________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
जैनेन्द्र-व्याकरणम् [अ० १ पा० ३ सू. १५-1 प्रद्युम्नोदयनीयम् । प्रद्युम्नागमनीयम् । शी (सी) तान्वेषणीयम् । इन्द्रजननादिराकृतिगणः । शिशुक्रन्दादयोऽपि तत्रैव द्रष्टव्याः । देवासुरादिषु छस्यादर्शनात् प्रतिषेधश्च न वक्तव्यः । प्रपञ्चो बालावबोधनार्थः ।
सोऽस्य निवासः ॥३३॥६३॥ स इति वासमर्थादस्येति ताऽर्थे यथाविहितं त्यो भवति यचद् वासमर्थ निवासश्चेत्स भवति । निवसन्त्यस्मिन्निति निवासः । सुघ्नं निवासोऽस्य स्रौनः । राष्ट्रियः ।
अभिजनः ॥३।३।६४॥ अभिजनः पूर्वे बान्धवाः । साहचर्यात्तैरुषितो देशोऽपि तथोक्तः । निवासो यत्र साम्प्रतमुच्य(ध्य )ते । स इति वासमर्थादभिजन इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति । सुघ्नमभिजनोऽस्य, स्रोघ्नः । राष्ट्रियः ।
गिरेश्छः शस्त्रजीविषु ॥३॥३॥६५॥ सोऽस्याभिजन इति वर्तते। गिरिवाचिनो वासमर्थादसिजनविशिष्टादस्येति ताऽर्थे छो भवति शस्त्रजीविष्वभिधेयेषु । हृद्गोलोऽभिजन एषां शस्त्रजीविनाम्, हृदगोलीयाः। श्रवर्म । अत्वर्मीयाः। वेल | वेलीयाः। रोहितगिरि । रोहितगिरीयाः गिरेरिति किम् ? साङ्कास्योऽभिजन एषां शस्त्रजीविनां साङ्कास्यकाः शस्त्रजीविनः। “बन्ध (धन्व) योङः" [३। इति बुञ्। शस्त्रजीविष्विति किम् ? ऋक्षोदो गिरिरभिजन एषां ब्राह्मणानामन्येषां वा, श्राझेदाः । पृथु । पार्थवाः।
शण्डिकादेयंः ॥३॥३॥६६॥ सोऽस्याभिजन इति वर्तते । शण्डिक इत्येवमादिभ्यो यो भवति । अणादेरपवादः। शण्डिकोऽभिजनोऽस्य, शाण्डिक्यः [शाण्डिक:]। सर्वसेन । सर्वकेश । शक | शट । चणक । शङ्ख । बोध । गोध । अत्र कोभ्यः “कोकोऽणू" [३।२।११०] इत्यण् प्राप्तः । इतरेभ्यः "बहुत्वेऽदोरपि [३।२।१०३) इति वुञ् प्राप्तः ।
सिन्ध्वादेरण ॥३३॥६७॥ सोऽस्याभिजन इति वर्तते । सिन्धु इत्येवमादिभ्योऽण् भवति । सिन्धुरभिजनोऽस्य, सैन्धवः । सिन्धु । वर्ण । मधुमत् । कम्वोज । कश्मीर । सव । एतेभ्यः कच्छादित्वात् "नृतत्स्थयोः" [ ३।२।११२ ] इति चुभ प्राप्तः। गन्धार । पञ्चाल । किष्किन्ध । गब्दिक । उरस् । दरद् । एतेभ्यः “बहुत्वेऽदोरपि'' [३।२।१०२] इति चुञ, प्राप्तः । कैमेदुर । काण्डकार' । ग्रामणी । एतेभ्यश्छः प्राप्तः।
तूदीवर्मतीभ्यां ढण ॥३॥३६८॥ सोऽत्याभिजन इति वर्तते । तूदीवर्मतीशब्दाभ्यां ढण् भवति । अणोऽपवादः । तूदी अभिजनोऽस्य, तौदेयः । वामतेयः ।
शालातुरकूचवाराच्छएण्यौ ॥ ३३॥६६ ॥ सोऽस्याऽभिजन इति वर्तते । शालातुरकूचवारशब्दाभ्यां छण्ण्य इत्येतो त्यौ भवतः । अण्णोऽपवादः । शालातुरोऽभिजनोऽस्य, शालावरीयः । कोचवार्यः।
भक्तिः ॥३॥३१७०॥ सोऽस्येति वर्तते । अभिजन इति निवृत्तं विशेषणान्तरोपादानात् । स इति वासमर्थादस्येति ताऽर्थे यथाविहितं त्यो भवति यत्तद् वासमर्थ भक्ति श्वेत् सा भवति । भज्यत भक्तिः । सुनं भक्तिरस्य, स्रोनः । राष्ट्रियः ।
प्रदेशकालाढण् ॥३३१७१॥ सोऽस्य भक्तिरिति वर्तते । देशकालावचित्तौ। तत्पर्युदासादन्यस्याऽ चित्तस्य ग्रहणम् । अचित्तवाचिनो मृदष्ठणित्ययं त्यो भवति । अणोऽपवाद।। ठस्य परत्वाद् बाधकः। अपूपा भक्तिरस्य, आपूपिकः । शाष्कुलिकः। पायसिकः। अदेशादिति किम् ? स्रौनः । अकालादिति किम् ? शैशिरः।
१. काण्डवार १०, पू० । २. -पवादौ पू० ।
For Private And Personal Use Only