________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८
जैनेन्द्र-व्याकरणम्
[ श्र० ३ पा० ३ सू० १०२ - १०५
[४|४|१५८ ] इति प्रतिषिद्धम् । श्राथर्वण इति स्थिते "छन्दो ब्राह्मणानि चात्रैव” [२६] इति नियमात् " तदुद्वेस्यधीते" [३/२/५१] इत्यपि प्राप्ते उक्थादिष्वाथर्वणशब्दस्य पाठात् ठण् । तत्र पाठसामर्थ्यादेव "डोक्तात्" [ ३।२।१४ ] इत्युग्न भवति । श्राथर्वणिकानां धर्म नाम्नायो वा प्राथर्वणः । यस्तुक्थादिष्वथर्वन् शब्दः पठ्यते स उपचाराच्छास्त्रवचनः श्रथर्वाणं वेत्यभीते वा श्राथर्वणिकः । टिखाभावश्चात्र वक्तव्यः । श्रस्याप्याथर्वणिकशब्दस्येदं निपातनमिष्यते ।
तस्य विकारः ||३|३|१०२ || प्रकृतेरवस्थान्तरं विकारः । तस्येति तासमर्थाद् विकार इत्यस्मिन्नर्थे यथाविहितं त्यो भवति । श्रदु यस्य च नाम्पत्( न्यत्र ) प्रतिपदं ग्रहणं तदिहोदाहरणम् । अश्मनो विकार श्रश्मः । " श्वाश्म चर्मणां सङ्कोचविकारको शेषु" [४|४|१३२ ] इति टिलम् । भस्मनो विकारः, भास्मनः । मार्त्तिकः । तार्कवः । दैवदारवः । तैत्तिडीकः । वैल्वः । कापित्थः । पालाशः । प्रकृत्युपस(म) दैन यो विकारस्तत्रायं विधिः । तेनेह न भवति श्रानं पक्कमिति । भवति पक्रमाम्रस्य फलस्य विकारे न तु प्रकृत्युपमर्दि । तस्येति वर्त्तमाने पुनस्तस्य ग्रहणं शैषिकाणां घादीनां निवृत्त्यर्थम् । श्रतः परमोत्सर्ग एव भवति । श्रत्र केषाञ्चिय क्तिः पूर्वसूत्रादीति वर्त्तते स इह विधीयमानः परत्वेन शैषिकाणां बाधकः ।
प्राण्योषधिवृक्षेभ्योऽवयवे च || ३ | ३|१०३ ॥ प्राणिनश्चेतनावन्तः । फलपाकान्ता श्रोषधयः । पुष्पवन्तः फलवन्तश्च वृक्षाः । वृक्ष विशेषत्वा वनस्पतिवीरुधामपि वृक्षग्रहणेन ग्रहणम् । प्राणयोषधिवृक्षवाचिभ्यस्तासमर्थेभ्योऽवयवे विकारे च यथाविहितं त्यो भवति । श्रवयव एकदेशः । प्राणिभ्य उत्तरत्र वक्ष्यते । ओषधिभ्यः,मूर्वाया अवयवो विकारो वा मौर्वै काण्डम् । मौर्वे भस्म । वृक्षेभ्य कारीरं काण्डम् | कारीरं भस्म । पैप्पलं काण्डम् । शातपत्रिक काण्डं भस्म च । इह ओषधिवृक्षग्रहणं ज्ञापकम् । "अणौ धेः प्राणिकर्तृकात्" [१।२८५] इत्येवमादिषु प्राणिग्रहणे वृक्षादीनां प्राणित्वेऽपि ग्रहणं न भवति । तस्य विकार: प्राण्योषधिवृक्षेभ्योऽवयवे चेति द्वयमधिक्रियते । श्रयं तु विभागः । प्राणयोषधिवृक्षेभ्यः, श्रवयवविकारयोरुत्तरो विधिः । श्रन्येभ्यस्तु विकारमात्र एष्टव्यः ।
जातरूपेभ्यः परिमाणे || ३ | ३ | १०४ ॥ इहासम्भवादवयवार्थो न सम्बध्यते । जातरूपवाचिभ्यस्तान्तेभ्यो विकारविशेषे परिमाणे यथाविहितं त्यो भवति । बहुत्वनिर्देशात्स्वरूपस्य तत्पर्यायवाचिनां व ग्रहणम् । इह यूनि (दुनि) प्रयोजयन्ति । " नित्यं बुशरादेः " [३|३|१०१] इत्यनेन प्राप्तस्य मयटोऽपवादः । जातरूपस्य विकारो जातरूपो निष्कः । जातरूपं कार्षापणम् । छाटको निष्कः । हाटकं कार्षापणम् | परिमाण इति किम् ? हाटकमयी यष्टिः ।
प्राणितालादेः || ३ | ३|१०५ || तस्य विकार: प्राणयोषधिवृक्षेभ्योऽवयवे चेति वर्त्तते । प्राणिवाचिभ्यस्ताल इत्येवमादिभ्यश्च यथाविहितं त्यो भवति । " नित्यं दुशरादेः " [ ३ | ३ | १०६ ] इत्यस्य मयटोऽपवादः । सारस्य विकारोऽवयवो वा सारसं मांसम् । सारसं सक्थि। काकं मांसम् । काकं सक्थि । श्रदवोऽपि ये प्राणिवाचिनः तेभ्यो “मयड्वैतयोरभच्या च्छादनयोः " [ ३३/१०८ ] इति पक्षे मयट् प्राप्नोति । तदुद्याधनार्थञ्चेदम् । कपोतस्य विकारोऽवयवो वा कापोतम् । मायूरम् । तैत्तिरम् । पुरस्तादपवादोऽयमनन्तरस्य मयविकल्पस्य बाघको युक्तो नोत्तरस्य “नित्यमुद्र (स्थं पुश-) शरादेः " [३|३|१०४] इत्यस्य । तत्कथं (- थमु० : ) भयोर्बाधा १ श्रनन्तरव्यवधानाभावात् सामान्यापेक्षया । तालादिभ्यः, वालस्य विकारः तालं धनुः । “ताकादूधनुष्येवेष्यते " । श्रन्यत्र तालमयम् । तालाद्धनुषि । बर्हिण । इन्द्रालिश । इन्द्रदिश 1 इन्द्रायुध । चाप । श्यामाक । पीयुद्धन् । रब्त । सीस | लोह । उदुव (ग्ब) र । निइदारु ' ( नीच दारु ) |
For Private And Personal Use Only