________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म० ३ पा० ३ सू० ४०-४७ ]
महावृत्तिसहितम्
यखो वाऽशब्दे ॥३॥४०॥ तत्र भव इति वर्तते । वर्गान्तात् य ख इत्येतौ त्यो वा भवतः शब्दादन्यस्मिंस्त्याथें । पूर्वेण नित्ये छे प्राप्ते विभाषेयम् । भरतवर्गे भवः, भरतवर्यः । भरतवर्गीणः । भरतवर्गीयः । बाहुबलिवर्यः । बाहुबलिवर्गीणः । बाहुबलिवर्गीयः ।
कर्णललाटभूषणे कः ॥३३॥४१॥ तत्र भव इत्यस्मिन्विषये कर्णललाटशब्दाभ्यां को भवति समुदायेन भूषणेऽभिधेये । कर्णिका । ललाटिका । स्वभावतः स्त्रीलिङ्गः। भूषण इति किम् ? कर्यम् । ललाट्यम् ।
तस्य व्याख्यान इति च व्याख्येयाख्यायाः ॥३३॥४२॥ व्याख्यायतेऽनेनेति व्याख्यानम् । व्याख्यातव्यं व्याख्येयम् । तस्याख्या नाम व्याख्येयाख्या। तस्येति तासमर्थाद् व्याख्येयाख्यारूपाद् मृदो व्याख्यानेऽर्थे यथाविहितं त्यो भवति चकारात्तत्र भव इत्यस्मिंश्च वाक्यार्थे । इतिशब्दः पर्ववाक्यपरिसमाप्त्यर्थः । सुपां व्याख्यानं सुप्सु भवं वा सौपम् । मिडां व्याख्यानं मिक्षु भवं वा मैङम् । एवं कार्तम् । हार्तम् । व्याख्येयाख्याया इति किम् ? पार्यलपुत्रस्य व्याख्यानं सुकौशला । पाटलिपुत्रं सुकौशलया व्याख्यायते सन्निवेशहारेण । न पुनलोके तद्व्याख्येयस्य ग्रन्थस्याख्याभूतम् । ननु च तस्य व्याख्याने अर्थे "तस्येदम्" [३८] इत्यनेनैव त्यविधिः सिद्धः। चकारानुकृष्टेऽपि तत्र भवेऽर्थे पूर्वमेव स्यविधिरुक्तः । तत्किमनयोर्युगपदुपादानम् ? वक्ष्यमाणोऽपवादविधिः । व्याख्येयाख्याया अनयोरर्थयोर्यथा स्यादित्येवमर्थम् ।
बढ्चो बहुलं ठव्य ॥३॥३॥४३॥ बल चो व्याख्येयाख्याभूतान्मृदो बहुलं ठञ् भवति तस्य व्याख्याने तत्र भवे चार्थे । अणादेरपवादः । बहुलग्रहणं बहुप्रपञ्चार्थम् । सविधौ ये बह्वचः तेभ्यः ऋकारान्तब्राह्मणप्रथमाध्वरपुरश्चरणनामाख्यातपौरोडाशेभ्यः क्रतुभ्यश्च गौणमुख्येभ्यष्ठा भवति । सविधौ - पखणखस्य व्याख्यानम्, षत्वणत्वे भवं षाखणविकम् । ऋकारान्तात् - चातु होतृकम् । पाश्चहोतृकम् । ब्राह्मणिकम् । प्राथमिकम् । आध्वरिकम् । पौरश्चरणिकम् । नामाख्यातिकम् । विगृहीतादपि । नामिकम् । श्राख्यातिकम् । पौरोडाशिकम् । मुख्येभ्यः ऋतुभ्यः - श्राग्निष्टोमिकम । राजयिकम् । वाजपेयिकम् । पाकयज्ञिकम् | भाव यज्ञिकम् । गौणेभ्यः - पाञ्चौदनिकम् । दाशौदनिकम् । ऋषिभ्योऽध्यायैर्भवति । वाशिष्ठकोऽध्यायः । वैश्वामित्रिकोऽध्यायः । अन्यत्र वाशिष्ठी ऋक् । तिसेषु न भवति । संहिताया व्याख्यानं तत्र भवं वा सांहितम् । बह्व॒च इति किम् ? कार्तम् । हार्तम् । व्याख्येयाख्याया इत्येव । मथुरायां भवः, माथुरः ।
द्वचजचः ॥३३॥४४॥ द्वयचो मृद ऋक्छब्दाच्च ठम भवति तस्य व्याख्याने तत्र भवे चार्थे । अण्णादेरपवादः । अङ्गस्य व्याख्यानम् , अङ्गे भवं वा आङ्गिकम् । पौर्विकम् । तार्किकम् । नामिकम् । ऋचां व्याख्यानं ऋतु भवं वा आर्चिकम् ।
पुरोडाशाहद् ॥३३॥४५॥ पुरोडाशशब्दादृद्र भवति तस्य व्याख्याने तत्र भवे चार्थे । पुरोडाशाः पिष्टपिण्डाः । साहचर्य्यात्तेषां संस्कारको मन्त्रोऽपि तथोक्तः। पौरोडाशिकी ।
छन्दसो यः ॥३॥३॥४६॥ छन्दःशब्दाद्यो भवति तस्य व्याख्यान इत्येवास्मिन्विषये । द्वयज्लवणठोऽपवादः । छन्दसो व्याख्यानं छन्दसि भवं वा छन्दस्यम् ।
गयनादेवाण ॥३॥३॥४७॥ ऋगयन इत्येवमादिभ्यो मृद्भ्यश्छन्दःशब्दाच्चाण् भवति तस्य व्याख्याने तत्र भवे चार्थे । ऋगयनस्य व्याख्यानः, ऋगयने भवो वा, आगयणः। अणि परत ऋगयनस्य
For Private And Personal Use Only