________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३ पा० ३ सू०८०-८] महावृत्तिसहितम्
२०५ छगलिनो ढिनिण् ॥३३॥८॥ छन्दसीति वर्तते, तेन प्रोक्लमिति च । छगलिन्शब्दाविनिण भवति । नेरिकार उच्चारणार्थः। छगलिना प्रोक्तं छन्दोऽधीयते, छागलेयिनः। कलाप्यन्तेवासिलक्षणस्य णिनोऽपवादः।
__ एकदिक ॥३३३३८१॥ छन्दसीति निवृत्तम् । तेन प्रोक्तमिति च निवृत्तमर्थान्तरग्रहणात् । एका दिग् यस्य तदेकदिक् , त्य (स) मानदिगित्यर्थः। भासमर्थादेकदिगित्यस्मिन्नर्थे यथाविहितं त्यो भवति । सुदाम्ना पर्वतेन एकदिक् , सौदामनी विद्यत् । “अनः" [ ५८] इति टिखाऽभावः । एवं हैमवती । त्रैककुदी।
तस् ॥३॥३२॥ तसित्ययं त्यो भवति मृदः । तेनैकदिगित्यनुवर्तते । पूर्वसूत्रेणाणादयो घादयश्च भवन्ति । अयं च वचनाद् भवति । न तु बाध्यबाधकभावः। सुदाम्ना एकदिक् सुदामतः । हिमवतः । त्रिककुत्तः। तस्यान्तस्य स्वभावतो झिसंशा।
यश्चोरसः ॥
३३॥ तेनैकदिगिति वर्त्तते । उरःशब्दात् य इत्ययं त्यो भवति तश्च । अणोऽपवादः । उरसा एक दिक् , उरस्यः, उरस्तः ।
उपशाते ।।३।३।८४॥ तेनेति वर्तते । तेनेति भासमर्थादुपज्ञातेऽर्थे यथाविहितं त्यो भवति । विनोपदेशेन प्रथमं जातमुपज्ञातम् । (स्वायम्भुवेनोपज्ञातं स्वायम्भुवीयमाकालिकाऽचाराऽध्ययनम् । दैवन्दिनमनेकशेषं व्याकरणम् ।) -
कृते प्रन्थे ॥३॥३८५॥ तेनेति भासमर्थात्कृतेऽर्थे यथाविहितं त्यो भवति यत्कृतं ग्रन्थश्चेद् भवति । बलदेवेन कृताः, बालदेवाः श्लोकाः। वाररुचाः। सिंहनदीयाः) ग्रन्थ इति किम् ? तक्ष्णा कृतःप्रासदि।
खौ ॥३॥३॥८६॥ तेनेति भासमर्थात्कृतेऽर्थे यथाविहितं त्यो भवति समुदायेन खुविषये । अग्रन्थेऽपि विधिरयम् । मक्षिकाभिः कृतं माक्षिक मधु । एवं गर्मुत्, गार्मुतम् । पुत्तिका, पौत्तिकम् । क्षुद्रा, क्षौद्रम् । सरघा, सारधम् । नर्मुक, नार्मुकम् । भ्रमर, भ्रामरम् । वटर, वाटरम् | वातप, वातपम् । छः कस्मान्न भवति । संज्ञाशब्दानां व्युत्पत्तिरियम् । न च छे कृते संज्ञा गम्यते ।
कुलालादेव॑म् ॥३३३३८७॥ खाविति वर्तते । कुलाल इत्येवमादिभ्यो धुन भवति तेन कृतेऽर्थे । अणोऽपवादः । कुलालेन कृतम्, कौलालकम् । धयदिसमुदायस्येयं संज्ञा | कुलाल । वरुट । कार । चण्डाल । निषाद । सेना । सिलिच्' । देवराजी । परिषत् । वधू । रुद्र | अस्य स्थाने शन्दं २केचित् पठन्ति । अनडुङ् । ब्रह्मन् । कार । कुलाल । कुम्भकार । श्वपाक ।
तस्येदम् ॥३।३।८८॥ तस्येति तासमर्थादिदमित्यस्मिन्नर्थे यथाविहितं त्यो भवति । तस्येति सामान्येन ताऽर्थमात्र इदमिति ताऽर्थसम्बन्धिमानं विवक्षितम् । उभयत्र लिङ्गसंख्याप्रत्यक्षपरोक्षत्वादिकमविव. क्षितम् । उपगोरिदम्, श्रोपगवम् । श्रौत्सम् । राष्ट्रियम् । प्राङ्गकम् । अनन्तरादिष्वमिधानं नास्ति । देवदतस्यानन्तरम् , देवदत्तस्य समीपम् । विंशतेरवयव एका, शतस्य दो, सहस्रस्य पञ्चेति । "संवोदः संवहितृभावश्च स्वे वक्तव्यः" [वा०]। संवोढुः स्वं सांवहित्रम् । "अग्नीधः शरणे पाच्ये रण
1. सिलिम् अ.। मिलिवू ३० । सिरिध्र इति काशिकायाम् । २. केचित् काशिकाकारा इत्यर्थः ।
For Private And Personal Use Only