________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
१९८
[अ० ३ पा० १ सू० ३२-३६
वास्तेयम् । यस्यापवादः । सृजत्यसन्नियोगे ऽस्त्रिभावो निपात्यते । श्रसृजि भवम्, श्रास्त्रयम् । प्रकृत्यन्तरमस्त्रिशब्दः । श्राहेयं विषम् । श्रणोऽपवादः ।
प्रीवाभ्योऽण् ' च ||३|३|३२|| ग्रीवाः शिरोधमन्यः । ग्रीवाशब्दादण् भवति ढञ्च तत्र भव इत्यस्मिन् विषये । यस्यापवादः । ग्रीवासु भवं ग्रैवम् । ग्रैवेयम् ।
गम्भीरायः ||३|३|३३|| गम्भीरशब्दाञ्ज्यो भवति । गम्भीरे भवम् गाम्भीर्य्यम् । अत्यल्पमिदम् । “गम्भीरबहिर्देव पञ्चजनेभ्य इति वक्तव्यम्" [वा०] बाह्यम् । देव्यम् । पाञ्चजन्यम् ।
हात् ||३|३|३४|| तत्र भव इति वर्तते । हसंज्ञकान्मृदो ज्यो भवति । श्रयोऽपवादः । हसंज्ञकेभ्यः परिमुखादिभ्य प्रवेष्यते । परिमुखे भवम्, पारिमुख्यम् । परिमुख परिहन् पर्योष्ठ पर्युलूखल परिशाल परिशील अनुसीर उपसीर उपस्थूण उपवाल उपकपाल अनुपथ श्रनुरथ परिरथ अनुगङ्ग अनुतिल अनुमाष श्रनुयव अनुयूथ अनुवंशो येषु परिपूर्वेषु वर्जनार्थ प्रतीतिः तेषां "पर्यंपादहिरन्यवः कथा" [11३।१०] इति हसः । अन्यत्र “झि" [३१] इति योगविभागात् । परिमुखादेरिति किम् ? श्रपकूलम् | हादिति किम् १ परिगतं मुखं से य एव भवति । परिमुख्यम् ।
अन्तरादेष्ठञ ||३|३|३५|| हादिति वर्तते । अन्तःशब्दादेदृञ् भवति । श्रणोऽपवादः । श्रन्तःशब्दो भिसंज्ञको विभक्त्यर्थः । श्रन्तर्गेहे भवम् श्रान्तर्गेहिकम् । श्रान्तरगारिकम् । "पुरान्वात्प्रतिषेधो वक्तव्य: 22 [वा०] अन्तःपुरे भवम् श्रान्तःपुरम् । श्रत्रेष्टयः ।
1
"समानाच्च तदादेश्व, अध्यात्मादिषु चेष्यते । ऊर्ध्वाद्विमाच्च देहाच्या लोकोत्तरपदादपि ॥ [वा०] समाने भवम् सामानिकम् । " तदादेश्च" सामानग्रामिकम् । सामानदेशिकम् । " अध्यात्मादिषु श्रध्यात्मिकम् । श्राधिदैविकम् । श्राध्यात्मादिराकृतिगणः । ऊर्ध्वदमात् श्रौर्ध्वदमिकम् । केचिदूर्ध्वशब्देन समानार्थमूर्ध्वं शब्दं मान्तं पठन्ति । तेषाम् श्रौर्ध्वन्दमिकम् । श्रौर्ध्वदेहिकम् । “छोकोशरपदादपि” । ऐहलौकिकम् । पारलौकिकम् ।
।
""मुखपाश्वत सोरीयः कुगूजनस्य परस्य च । ईयः कार्योऽथ मध्यस्य मण्मीयौ च हृतौ मतौ 1 ॥" [वा०] -मुखपाश्वभ्यां तसन्ताभ्यामीयो वक्तव्यः । मुखतीयम् । पार्श्वतीयम् । भेर्भमात्रे टिखम् इति टिम् T कुग्जनस्य परस्य च । जनकीयम् । परकीयम् । “मध्यादीयो वक्तव्यः” । मध्यीयः । “मम्मीयौ च हृतौ मतौ मध्यादेश्व" । माध्यमः । मध्यमीयः ।
" मध्यो मध्यन्दिनश्चास्मादुपू स्थाम्नो हाजिनाशथा" [वा०] । मध्यशब्दो मध्यं रूपमापद्यते । दिनश्चास्मात्त्यः । मध्ये भवम्, मध्यन्दिनम् । उप् स्थामान्ताद् जिनान्ताच्च वक्तव्यः । श्रश्वस्थाम्नि भवः, अश्वथामा | काजिने भवः, वृकाजिनः । ऋण उप् ।
उपाज्जानुनीविकर्णात् || ३ | ३ | ३६ ॥ उपपूर्वेभ्यो जानु नीवि कर्य इत्येतेभ्यष्ठञ् भवति । तत्र भव इति वर्तते हादिति च । उपजानु भवम् श्रपजानुकम् । श्रपनीविकम् । औपकर्णिकम् । देहाङ्गलक्षणस्य यस्यापवादः । इद्द कस्मान्न भवति, अपजानु भवं गडिवति । श्रनभिधानात् ।
ग्रामात्पर्यन्वोः ||३|३|३७|| द्वादिति वर्तते । परि अनु इत्येवंपूर्वाद् ग्रामशब्दाट्ठञ् भवति तत्र भव इत्यस्मिन्विषये । पारिग्रामिकः । श्रानुग्रामिकः । श्रयोऽपवादः ।
जिह्वामूलाङ्ग लेश्छः ||२/३/३० ॥ हादिति निवृत्तम् । तत्र भव इति वर्तते । जिह्वामूल-अङ्गुलिशब्दाभ्यां छो भवति । यस्यापवादः । जिह्वामूलीयः । श्रङ्गुलीयः ।
वर्गान्तात् ||३|३|३६|| वर्गशब्दान्ताच्च छो भवति तत्र भव इत्यस्मिन्विषये । अशब्देऽपवादो वक्ष्यते । शब्द इहोदाहरणम् । कवर्गीयां वर्णः । चवर्गीयः ।
१. यूवा ।
For Private And Personal Use Only