________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१२
जैनेन्द्र-व्याकरणम्
[ अ० ३ पा० ३ सू० १३० १४१
तरति || ३|३|१३० ॥ तेनेति वर्तते । भासमर्थात्तरतीत्यस्मिन्नर्थे ठण् भर्वात । उडुपेन तरति डुपिकः । कालविकः । साराविकः । गौपुच्छिकः ।
Acharya Shri Kailassagarsuri Gyanmandir
नौह्रष्ठः ||३|३ | १३१|| तेनेति तरतीति च वर्त्तते । नौशब्दाद्वयचश्च मृदष्ठो भवति । ठणोऽपवादः । नावा तरति नाविकः । नावि स्त्री । द्वयचः, घटेन तरति घटिकः । विक: । बाहुकः । चरति || ३ | ३|१३२ ॥ तेनेति वर्त्तते । चरतिरिह भक्षणार्थो गत्यर्थश्वेष्टः । तेनेति भासमर्थाच्चरति इत्यस्मिन्नर्थे यथाविहितं त्यो भवति । इह तु करणे भा । शकटेन चरति, शाकटिकः । हारितकः । पर्यादेष्ठ ||३|३|१३३ ॥ तेनेति चरतीति च वर्त्तते । पर्प इत्येवमादिभ्यष्ठट् भवति । ठणोऽपवादः । पर्पेण चरति, पर्पिकः । पर्पिकी । श्रश्विक: । श्रश्विकी । पर्प । श्रश्व । ऊपर। श्रश्वत्थ इति केचित् । रथ । जाल । व्यास । पादः पच्च । पदिकः । पदिकी ।
श्वगणाद्वा ||३|३|१३४॥ तेनेति चरतीति वर्त्तते । श्वगणशब्दाद् वा ठड्भवति । पक्षे ठण् । श्वगणेन चरति, श्वगणिकः । श्वगणिकी । वागणिकः । श्वागणिकी । ठणि श्वशब्दस्य द्वारादित्वादौवादेशः प्रातः " श्वादेरावत : " [ ५।२।१३ ] इति प्रतिषेधः ।
वेतनादेर्जीवति ||३|३|१३५ ॥ तेनेति वर्त्तते । वेतनादिभ्यो भान्तेभ्यो जीवतीत्यस्मिन्नथ यथा विहितं त्यो भर्वात । वेतनेन जीवति, वैतनिकः । वेतन । बाहु । श्रर्द्धबाहु । उस् । दण्ड । धनुर्दण्ड । धनुर्दण्डग्रणं सङ्घातविगृहीतार्थम् । वेश । उपवेश । प्रेषण । भृति । जाल । उपस्थ । सुख । शष्प | शक्ति । उपनिषत् । ष्फिक् ( स्रक् ) । पाठ । उपस्थान ।
वस्नक्रयविक्रयाः ||३|३|१३६ ॥ तेनेति जीवतीति च वर्त्तते । वस्न क्रयविक्रयशब्दाभ्यां ठो भवति । वस्नं मूल्यम् वस्नेन जीवति, वस्निकः । क्रयविक्रयेण जीवति, क्रयविक्रयिकः । उभयथा वाक्याश्रयणाक्रयविक्रयेण जीवति, क्रयिकः । विक्रयिकः ।
छश्चायुधात् ||३|३|१३७॥ श्रायुध्यतेऽनेनेत्यायुधम् । व्यव्यर्थ ( घञर्थे ) कविधानं स्थास्नापानियुध्यर्धमिति । श्रायुधशब्दाद् भासमर्थाच्छश्च भवति ठश्च जीवतीत्यर्थे । श्रायुधेन जीवति श्रायुधीयः । युधिकः । श्रायुधिका स्त्री ।
हरत्युत्सङ्गादेः ||३ | ३|१३८ ॥ तेनेति वर्त्तते । उत्सङ्ग इत्येवमादिभ्यो भासमर्थेभ्यो हरतीत्यस्मिन्नर्थे ठण भवति । उत्सङ्गेन हरति, श्रौत्सङ्गिकः । उत्सङ्ग । उडुप । उत्तप । उत्त उत्पुत ) । पिटक । पिटाक ।
ठडभस्त्रादेः ॥३|३|१३९ ॥ भस्त्रा इत्येवमादिभ्यो भासमर्थेभ्यष्ठड् भवति । भस्त्रया हरति, भस्त्रिकः । भत्रिकी । भस्त्रा । भरट भरण। शीर्षभार । सभार । अंसेभार ।
वा विधवीवघात् ||३|३|१९४० ॥ तेनेति हरतीति वर्तते । विवधवीवधशब्दाभ्यां वा ठड् भवति, तेन मुक्त ठ भवति । विवर्धन हरति, विवधिकः । वीवधिकः । ठणि । वैवधिकः । स्वदेशान्वाधति' ( बिवा - ध) वधूः पर्याहार इत्यर्थः । तद्योगात्पथा अपि तथोच्यते । विवधशब्दस्य पृषोदरादित्वाद्वा दीत्वम् । I
I
श्रण कुटिलिकायाः || ३ | ३ | १४१ ॥ कर्माराणामङ्गारापकर्षणी, मृद्गतां (त) पलालोत्देपणो दण्डः, परिव्राजकानां त्रिदण्डधारणम् । कुटिलिका । कुटिलिका शब्दाद् भासमर्थादय् भवति इरत्यस्मिन्नर्थे । कुटिलिका हरति, कौटिलिकः कर्मारः कर्षकः, परिवाजको वा । अन्यत्राऽपि प्रयोगोऽम्यूह्यः ।
१. शादन्व | यतिर्वी० पू० । - सान्वायतिवि - ब० ।
For Private And Personal Use Only