________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
०३ पा० ३ सू० ५५-५२]
महावृत्तिसहितम्
हेतुमनुष्याद् वा रूप्यः ॥३३॥५५॥ तत श्रागत इति वर्तते । हेतुभ्यो मनुष्येश्च वा रूप्य इत्ययं त्यो भवति । हेतुभ्यः कारणाद् , धेनोरागतं धेनुरूप्यम् । विश्वरूप्यम् । कररूप्यम् । पक्षे गेहादिलक्षणश्छः । समीयम् । विषमीयम् । पापीयम् । मनुष्येभ्यः-देवदत्तादागतं देवदत्तरूप्यम् । जिनदत्तरूप्यम् । पदे देवदत्तकम् । जिनदत्तकम् । देवदत्तकल्पकम् । हेतो का भवतीति मनुष्येभ्योऽपादानलक्षणा का।
मयट् ॥३॥३॥५६॥ हेतुभ्यो मनुष्येभ्यश्च मयड् भवति तत श्रागतेऽर्थे । समाद्धेतोरागतं सममयम् । पापमयम् । मनुष्येभ्यः-देवदत्तादागतम् , देवदत्तमयम् । जिनदत्तमयम् । जिनदत्तमयी। योगविभागो यथासंख्यनिवृत्त्यर्थः।
प्रभवति ॥३॥३॥५७॥ तत इत्येव वर्तते । तत इति कासामर्थ्यान्ड्याम्मृदो यथाविहितं त्यो भवति । प्रथमं भवति प्रभवति । भवतिरिहोपलब्धिक्रियः, अनेकार्थत्वाद् धूनाम् । सनात् प्रभवति, स्रौनः । राष्ट्रियः । हिमवतः प्रभवति, हैमवती गङ्गा । दारदी सिन्धुः ।
। विदुरायः ॥३३॥५८।। ततः प्रभवतीति अनुवर्तते । विदूरशब्दाच्यो भवति । अणोऽपवादः । विदूरीलाभवति, वैदूर्यो मणिः । यदि प्रथमं भवति प्रभवतीत्युच्यते वालवायागिरेरसौ प्रभवति न विदूरानगरात् । कथं ततस्त्योत्पत्तिः १ एवं तर्हि "वालवायो विदूरच प्रकृत्यन्तरमेव वा । नैवंतनेति चेद्व्याव जित्वरीवदुपाचरेत् ॥" वालवायस्त्यं लभते विदुरमादेशञ्च । यथा शिवादिषु विश्रवःशब्दो विश्रवणरवणादेशी अणं च लभते । प्रकृत्यन्तरमेव वा वालवायस्य विदुरशब्दः। अव्यविकन्यायेन विदूरादेव त्यः । नैवं तत्रेति चेयात् जित्वरीवदुपाचरेत् । यथा वाणिजाः वाराणसी जित्वरीति मङ्गलार्थमुपाचरन्ति । एवं वालवायोऽप्युपचाराद् विदूरशब्देनोक्लः । अथवा विदूरादेव मणित्वेन प्रभवति । )
तद्गच्छति पथिदूतयोः ॥३३॥५६॥ तदितीप्समाँद्गच्छतीत्यस्मिन्नर्थे यथाविहितं त्यो भवति योऽसौ गच्छति पन्था दूतो वा चेद् भवति । खुघ्नं गच्छति, स्रौनः । राष्ट्रियः । पन्था दूतो वा । पथिस्येषु गच्छत्सु पन्था गच्छतीत्युच्यते । पथिदूतयोरिति किम् ? सुघ्नं गच्छति सार्थः।।
अभिनिष्कामति द्वारम् ॥३३॥६०॥ तदिति वर्तते । तदितीप्समर्थादमिनिष्कामतीत्येतस्मिन्नर्थे यथाविहितं त्यो भवति । अनभिनिष्क्रमण क्रियायां द्वारं करणं स्वातन्त्र्येण विवक्षितम् । यथा, असिश्छिनत्ति । धनुर्विध्यति । द्वारस्थेषु च निष्कामत्सु द्वारं निष्क्रामतीत्युच्यते । सुघ्नमभिनिष्कामति पाटलिपुत्रस्य द्वारम्, स्रोप्नम् । राष्ट्रियम् । द्वारमिति किम् ? 'मधुरामभिनिष्कामति वैदिस (श) स्य ग्रामः । सुघ्नममिनिष्कामति पुरुषः ।
___ अधिकृत्य कृते ग्रन्थे ॥३३६१॥ तदितीप्समर्थादधिकृत्य कृतेऽर्थे यथाविहितं त्यो भवति यत्तत्कृतं अन्यश्चेत्स भवति । सुलोचनामधिकृत्य कृतो ग्रन्थः सौलोचनः । श्रौदयनः । ग्रन्थ इति किम् ? सुलोचनामधिकृत्य कृतः प्रासाद । "उसाऽख्यायिकासु बहुलमिति वक्तव्यम्" [वा०] वासवदत्तामभिकृत्य कृताऽख्यायिका, वासवदत्ता । । दोस्थ ( श्छ ) स्योस् । उर्वशी । सुमनोत्तरा । अण उस् । न च भवति भैमरथी ।
शिशुक्रन्दयमसभद्वन्द्वन्द्रजननादिभ्यश्छः ॥३३॥६२॥ तदधिकृत्य कृते ग्रन्थ इति वर्तते । शिशुक्रन्द यमसभ इत्येताभ्यां द्वन्द्वादिन्द्र जननादिभ्यश्च छो. भवति । अणोऽपवादः ( शिशुकन्दमधिकृत्य कृतो ग्रन्थः, शिशुक्रन्दीयः। मस्य सभा, यमसभम् । “सुभाऽराजाऽमनुष्यात्' [IMES] इति नम्। यमसभीयः । द्वन्द्वात् , त्रिपुर्विजयीयः । भरतबाहुबलीयः। वाक्यपदीयम् ।) "द्वन्द्व देवाऽसुरादिभ्यः प्रतिधो वक्तभ्यः" [वा० ] दैवासुरम् । राक्षोऽसुरम् । गौणमुख्यम् । इन्द्रजननादिभ्यः-इन्द्रजननीयम् ।
१. मथुराम-., स.।
२०
For Private And Personal Use Only