________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४
जैनेन्द्र-व्याकरणम् [म. ३ पा० ३ सू० ११२-१५६ श्रानुलोमिकः । हसे कृते "प्रत्यन्ववात्सामोग्नः" [ ४२] इति श्रः सान्तः । प्रातिकूलिकः । श्रानुकूलिकः । अथवा प्रतिगता आपोऽस्मिन्निति प्रतीपम् इति । एवं सर्वत्र वसः कर्तव्यः ।
परिमुखम् ॥३॥३॥१५२।। तदिति वर्तते । परिमुखशब्दात् इप्समर्थाद् वर्तते इत्यस्मिन्नर्थे ठण भवति । मुखात्परि परिमुखम् । “वर्जनेऽपपरिभ्याम्" [ २] इति का । "पर्यपापहिरञ्चवः कया" [१॥३१.] इति हसः । परिमुखं वर्तते पारिमुखिकश्चौरः। सर्वतो मुखं वा परिमुखम् । प्रादिलक्षणः सः । पारिमुखिकः । “परिपावच्चेिति वक्तव्यम्' [ वा० ] । पारिपार्श्विकः ।
प्रयच्छति गाम् ॥३।३१५३।। तदिति वर्तते । तदिति इप्समर्थात्प्रयच्छति इत्यस्मिन्नथें ठण भवति यत्तदिप्समर्थ चेत्तद् भवति । द्विगुणं प्रयच्छति, दैराणिकः । त्रैगुणिकः । "(वृ) ष्ठणि वृधुषिभावो वक्तव्यः' [वा०] (वृद्धिं प्रयच्छति वार्धषिकः । यदि प्रकृत्यन्तरमस्ति, व्यविकन्यायेन तस्मादेव त्यः । गर्यमिति किम् ? द्विगुणं प्रयच्छत्यधमर्णः ।
___ कुसीददशैकादशाह्रौ ॥३।३।१५४॥ तत्प्रयच्छति गर्यम् इति च वर्तते । कुसीद-दशैकादशशब्दाभ्यां प्रयच्छतीत्यस्मिन्नर्थे ययासंख्यं ठट् ठ इत्येतो त्यौ भवतः ठणोऽपवादो। कुसीदम् श्रृणं वृद्धिर्वा । कुसीदं प्रयच्छति, कुसीदिका । कुसीदिकी । एकादशार्था दश दशैकादश निपातनात्सः । तान् प्रयच्छति, दशैकादशिको । दशैकादशिका।
रक्षत्युन्छति ॥३।३।१५५॥ तदिति इपसमर्थाद रक्षति उञ्छति इत्येतयोरर्थयोष्ठः भवति । समाज रक्षति, सामाजिकः । नागरिकः । वदराण्युञ्छति वादरिकः । नैवारिकः ।
शब्ददद्रं करोति ॥३॥३॥१५६।। इप्समर्थाभ्यां शब्ददर्दुरशब्दाभ्यां करोत्यस्मिन्नर्थे ठण् भवति । शब्दं करोति, शाब्दिकः । वैयाकरण इत्यर्थः । दादुरिकः कुम्भकारः) तदित्यधिकारे पुनः समर्थविभक्त्युपादानं लोकिकप्रयोगाऽनुसरणार्थम् । तेनेह न भवति । शब्दं करोति कासः । “अस्मिन्प्रकरणे तदाहेतिमाशब्दादिभ्य उपसंख्यानम्" [वा०] माशब्द इत्याह माशब्दिकः । नैत्यशब्दिकः । कार्यशब्दिकः । वाक्यादिदं विधानम् । "प्रभूतादिभ्यश्च" [वा. ] तदाहेति वर्तते। प्रभूतमाह प्राभूतिकः । पार्याप्तिकः । "पृच्छतौ सस्नानादिभ्य इप्समर्थेभ्यः" [वा.]। सुस्नातं पृच्छति, सौस्नातिकः । सोखरात्रिकः । सौखशायनिकः । "गच्छत्तौ परदारादिभ्य इप्समर्थेभ्यः" । वा०] 1 परदारं गच्छति, पारदारिकः । गौरुतल्पिकः ।
पतिमत्स्यमृगान् हन्ति ॥३॥३॥१५७।। तदिति इप्समर्थेभ्यः पत्तिमत्स्यमृगेभ्यो हन्तीत्यस्मिन्नर्थे ठण भवति । स्वरूपस्य पर्यायाणां तद्विशेषाणा ग्रहणम् । पक्षिणो हन्ति, पाक्षिकः) नास्यस्यामिधानमित्येके । पर्यायशब्दस्य शकुनेरेव ग्रहणम् । शाकुनिकः । तैत्तिरिकः । मायूरिकः । मत्स्य, मात्स्यिकः। पर्यायस्य मीनशब्दस्यैव अनिमिषादिषु न भवति । शाफरिकः । रौहितिकः । मृग, मार्गिकः । हारिणिकः । सौकरिकः । साङ्गिकः ।
परिपन्थं तिष्ठति ॥३३१५८॥ परिपन्थशब्दादिपसमर्थात तिष्ठतीत्यस्मिन्नथें ठण भवति "काटभावाऽध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्" [वा०] इति कर्मभावादिप् । परिपन्थं तिष्ठति पारिपन्थिकचौरः । पन्यानं वर्जयित्वा व्याप्य वा तिष्ठतीत्यथः । “हन्तीत्यपि वक्तव्यम्"वा.। परिपन्थं हन्ति, पारिपन्थिकः । परिपथपर्यायः परिपन्यशब्दोऽस्ति तस्यायं प्रयोगः ।
माथापदन्यनुपदाकन्दं धावति ॥३॥३३१५६।। तदिति वर्तते । माया पदवी अनुपद श्राक्रन्द इत्येतेभ्य इप्समर्थेभ्यो धावतीत्यस्मिन्नर्थे ठण भवति । माथशब्दो मार्गपर्यायः। दण्डमाथं धावति, दण्ड
For Private And Personal Use Only