________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मे० ३ पा० ३ सू० १२३-१२६] महावृत्तिसहितम्
२११ नैयग्रोधम् । "न्यप्रोधस्य केवलस्य' [५।२।१०] इत्यैप् । पक्ष । न्यग्रोध । अश्वत्य । इङ्गुदी । शिनु । किततन्तु । बृहती।
जम्म्या वोश्च ।।३।३।१२३॥ फल इति वर्तते । जम्बूशब्दादवयवविशेषे फलेऽभिधेये वा उस् भवति अण् च । पक्षे उम्भवति । जग्ब्वा अवयवः फलम् , मयट उसि, जम्बूः फलम् । अणो वचनादुस् न भवति । जाम्बवं फलम् । उपि बम्बु फलम् ।
हरीतक्यादेः ॥३॥३।१२४॥ उसिति वर्तते फले इति च । हरीतक्यादिभ्यः फले अवयवे उस् भवति त्यस्य । हरीतक्या अवयवः फलम् , हरीतकी फलम् । हरीतकी । पिप्पली । कोशातकी । नखरजनी । चण्डी। दोडी । श्वेतपाकी । अर्जुनपाकी । शाला | काला । दादा | ऋक्षा । गङ्गडिका । कण्टकारिका | शेफालिका। "येषां च पाकनिमित्तः शोषः, तेभ्यश्च उस् फले" [चा. ] बीहयः। यवाः। माषाः। मुद्गाः। "पुष्पमूलेषु बहुलम्" [वा०] । मल्लिकायाः पुष्पम्, अवयवः, मल्लिका । नवल्लिकाः । जाती । बृहत्या मूलमवयवः, बृहती । विटारी । अंशुमती । न च भवति उस् उबेव भवति । पाटलानि पुष्पाणि । शाल्वानि मूलानि । करवीरं पुष्पम् । कदम्बम् । अशोकम् । क्वचिदुभयोरभावः । वैणवानि फलानि । “जम्डवा हरीत. क्यादिषु च उसि किङ्गमेव उक्तवद् भवति न वचनम्" [ वा०] । जम्बूः फलम् । नम्ब्वौ फले । जम्चः फलानि । हरीतकी फलम् । हरीतक्यौ फले । हरीतक्यः फलानि ।
कांस्यपारशयो ॥३।३१२५॥ कांस्य पारशव इत्येतौ शब्दौ निपात्येते । कंसीय-परशव्यशब्दयो यमिणोः परतश्छययोस् निपात्यते विकारेऽर्थे । यअणोरणोरनेनैव विधानम् । कासार्थम्, कंसीयम् । परश्वर्थ परशव्यम् । "दर्थ विकृतेः प्रकृती" [ 1] इत्यनेन प्राठणश्छः। "उगवादेर्यः" [३ ] इति छयौ भवतः । कंसीयस्य विकारः, कांस्यम् । परशव्यस्य विकारः, पारशवम् ।
पाटण ॥३३३३१२६॥ "तद्वहति रथयुगप्रासाथः'' [ ३३।११] इति यो वक्ष्यते । प्रागेतस्माद्यसंशब्दनाद्येऽग्रे वक्ष्यन्ते तेषु ठणधिक्रियते । वक्ष्यति "तेन दीम्यति खनति जयति जितम्" { २२१२७ ] इति । अर्दीव्यति प्राक्षिकः । शालाकिकः । प्राग्वचनं किम् १ अर्थविशेषे त्यान्तरंग निवर्तितस्य उत्तरत्रोपस्थानं यथा स्यादित्येवमर्थम् ।
तेन दीव्यति खनति जयति जितम् ॥३३।१२७॥ तैनेति भासमर्थात् दीव्यति खनति जयति जितमित्येतेष्वर्थेषु ठण् भवति । श्रर्दीव्यति श्राक्षिकः । शालाकिकः । अभ्रया खनति, प्राधिकः । कौदालिकः । श्रजयति, पाक्षिकः । शालाकिकः । अन्तिम् , अाक्षिकम् । शालाकिकम् । सर्वत्र करणे भा दाव्या। तेनेह न भवति देवदत्तेन जितमिति । दीव्यत्यादिषु त्रिषु संख्याकालावविवक्षितो। जितशब्टे कालो विवक्षितः। क्रियाप्रधानत्वेऽप्याख्यातस्य हृत्स्वभावादेव कारकाभिधायी । प्राधिको दीव्यतीत्यनप्रयोगः सन्देहनिवृत्यर्थः।
संस्कृतम ॥२३॥१२८॥ तेनेति वर्तते । भासमर्थान्मृदः संस्कृतमित्येतस्मिन्नर्थे ठण भवति । वक्ष्यमाणासंसृष्टात्संस्कृतस्य को भेदः। सतो गुणामिधानं संस्कारः। मिश्रणमात्रं संसर्गः। दधना संस्कृतं दाधिकम् । शाशवेरिकम् । मार्गचिकम् । "संस्कृतं भक्षाः" [३।२।१] हत्येतदाधारविवक्षायामुक्तम् |
कुलत्थकोकोऽण ॥३॥३२१२६॥ तेनेति संस्कृतमिति च वर्तते । कुलत्थशब्दात्ककारोङन मृदोऽण भवति । ठणोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । कोड, तैत्तिडीकम् । दादलकम् ।
१. कतन्तन्तु म०, ३० । कर्कन्धु इति काशिकायाम् ।
For Private And Personal Use Only