________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ३ पा० ३ सू० ७२-७७ ]
महावृत्तिसहितम्
२०३
महाराजात् ||३|३|७२॥ सोऽस्य भक्तिरिति वर्त्तते । महाराजशब्दाद्वय् भवति । महाराजो भक्तिरस्य, माहारानिकः ।
अर्जुनाद् वुन् ||३|३|७३ ॥ सोऽस्य भक्तिरिति वर्त्तते । श्रर्जुनशब्दाद् वुन् भवति । श्रर्जुनभक्तिरस्य, अर्जुनकः । उत्तरसूत्रेण राजाख्याद् वुञ् प्राप्तः ।
वृद्धराजाख्येभ्यो बुन प्रायः || ३|३|७४ ॥ सोऽस्य भक्तिरिति वर्त्तते । वृद्धाऽख्येभ्यो राजा ख्येभ्यश्च प्रायो वुञ् भवति । श्रणोऽपवादः । छस्य तु परत्वाबाधकः । वृद्धराजाख्येभ्य इत्यत्र “” [२४] इति नियमात्कर्मणि "प्रातः कः” [ २/२/३ ] न प्राप्नोति । मूलविभुजादिलात् " सुपि " [२२२०७ ] इति [ वा ] भविष्यति । वृद्धाख्येभ्यः, ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनः । श्रौपगवो भक्तिरस्य, श्रौपगवकः । कापटवकः । राजाख्येभ्यः नकुलो भक्तिरस्य, नाकुलकः । साहदेवकः । वासुदेवो भक्तिरस्य, वासुदेवकः । श्रख्यामहं किमर्थम् ? श्रङ्गवङ्गकलिङ्गादिग्रहणार्थम् । दुर्योधननकुल सहदेवग्रहणार्थं च । यत्र सामान्येन विशेषेण वा प्रसिद्धा राजसंज्ञाऽस्ति तस्य सर्वस्य सङ्ग्रहार्थमित्यर्थः । प्रायोग्रहणात्कचिन्न भवति । पाणिनो भक्तिरस्य, पाणिनीयः । पौरवीयः ।
राष्ट्रवत्वतां सर्व बहुत्वे सरूपाणाम् ||३|३|७५॥ सोऽस्य भक्तिरिति वर्त्तते । राष्ट्रस्येव राष्ट्रवत् । बहुत्वे राष्ट्रेण समानशब्दानां तदूवतां राष्ट्रवत्सर्वं प्रकृतिस्त्यश्च भवति । "राष्ट्राऽवध्योः " [३।२।१०२ ] इत्यादिप्रकरणे विहितानामिहाऽतिदेशः । यथा, अङ्गा जनपदो भक्तिरस्य, श्राङ्गकः । वाङ्गकः । मौझकः । एवमङ्गाः क्षत्रिया भक्तिरस्य श्राङ्गकः । सौहाकः । तद्वतामिति किम् ? पञ्चाला ब्राह्मणा भक्तिरस्य पाञ्चालः । सर्वग्रहणं किम् ? प्रकृतैरप्यतिदेशो यथा स्यात् । स च द्वयेकयोः प्रकृत्यतिदेशः (शं) प्रयोजयति । यत्रै निमित्तभूतो हृदतिदेशो नास्ति । वृजेरपत्यं वार्ण्यः । “द्वित्कुरुनाथजाद कुरु कोशलाञ्यः” [ ३।३।१५३ ] इति यः । मद्रस्याऽपत्यं माद्रः । "ह्रयन्मगध' [ ३ | १|१५२] इत्यादिनाऽय् । वायों भक्तिरस्य, माद्रो भक्तिरस्य, त्र "वृजि [म] द्वारकः " [३।२।१०३] इति कोऽतिदिश्यते । प्रकृतिरप्यदुसंज्ञाऽ (रप्यत्रा) तिदिश्यते । वृजिकः । मद्रकः । वार्ज( ये ) को माद्रक इति मा भूत् । सरूपाणामिति किम् १ सराडो जनपदः, तस्य पौरवो राजा; स भक्तिरस्य पौरवीयः । बहुत्वग्रहणं सारूप्योपलक्षणार्थम् । यद्यपि द्वित्वैकत्वयोः सारूप्यं नास्ति तथाप्यतिदेशः सिद्धः । वाङ्गो वाङ्गौ वा भक्तिरस्य, वाङ्गकः ।
तेन प्रोक्तम् ||३|३| ७६ ॥ तेनेति भासमर्थात्प्रोक्तमित्यस्मिन्नर्थे यथाविहितं त्यो भवति । व्याख्यादिना प्रकर्षेणोक्तं प्रोक्तमिति गृहाते, न तु कृतं यदन्येन कृतम् । गोतमेन प्रोक्तम् गौतमम् । श्रीदत्तीयम् । सामन्तभद्रम् । श्रपिशलम् । इनः " [३शरा८] इत्यण् ।
शौनकादिभ्यश्छन्दसि णिन् ||३|३|७७ || शौनक इत्येवमादिभ्यश्छन्दस्यभिधेये णिन् भवति न प्रोक्तमित्यस्मिन्विषये । दुभ्यश्छस्य इतरेभ्यश्चाणोऽपवादः । “छन्दो ब्राह्मणानि चात्रैव” [ ३।२।५६ ] इति नियमादेकवाक्यम् । शौनकेन प्राक्तं छन्दोऽधीयते शौनकिनः । " तदूवेश्यते” [२१] इत्यागतस्याण "उपप्रोक्तात्" [ ३/२/१४] इत्युप् । शनिक । वाजसनेय । साङ्गरव । सापेय। सा (शा) पेय । " ख्यादायन । स्कम्ब । स्कभ । स्तम्भ । देवदर्श । रज्जुभार। रज्जुकण्ठ । कठ । साठ । कौसायन । तल वकाल (र) | पुरुषांसक । "काश्यप की शिकाभ्यामृषिभ्यां कल्पस्थाभ्यां प्रोक्तः स्मयते" । तस्योपचारा
१. स्वादायन पू० । वोदायम भ० । २. स्कंभ अ० पू० । ३. परुषसिक इव गारत्न
महोदधौ ।
For Private And Personal Use Only