________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म. ३ पा० ३ सू०६६-01]
महावृत्तिसहितम्
२०७
घोषो वा, वैदम् । अन्तात् । गर्गाणां सङ्घः, अङ्को लक्षणं घोषो वा, गार्गम् । "क्यच्व्यनाद्धल्यापत्यस्य" श ति यखम् । इञन्तात् । दाक्षम् । प्लादम् । अणो गित्करणं स्त्रियां ड्यर्थम् । "
णिदरस्तविकारे" [२५] इत्यत्र पुंवद्भावप्रतिषेधार्थ च । वैदी स्थूणा अस्य, वैदीस्थूणः । लक्ष्म्या(क्ष्य)गतंचिह्न लक्षणं यथोपशमो मुनीनाम् । बाह्यसम्बन्धि गतं चिह्नमङ्कः, यथा गा रेखा ।
शाकला वा ॥३॥३६९६।। शाकलशब्दात्सङ्घादिषु इदमर्थविशिष्टेषु वाऽण् भवति चरणलक्षणे नित्ये वुनि प्राप्ते विभाषेयम् । कथं चरणत्वम् १ शाकल्येन प्रोक्तमधीयते शाकलाः । प्रोक्ताऽर्थे “शकलादिभ्यो वृक्ष" [
२ ७] इत्यण । "क्यच्व्यनाद्धृत्यापत्यस्य' [ ४|४|१४१] इति यखम् । "तवेत्त्यधीते" [३।२।१] इत्यागतस्याण "उप्प्रोक्तात्' [३।२।५४] इत्युप् । शाकलानां सङ्घः, अङ्कः, लक्षणं, घोषो वा, शाकलम् ।
छन्दोगौक्थिकयाक्षिकबहुचनटायः ॥३।३।९७।। सवादयो निवृत्ताः । सामान्येन तस्येदमिति वर्तते । छन्दोग ौक्थिक याज्ञिक बड़च नर इत्येभ्यो ओ भवति। वुनोऽपवादः। नटशब्दादोऽपवादः । छन्दोगानां धर्म अाम्नायो वा छान्दोग्यम् । श्रौथिकानां धर्म आम्नायो वा, ौक्थिक्यम् । याज्ञिक्यम् । बह्वीः ऋचोऽधीयते, बढचाः । अः सान्तः । “तवेत्त्यधीते" [ ५] इत्यागतस्यायो "रस्योबनपत्ये" [३।०७४] इत्युप् । तेषां धर्म अाम्नायो वा, बाढच्यम् । चरणसाहचर्यान्नटशब्दादपि धर्माम्नाययोरेव त्यः । नाट्यम् ।
न दण्डमाणवान्तवासिषु ॥३३॥६॥ दण्डप्रधाना माणवाः दण्डमाणवाः । श्राश्रमिणां रक्षापरिचरणविधायिन इत्यर्थः। अन्तेवासिनो विनेयाः। वृद्धग्रहणमनुवर्तते । दण्डमाणवेषु अन्तेवासिषु इदमर्थविशेषेषु तस्येदमित्यस्मिन्विषये वृद्धाद्यदुक्तं तन्न भवति । काराव्यस्येमे काण्ठाः । गौकक्ष्यस्येमे, गौकक्षाः । दण्डमाणवा अन्तेवासिनो वा । वुनि प्रतिषिद्ध "शकलादिभ्यो वृद्धे" [३।२।८७] इत्यण् । दादेरिमे दाक्षाः । प्लाक्षाः | "इन:' [३।२।८८] इत्यण् ।
रैवतिकादेश्छः ॥३।३।९।। तस्येदमिति वर्तते । वृद्धादिति च । रैवतिक इत्येवमादिभ्यो वृद्धभ्यालो भवति । वुनादेरपवादः । रैवतिकस्येदं रैवतिकीयम । बुनः प्रकृते प्रतिषेधे कृते सामर्थ्याद् दोश्छः सिद्धः। नैवं शक्यम् इञतात् "इम:'" [१२।८८] इति अण् प्राप्नोति सवादिषु चाणः प्रतिषेधे वुन् प्रसज्येत । रैवतिक । गौरग्रीवि । स्वापिशि । मवृत्लि । क्षैमवृद्धि इति केचित् ' । औदमेधि । औदवाहि । औदवापि । वैजवापि।
कौपिञ्जलहास्तिपदादण् ॥३३३३१००॥ कौपिञ्जलहास्तिपद्शब्दाभ्यामण भवति तस्येदमित्यस्मिन्विषये । वृद्धलक्षणस्य वुनोऽपवादः । कुपिञ्जल हस्तिपादशब्दाभ्यामपत्येऽर्थे त एव निपातनादण् । पादस्य पद्भावश्च । कौपिजलस्येदं कौपिञ्चलं शकटम् । हास्तिपदं शकटम् । श्रारम्भसामर्थ्यादेवाणि सिद्ध पुनरणग्रहणं "म दण्डमाणवान्तेवासिषु" [३।३।२८] इति बुनि प्रतिषिद्धे "दो:"[ ३।२।१० इति छ प्राप्ते अण यथा स्यात् । कौपिक्षला अन्तेवासिनो दण्डमाणवा अन्तेवासिनो वा ।।
पाथर्वणः ॥३३।१०१॥ तस्येदमिति वर्तते । श्रावण इति निपात्यते । आथर्वणिकशन्दादण निपात्यते इकस्य च खम् । चरणवाचि शब्दादस्माद् वुञ् प्राप्तः। अथर्वणा प्रोक्त छन्दोऽधीयते, श्रावणिकाः। प्रोक्तार्थेऽणि "नोऽपुसो हृति" [ ३०] इति टिखं प्राप्तम् ? "अनः"
१. केचित् काशिकाकाराः । २. चरणशब्दत्वावस्मा खु-पू० ।
For Private And Personal Use Only