________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१०
जैनेन्द्र-व्याकरणम्
[अ० ३ पा० ३ सू० १११-१२२
तिलयवादखौ ||३|३|११२ ॥ तिलयवशब्दाभ्यामखुविषये नित्यं मयड भवति विकारावयवयोरर्थयोः । तिलानामवयवो विकारो वा, तिलमयम् । यवमयम् । श्रखाविति किम् ? तैलम् । यावकः । “कोऽवि या वादेः [४।२।१२] इति स्वार्थिकः कः ।
Acharya Shri Kailassagarsuri Gyanmandir
गोव्रीहेः शकृत्पुरोडाशे ॥ ३|३|११३ ॥ गोत्रीहिशब्दाभ्यां यथासंख्यं शकृति पुरोडाशे च विकाtsभिधेये नित्यं मयड् भवति । गोमयं शकृत् । ब्रीहिमयः पुरोडाशः । शकृत्पुरोडाश इति किम् ? गव्यं पयः । ब्रैह श्रोदनः ।
I
क्रीतवत्परिमाणात् ||३|३|११४ ॥ क्रीत इव परिमाणवाचिनः त्यविधिर्भवति विकारे । परिमीयतेऽनेनेति परिमाणं परिच्छेदहेतुः न तु रूढिपरिमाणमेव । तेन संख्यायाः प्रस्थादीनां च ग्रहणम् । क्रीतार्थे ये त्या यस्मात्परिमाणाद्विहिताः, ते विकारेऽप्यर्थे तस्मादेव परिमाणादतिदिश्यन्ते । यथा भवति "तेन क्रीतम्" [|४|३१] इत्यत्र । शतेन क्रीतः शतिकः, शत्यः । “शवादस्वार्थेऽसे ठयौ” [३७] १८] इति । सहस्रेण क्रीतं, साहस्रम् "शतमानविंशतिसहस्रवख नादण्" [३ | ४|२४ ] इति ठयायः । एवमिहापि शतस्य विकारः शत्यः, शतिकः, साहस्रः । यथा परिमाणात्क्रीतार्थे “मह” [ ३|४|१७] भवति । प्रस्थेन क्रोतः, प्रास्थिकः । क्रौडविकः । खार्या क्रीतः खारीकः । "खारी काकणीभ्यां कपू" [३|४|३०] इति कप् । एवं प्रस्थस्य विकार: प्रास्थिकः । कौडविकः । खारीकः ।
कोण्या ढम ||३|३|११५ ॥ कोश एणी इत्येताभ्यां ढञ भवति विकारावयवयोरर्थयोः । कोशाद्वस्त्रे प्रयोगः । कोशस्य विकारः, कौशेयं वस्त्रम् श्राच्छादनम् । मयट् नास्ति । योऽपवादः । एण्या विकारोऽवयवो वा, ऐणेयं मांसम् । ऐणेयं सक्थि । एणीति स्त्रीलिङ्गनिर्देशात्पुंस्यणेव भवति । ऐणं मृगम् ( मांसम् ) ।
भवति विकारावयवयोरर्थयोः । प्राणिलक्षणस्याऽणोऽ
• वोमोर्णात् ||३|३|११७॥ उमा श्रतसी । उमाऊर्णाशब्दाभ्यां वा वुञ् भवति विकारावयवयोरर्थयोः । माया विकारोऽवयवो वा चौमकम् । पढ़ें अणमयो । श्रमम् । उमामयम् । ऊर्णाया विकारः, श्रकम् । पक्षे पूर्ववदण्मयौ । श्रौर्णम् । ऊर्णामयम् ।
उष्ट्राद्वुञ ||३|३|११६ ॥ उष्ट्रशब्दाद्वुञ पवादः । उष्ट्रस्य विकारोऽवयवो वा श्रौष्टकम् ।
गोपयोः ||३|३|११८ ॥ गो पयस् इत्येताभ्यां य इत्ययं त्यो भवति विकारावयवयोरर्थयोः । गोर्विsimsarat वा गव्यम् । पयसो विकारः पयस्यम् ।
द्रोः ||३|३|११६ ॥ द्रोः शब्दाद्यो भवति विकारावयवयोः । अण्मयटोरपवादः । द्रव्यम् "प्राग्दो!" [३।११६८ ] इत्यधिकार इत ऊर्ध्वं न प्रवर्त्तते ।
माने वयः || ३ | ३ | १२० || द्रु शब्दान्माने विकारविशेषे वय इत्ययं त्यो भवति । पूर्वस्य यस्यापवादः । मानम् ।
उपफले || ३ | ३|१२१|| फलमवयवविशेषो यथा पत्रम् । श्रवयवविशेषे फल उत्पन्नस्य त्यस्योब्भवति । आमलक्या श्रवयवः फलम्, आमलकम् । मयट उपू । कुवल्या अवयवः फलम् कुवलम् । वदरम् | अरामयटोऽप् । सर्वत्र “हृदुप्युप्’' [१|१|३] इति स्त्रीत्यस्योप् ।
लक्षादिभ्योऽण् || ३ | ३ |१२२|| लक्ष इत्येवमादिभ्योऽय् भवति फलेऽवयवे विवक्षिते । प्रस्याऽ वयवः फलं प्लाक्षम् । श्रण्मयौ प्राप्तौ तयोश्च पूर्वेणोप्प्राप्तः, तदपवादोऽयम् । न्यग्रोधस्याऽवयवः फलम्
For Private And Personal Use Only