________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
जैनेन्द्र-व्याकरणम्
[अ०३ पा० ३ सू० ४.१४
णत्वमिष्यते/ ऋगयन । पदव्याख्यान । छन्दोव्याख्यान । छन्दोमान । छन्दोभाषा। छन्दोविचित । छन्दोविचिति । न्योक । पुनरुक्त । निरुक्त । व्याकरण । नियम । निगम । वास्तुविद्या । अविद्या । छत्रविद्या । उत्पात । उत्पाद । संवत्सर । मुहूतं । निमित्त । उपनिषत् । भिक्ष्य । इति ऋगयनादिः ।) छन्दस् । छन्दसः पृथगग्रहणं पूर्वेण यार्थम् । पुनरणग्रहणं बाधकस्य ठनः छस्य च बाधनार्यम् । .......
तत आगतः ॥३॥३॥४८॥ तत इति कायाम् अर्थात् प्रागत इत्यस्मिन्नर्थे यथाविहितं त्यो भवति । सुघ्नादागतः सोध्नः । राष्ट्रियः । मुख्यस्याऽपादानस्य सम्प्रत्ययः । स्नादागच्छन् वृक्ष्मूलादागत इति वृक्षमूलशब्दाच्यो न भवति ।
आयस्थानेभ्यष्ठण ॥३॥३॥४९॥ द्रव्यागमनमायः । स यस्मिस्तिष्ठत्युत्पत्तिद्वारेण तदायस्थानम् । तदवाचिभ्यष्ठण भवति तत आगत इत्यस्मिन्विषये। अणोऽपवादः । छस्य तु परत्वादेव बाधकः। शुल्कशालाया अागतं शौल्कशालिकम् । प्रातरिकम् । श्रापणिकम् । गौरिमकम् । दौवारिकम् । बहुत्वनिर्देशः स्वरूपनिरासार्थः ।
शुण्डिकादिभ्योऽण् ॥३३॥५०॥ शुण्डाशब्दो मद्यवचनः, तस्मान्मत्वर्षीये ते (त्ये) कृते शुण्डिक इति भवति । शुण्डिक इत्येवमादिभ्योऽण् भवति तत आगत इत्येतस्मिन्विषये । शुण्डिकादागतः शौण्डिकः । शुण्डिक । कृकण । स्थण्डिल | उदक । उपान । उपल । तीर्थ । पिप्पल । भूमि । तृण । पर्ण । पुनरणग्रहणं किम् । प्रायस्थाने ठणः, "गेहादियुक्तकणाद भारद्वाज" इति को विहितस्तस्याऽपि बाधनार्थम् ।
यौनमौखाद्या ॥२३॥५१॥ जन्मसम्बन्धेन योनेरिमे, योनेरागता वा, यौनाः शब्दा मातुलादयः । विद्यासम्बन्धेन मुखस्येमे, मुखादागता वा मौखा उपाध्यायादयः, ऋत्विगादयश्च । यौनमौखेभ्यः शब्देभ्यष्ठा भवति तत श्रागतेऽर्थे । श्रणोऽपवादः। छस्य तु परत्वाद बाधकः । मातुलादागतं मातुलकम् । मातामहकम् । पैतामहकम् । मौखेभ्यः - उपाध्यायादागतम् । श्रौपाध्यायकम् । श्राचार्यकम् । शैष्यकम् । श्राविकम् ।
ऋतष्ठा ॥३३॥५२।। ऋकारान्तेभ्यो यौनमुखे(मौखे)भ्यः शब्देभ्यष्ठन् भवति तत आगतेऽर्थे । यौनेभ्यो भ्रातुरागतं भ्रातृकम् । स्वासकम् । मातृकम् । मौखेभ्यः -- होतुरागतं होतृकम् । पौतृकम् । औद्गातृकम् । पूर्वस्य वुशोऽपवादः ।।
पितुर्यश्च ॥३॥३॥५३॥ पितृशब्दाद् य इत्ययं त्यो भवति ठञ् च तत प्रागतेऽर्थे । पितुरागतं पित्र्यम् । “रीकृतः" [५।२।१३६] रीडादेशः “यस्य ल्यान्च" [४।१३१] इतीकारस्य खम् । पने पैतृकम् ।
वृद्धादकवत् ।।३।३।५४॥ वृद्धत्यान्तान्मृदः अङ्क इव यविधिर्भवति । वृद्ध मिहापत्यमात्रम् । यथेह भवति । गर्गाणामक, गार्गः। वैदः। "साकलक्षणघोषेऽज्यभिलामणि" [३।३।१५] हत्यण् तथा गर्गेभ्य आगतम् , गागंम् । वैदम् । अङ्कग्रहणे वृद्धान्तस्ये (द्धत्यान्तस्ये) दमर्थे तस्येदमर्थसामान्य लक्ष्यते । तेन वुशोऽप्यतिदेशः सिद्धः । श्रोपगवा (ना) मिदम् , "वृद्धचरणामित्" [३३३६४] इति वुनि कृते, औपगवकम् । नाडायनकम् । तथा श्रोपगवादागतम् औपगवकम् । नाडायनकम् ।
..मासरिकम् ब०, स० । २. -द्धगतस्यैदमर्थ सामा-म० । धरयेदमर्थे तस्येदमर्थसामाब०।-दूतस्येदमर्थ सामा-पू० ।
For Private And Personal Use Only