________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ३ पा० ३ सू० १४२-१५१ ]
महावृत्तिसहितम्
निर्वृत्तेऽक्षघृतादेः ॥ ३|३|१४२ ॥ इरतीति निवृत्तम् । तेनेति वर्त्तते । श्रद्यूतादिभ्यो भासमर्थेभ्यो निर्वृत्तेऽर्थे ठण् भवति श्रद्यूतेन निर्वृत्तम् श्राद्यूतिकम् । श्रद्यूत । जङ्गाहत । जङ्घाप्रहृत । पादस्वेदन | कण्टकमर्द्दन । शर्करामर्दन । गतागत । यातोपयात । श्रनुगत ।
२१३
भावादिमः || ३|३ | १४३ ॥ तेनेति निर्वृत्त इति च वर्त्तते । भाववाचिनो मृदो भासमर्थान्निर्वृत्तेऽर्थे इम इत्ययं त्यो भवति । कुट्टेन निर्वृत्ता, कुट्टिमा भूमिः । से किमोऽसिः । पाकिम श्रोदनः ।
त्रेः ||३|३|१४४॥ त्र्यन्ताच्च इमो भवति तैनेति निर्वृत्तेऽर्थे । पूर्वेण सिद्धे पुनरारम्भो वाक्यनिवृत्त्यर्थः । अस्वपदेनार्थः प्रदर्श्यते । पाकेन निर्वृत्तम् पवित्रमम् । वापेन निर्वृत्तम्, उप्त्रिमम् । करणेन निर्वृत्तम्, कृत्रिमम् । भावे " ड्रिवत: क्त्रि: " [ २/३/७० ] इति क्त्रिः ।
3
नित्यम् || ३ | ३ | १४५ ॥ त्र्यन्तं नित्यमिमविषयं वेदितव्यम् । यथाऽन्ये भाववाचिनो निर्वृत्तार्थादन्यत्रापि प्रयुज्यन्ते । पाको वर्त्तते । सेको वर्तते इति निर्वृत्तार्थे वाक्यं वृत्तिश्च भवति, तथा त्र्यन्तस्य त्रैरूप्यं मा भूत् इत्येवमर्थमिदमुच्यते । पूर्वेण वाक्यनिवृत्तिः कृताऽनेनेमविषयादन्यत्र प्रयोगो निषिध्यते ।
याचिताऽपमिश्यात्क || ३ | ३|१४६ ॥ तेनेति निवृत्तमिति च वर्तते । याचित- श्रपमित्यशब्दाभ्यां कण भवति । याचितेन निर्वृत्तं याचितकम् । श्रापमित्यकम् । "माङो व्यतिहारे" [२|४|५] इति त्वात्यः । "वेर्मेरुः " [ ४|४|६१ ] इत्वम् । अभान्तादपि वचनाच्यः । श्रपमित्य इत्यनेन निर्वृत्तम् इत्येवं विग्रहे शब्दान्तरेण करणत्वं व्यज्यते ।
,
संसृष्टे ||३|३|१४७|| तैनेति वर्तते । भासमार्थान्मृदः संसृष्टेऽर्थं ठय् भवति । संसृष्टं मिश्रितम् । दध्ना संसृष्टम् दाधिकम् । मारीचिकम् । "चूर्णादिन् वक्तव्यः " [ वा० ] । चूर्णेन संसृष्टाः, चूर्णिनो धानाः । चूर्णिनोऽपूपाः । इह कस्मान्न भवति, लवणेन सैन्धवादिना संसृष्टमिति १ अनभिधानात् । कथं लवणः सूपः, लवणं शाकम्, लवणा यवागूरिति १ गुणवाचिनो लवणशब्दस्य तद्योगात् द्रव्ये वृत्तिरियम् । यथा कषायमुदकम् । कटुकमुदकमिति ।
मुद्गादण् || ३ | ३|१४८६|| मुद्गशब्दाद् भान्तादय् भवति संसृष्टेऽर्थे । ठणोऽपवादः । मौद्ग
श्रोदनः ।
व्यञ्जनैरुपसते ||३|३|१४६ ॥ तेनेति वर्त्तते । समर्थविभक्त्युपादानं तस्यैव व्यक्तये । व्यञ्जनवाचिभ्यो भासमर्थेभ्य उपसिक्केऽर्थे ठ भवति । दध्ना उपसिक्कं दाधिकं भक्तम् । घार्तिकः सूपः । व्यञ्जनैरिति किम् ! उदकेन उपसिक्त श्रोदनः । बहुत्वनिर्देशः स्वरूपनिरासार्थः ।
श्रोजः सहोऽम्भसा वर्त्तते || ३ | ३ | १५० ॥ तेनेति वर्त्तते । निर्देशाद् वासमर्थविभक्त्युपादानम् । श्रोणःप्रभृतिम्यो भासमर्थेभ्यो वर्तते इत्यस्मिन्नर्थे ठणू भवति । श्रोनसा वर्तते श्रौजसिकः । साहसिकः । श्राम्भसिकः ।
For Private And Personal Use Only
तत्प्रत्यनुपूर्व मी पलोमकूप्रात् || ३ | ३|१५९|| तदिति इप्समर्थेभ्यः प्रति श्रनु इत्येवंपूर्वेभ्यः ईपलो मकूलशब्देभ्यो वर्तत इत्यस्मिन्नर्थे ठण् भवति । वृत्तिः क्रियासामान्ये वर्तमानः सकर्मकः । वर्तते श्राचरतीत्यर्थः । श्रपः प्रति प्रतीपम् । "वीप्सेत्थंभूतलक्षणेऽभिने” [118|११] | "भागे चानुप्रतिपरिणा” [ १|४|१२] इति लक्षणेऽर्थे ईप् 'लक्षणेनाभिमुख्येऽभिप्रती [ १३ ११] इति हसः | "द्वथनगेरीदप:' [ ४३ । २०२ ] इति ईत्वम् । भावप्रधाना चेयं वृत्तिः । समुदायात्कर्मणीप् । प्रतीप वर्तते प्रातीपिकः । श्रनुर्यथार्थे वर्त्तमानः श्रप्शब्देन सह हसो भवति । श्रान्वीपिकः । प्रतिलोम वर्तते, प्रातिलोमिकः ।