SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [अ० ३ पा० ३ सू० ७८-७९ छन्दस्त्वम् । तेन तद्विषयतानियमः। काश्यपेन प्रोक्तं कल्पं विदन्ति काश्यपिनः । कौशिकिनः । ऋषिभ्यामिति किम् ? इदानीन्तनेन काश्यपेन प्रोक्तम् , काश्यपीयम् । कलापिवैशम्पायनान्तेवासिभ्यः"। कलाप्यन्तेवासिनश्चत्वारः। "हरिछरेषां प्रथमस्ततश्छगलितुम्बुरू। उसपेन चतुर्थेन कालापकमिहोच्यते ।" हरिद्र णा प्रोक्तं छन्दोऽधीयते, हारिद्रविणः । तौम्बुरविणः । श्रौलपिनः । छगलिनो ढिनिणं वक्ष्यति । वैशम्पायनान्तेवासिनो नव । "मालम्णिः प्रथमः प्राच पलिङ्गकमलावुभौ । ऋचभागारुणो ताण्ड्यो मध्यमीयास्ततोऽपरे ॥ श्यामायन उदीच्येषु तथा कठकलापिनौ।" श्रालम्विना प्रोक्तमधीयते, बालम्बिनः । पालिङ्गिनः। कामलिनः । श्रार्चभागिनः । श्रारुणिनः। ताण्डिनः । श्यामायनिनः। कठादत्रैवोपं वक्ष्यते । उत्तरत्र कलापिनोऽणं वक्ष्यति । अन्तेवासिग्रहणेन प्रत्यक्षशिष्यग्रहणम् । न तु व्यवहितानां शिष्यशिष्याणां ग्रहणं व्याख्यानात ।"पुराणप्रोक्तषु ब्राह्मणकल्पेषु" ग०सू० यत्तत्प्रोक्तं ( यत्प्रोक्तं तत् ) पुराणप्रोक्ताश्चेद् ब्राह्मणकल्पा भवन्ति । पुराणेन पुरातनेन ऋषिण प्रोक्ता, पुराणोक्ताः, ब्राह्मणानि च कल्पाश्च ब्राहाणकल्पाः। भाल्लवेन प्रोक्तं ब्राह्मणमधीयते भाल्लविनः । 'वासायनिनः । ऐतरेयिणः । पिङ्गेन प्रोक्तः कल्पः पैङ्गी। पारुणपराजी । कल्पस्य तद्विषयतानियमो नास्ति । पुराणप्रोक्लेष्विनि किन ? (याज्ञवल्कानि ब्राहाणानि । श्राश्मरथः कल्पः) "शकलादिभ्यो वृद्ध" [२।८७] इत्यण ( याज्ञवल्कादयोऽवरकाला इत्याख्यानेषु श्रुतिः। तद्विषयतानियमोऽपि प्रतिपदं ब्राह्मणेषु भवति इति इह सोऽपि नास्ति । "कठचरकादुप्" ग०सू०]। कठेन प्रोक्तं छन्दोऽधीयते, कठाः । वैशम्पायनान्तेवासित्वागिणन् , तस्योप् । चरक इति वैशम्पायनस्याख्या। चरकालन्दस्येवेष्यते । चरकेण प्रोक्ताश्चरकाः श्लोकाः। अण उप । सर्वप्रवचनाभिधाने ' वृद्धचरणाजित्" [३।३।६४] इति वुन् भवत्येव । शौनकिनामिदम्, शौनककम् , इत्येवमादि योज्यम् । "पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः।"पाराशर्येण प्रोक्तं भिक्षुसूत्रमधीयते, पाराशरिणो भिक्षवः । शिलालिनो नटाः । गुणकल्पनया चार छन्दस्त्वम् तेन तद्विषयता ( भवति । भिक्षु नटसूत्रयोरिति किम् ? पारा) शरम् । शैलालम् । “शकलादिभ्यो बृद्ध" [३२८७] इत्यण उत्सर्गश्च "कर्मन्दकृशाश्वाभ्यामिन्" । अत्रापि तद्विषयता, कर्मन्दिनो भिक्षवः । कृशाश्विनो नयः । भित्तुनटसूत्रयोरित्येव । कार्मन्दम् । कार्या (काश्विम् ) । छन्दसीति किम् ? शौनकीया शिक्षा ।। तित्तिरिवरतन्तुखण्डिकोखाच्छण् ॥३।३।७८॥ छन्दसीति वर्तते, तेन प्रोक्तमिति (च)। तित्तिरि वरतन्तु खण्डिका उख इत्येतेभ्यश्छण् भवति । अणोऽपवादः । तित्तिरिणा प्रोक्तं छन्दोऽधीयते विदन्ति वा तैत्तिरीयाः । खाण्डिकीयाः । श्रौखीयाः । छन्दसीत्येव । तित्तिरिणा प्रोक्ताः श्लोकाः, तैत्तिराः । कलापिनोऽण ॥३॥३७॥ छन्दसीति वर्तते । कलापिशब्दादण् भवति तेन प्रोक्तं इत्यस्मिविषये। वैशम्पायनान्तेवासित्वागिणन् प्राप्तः । कलापिना प्रोक्तं छन्दोऽधीयते, कालापाः। "नोऽपुंसो हृति' [ ३०] इति टिखं प्राप्तम् , "प्रायोऽनपत्येणीनः" [५४१५५] इति प्रतिषिद्धम् , "सब्रह्मपर्यादेः" [४१३१] इति पुनष्टिखम् । पुनरणग्रहणं किम् ? क्वचिच्छविषयेऽपि यया स्यात् । तेन सौलमानि ब्राह्मणानीत्येवमादि सिद्धम् । १. शाळ्यायनिनः अ०, ५०। २. चरकादच्छन्दस्येव इत्यत्र प्रच्छन्दसोति, चरकाः श्लोका इत्यत्रोविधान ब चिन्त्यम् । काशिकादौ छन्दसोत्येव । चारकाः श्लोका इत्यत्रानुदर्शनात् । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy