यमस्य, श्रापूपिकः । शाष्कुलिकः । किसरादेष्ठट् ॥३।३।१७२।। तदस्य परयमिति वर्तते । किसर इत्येवमादिभ्यष्ठड् भवति । ठणोऽपवादः । किसरं पण्यमस्य, किसरिको गन्धिकः । किसर । नलद। स्थगर तगर । उसी शीर गाल। हरिद्रा । हरिनुपर्णी । शलालनो वा ॥३॥३६१७३।। तदस्य पण्यमिति वर्तते । शलालुशब्दाद्वा ठड् भवति । पक्षे ठण भवति । शलालु पण्यमस्य, शलालुकः । शालालुकः । शिल्पम् ॥३।३१७४॥ तदस्येति वर्तते । शिल्प क्रियाविशेषे नैपुएम् । तदिति घासमर्थादस्येति तार्थे ठण भवति, यत्तद्वानिर्दिष्टं शिल्पं चेत्तद् भवति । (मृदङ्ग वादनं शिल्पमस्य, मादंङ्गिकः । ) मृदङ्गवादने मृदङ्गशब्द उपचयंते, तस्मादेव त्यः । एवं पाणविकः । वैणविकः । मडूकझमराद् वाऽण् ॥३।३।१७।। तदस्य शिल्यमिति वर्तते । मड्डुकझर्झरशब्दाभ्यां वाण भवति । अणाऽनुक्ते ठण् भवति । मड्ड कवादनं शिल्पमस्य, माडकः। माड्डुकिकः । झाझरः। झाझरिकः । प्रहरणम् ॥३३१७६।। तदस्येति वर्तते । वासमर्थात्प्रहरणोपाधिविशिष्टान्मृदः अस्येति तार्थे ठण भवति । असिः प्रहरणमस्य, श्रासिकः । त्सारकः । धानुष्कः । शक्तियष्टेष्टोकण ॥३।३।१७७॥ शक्लियष्टिशब्दाभ्यां टीकण भवति तदस्य प्रहरणमित्यस्मिन्विषये । ठयोऽपवादः । शक्तिः प्रहरणमस्य, शाक्तीकः । याष्टोकः । इकारोच्चारणसामर्थ्यात् "यस्य याब" [ ३६] इति खं न भविष्यति (इति) दीवोच्चारणं किम् १ अन्यत्रापि यथा स्यात् । अन्तः (श्रम्भः) प्रहरणमस्य, श्रान्तसीकः (प्राम्भसीक:)। इर्ष प्रहरणामस्य ऐषीकः । बहिर्भवः बाहीक इति । नास्तिकास्तिकदैष्टिकाः ।।३।३।१७।। नास्तिकादयः शब्दा निपात्यन्ते । नास्ति अस्ति दिष्ट इत्येतेभ्यः शब्देभ्यो मतिविशिष्टेभ्योऽस्येति तार्थे ठण निपात्यते । परलोको नास्तीति मतिरस्य, नास्तिकः । परलोकोऽस्तीति मतिरस्य, श्रास्तिकः। दिष्टं दैवतं तत्प्रमाणमस्य, दैष्टिकः । निपातनाद्वाक्यादपि त्यविधानम् । शीलम् ॥३३॥१७६।। तदस्येति वर्तते । वासमर्थादस्येति तार्थे ठण भवति वासमर्थ शीलं चेद भवति । अपूपभक्षणं शीलमस्य, आपूपिकः । तास्थ्याचाच्छब्यमिति अपूपशब्दात्यः । एवं शाष्कुलिकः । मौदकिकः। (छत्रादेर्णः ॥३३११८०॥ तस्य शोलमिति वर्तते । छत्र इत्येवमादिभ्यो णो भवति । ठणो अवादः । छत्रमावरणं तद्वद्गुरुकायेंष्ववहितखम् | छत्रं शीलमस्य, छात्रः । शिष्यः शीलमस्य' शैष्यः । छत्र | शिष्य । मुक्षा । मिक्षा । तितिक्षा | चुरा । उदस्थान । कृषि । कर्मन् । तपस् । पुरोड । आस्था । संस्था । अवस्था । विश्वधा । सत्य । अन्त । पिसिक (शिविका। शिक्षा (क्षा ) शीलमस्य शैक्षः अ०, पू० । २. शिक्ष (क्षा) म०, ५० । ३. मुक्षा (पुमुक्षा) म., पू.। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy