________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ३ पा० ३ सू० १०६ - १११]
महावृत्तिसहितम्
२०९
रोहीतक । विभीतक । पीतदारु । त्रिकएटक । कण्टकार । कायड । गवेधुक' । पाटली । येऽत्रादवः, तेभ्यः "मयडूवैतयोरभचयाच्छादनयो:' [ ३।३।१०८] इति विकल्पेन मयटि प्राप्तेऽपवादः ।
पुजतुनोः षुक् ||३|३|१०६ ॥ त्रपुजतुशब्दाभ्यां यथाविहितमय् भवति तत्सन्नियोगेन च धुगागमः । त्रपुणो विकारः, त्रापुषम् । जातुषम् ।
शम्याः लज् ||३|३|१०७॥ शमीशब्दादृष्टलम् भवति विकारावयवयोरर्थयोः । श्रणोऽपवादः । शामीलं भस्म । शामीली स्रुक् ।
मडवैतयोरभक्षाच्छादनयोः ||३|३|१०८ ॥ भक्ष्यमभ्यवहार्यम् । श्राच्छादनं वसनम् । तासमर्था - मृदो वा मय भवति भक्ष्याच्छादनवर्जितयोर्विकारावयवयोरर्थयोः । श्रश्मनो विकारोऽश्ममयम् । श्रश्मम् । सिकतामयम् | सैकतम् । दूर्वामयम् । दौर्वम् । विकाराऽवयवी प्रकृतावेव तत्किमर्थमेतयोरिति ग्रहणम् ? श्रनन्तरयोरपि योगयोरपवादबाधनार्थम् । त्रपुमयम् । जतुमयम् । शमीमयमिति । श्रन्ये' कपोतमयम्, रजतमयम्, लोहमयमित्यादि इच्छन्ति । तत्तेषां "प्राणिरजतादिभ्योऽज" [४ |३|१० पा० सू० ] इत्यस्य सूत्रस्य व्याख्यानेन विरुध्यते । तस्मात्कपोतमयमिति चिन्त्यम् । श्रभक्ष्याच्छादनयोरिति किम् १ मौद्गः सूपः । कार्पासः प्रावारः ।
नित्यं दुरादेः || ३ | ३|१०६ ॥ श्रभयाच्छादनयोरिति वर्त्तते । दुम्यः शरादिभ्यश्च तासमर्थेभ्यो भयाच्छादनवर्जितयोर्विकारावयवयोर्नित्यं मयडू भवति । दुभ्यः श्राम्रस्य विकारोऽवयवो वा श्राम्रमयम् । शालमयम् । शरादिभ्यः, शरमयम् । शर। दर्भ । मृदु । कुटी । तृण । सोम । वल्वज । श्रारम्भान्नित्यत्वे लब्धे नित्यग्रहणं किम् ? एकाचो नित्यं मयट् यथा स्यात् । वाङ्मयम् । त्वङ्मयम् | त्ये नित्यं परङसंज्ञादेशः । अथ विकारावयवयोर्यस्त्यस्तदन्ताद्विकारावयवान्तरविवक्षायां मयट् कस्मान्न भवति । दैवदारवस्य विकारोऽवयवो वा दैवदारवम् । दावित्थस्य, दावित्थम् । पालाशस्य, पालाशम् । शामीलस्य, शामीलम् । कापोतस्य, कापोतम् । श्रौष्ट्रक, ट्रकम् । ऐणेयस्य, ऐणेयम् । कांसस्य, कांस्यम् । पारशवस्य, पारशवमिति । नैष दोषः, समुदायशब्दोऽवयवेऽपि दृष्टः । इति विकारान्तरे श्रवयवान्तरे च विवक्षिते मूलप्रकृतेरेव त्यः । तेन त्यान्तान्मयन भवति । श्रनभिधानाद्वा । यत्राभिधानमस्ति तत्र विकारान्तरेऽवयवान्तरे च त्यो भवत्येव । गोमयस्य विकारः, गौमयं भस्म । द्र ुवयस्य विकारः, द्रौवयम् । कपित्थस्य फलस्य विकारः, कापित्थम् । आमलकस्य फलस्य विकारः, आमलकमयम् । सर्वमयं मयट् दुसंज्ञकेभ्यः शरादिभ्यश्च नित्यं भवति । अन्येभ्योऽभक्ष्याच्छादनयोर्वा भवति । जातरूपेभ्यः, प्राणितालादिभ्यश्चाण् भवति ।
पिष्टात् ||३|३|११० ॥ पिष्टशब्दाद् विकारेऽर्थे नित्यं मयड् भवति । विष्टस्य विकारः, पिष्टमयम् । भक्ष्यत्वादव प्राप्तः, तदपवादोऽयम् ।
कः खौ ||३|३|१११ ॥ पिष्टशब्दात्को भवति खुविषये । अनन्तरस्य मयटोऽपवादः । पिष्टस्य विकारः पिष्टिका ।
१. गवेधुका अ०, पू० | २. अन्ये काशिकाकाराः । चिन्त्यमिदम् - कपोत्तमयम्, लोहमयमित्यादीनां प्राणिरजतादिसूत्र व्याख्यानविरोधाभावात् । रजतादिपठितस्यानुदात्तादिशब्दस्यैव मयड्बाधकत्वम् । उदात्तादेस्तु मयटोरुभयोरपि विधानस्य तत्रत्यन्यासग्रन्थे नियतत्वात्। रजसमयमिति काशिकाय नास्त्येव । विस्तरस्तु काशिकान्यासे द्रष्टव्यः ।
२७
For Private And Personal Use Only