________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र.३ पा० ३ सू०१-१२]
महावृत्तिसहितम्
१६५
तत्र जातः ॥३॥३१॥ श्रणादयः परमोत्सर्गाद्यादयश्च शैषिकाः प्रकृताः, तेषामितः प्रभृति प्रकृत्यर्थाः समर्थविभक्त्युपादानं च वेदितव्यम् । तत्रेति ईप्समर्थाज्जात इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति । सुन्ने जातः स्रोधनः । श्रौत्सः । राष्ट्रियः । शाकलिकी । शाकलिका । सौत्रेयकः ।
प्रावृषष्ठः ॥३।३।२॥ प्रावृट्छब्दादीपसमर्थान्जात इत्येतस्मिन्नर्थे ठो भवति । एण्यस्यापवादः । प्रावृषिकः । प्रावृषिका स्त्री।
खो शरदो वुल ॥३॥३॥३॥ शरच्छब्दाद् वुञ भवति खुविषये । तत्र जात इति वत्तं ते । शारदिका मुद्गा। संज्ञाशब्दानां व्युत्पत्तिमात्रमिदम् । खाविति किम् ? शारदं सस्यम्' ।
सिन्ध्वपकरादण् ॥३।३।४॥ सिन्धु अपकर इत्येताम्यामण् भवति तत्र जात इत्यस्मिन्विषये । सिन्धुषु जातः सैन्धवः । श्रापकरः। सिन्धुशब्दात् "कच्छादेः"[३।२।११२] इत्यण । "नृतत्स्थयोः" [
३ ३ ] इति बुश च प्राप्तः । तयोरपवादे के अपकरशब्दादणोऽपवादे उत्तरसूत्रेण के प्राप्तेऽनेनाणपि विधीयते।
पूर्वाहापराह्नामूलप्रदोषावस्कराच्च कः ॥३३॥५॥ पूर्वाह्न अपराह्न प्रार्द्रा मूल प्रदोष अवस्कर इत्येतेभ्यः सिन्ध्वपकराभ्याञ्च को भवति । तत्र जात इति वर्तते । पूर्वाह्न जातः पर्वाहका अपराह्नकः । “वा पूर्वापरादह्नात्' [३।२।१४०] इत्यस्यापवादः । आर्द्रकः । “केऽण:"[५।२।१२५] इति प्रादेशः । मुलकः। कालवाचित्वे सति भलक्षणस्याऽणोऽपवादः। प्रदोषक: । "निशाप्रदोषाभ्याम" [३/२/१३५] इत्यस्य बाधा। अवस्करकः । अयोऽपवादः। सिन्धुकः । अपकरकः । प्राभ्यां पर्वेशायपि भवति।
पथः पन्थः ॥३३शक्षा पथिशब्दात्को भवति तत्सन्नियोगेन पथिशब्दस्य पन्थ इत्ययं चादेशः। तत्र जात इति वत्तेते । पथि जातः, पन्थकः । श्रणोऽपवादः।
वाऽमावास्यायाः ॥३३७॥ अमावास्याशब्दाद् वा को भवति तत्र जात इत्यसिन् विषये। "भसन्ध्यादिना' [३।२।१३७] नित्येऽणि प्राप्ते को विभाष्यते । अमावास्यकः । एकदेशविकृतादमावस्याशब्दादपि । अमावस्यकः । पदेऽण । अमावास्यः । अमावस्यः ।
अषाढाच ॥३॥३८॥ अ इत्ययं त्यो भवति अषाढशब्दात् चकारादमावास्यायाश्च । तत्र जात इति वर्तते । अपाढाया इति प्राप्त अपादादिति सौत्रो निर्देशः। अषाढायां जाता, अषाढः । अषाढा स्त्री। अमावास्यः । अमावस्यः । "श्रविष्टाषाढाभ्यां छजिति२ वक्तव्यम्" [वा०] । श्राविष्ठीया भाषादीयः।
फल्गुन्याष्टः ॥३॥३॥६॥ फल्गुनीशब्दाहो भवति तत्र जात इत्यस्मिन्विषये । नाणोऽपवादः । फल्गुन्या जातः फल्गुनः । फल्गुनी स्त्री।
स्थानान्तादुप् ।।३।३।१०॥ स्थानान्तादुत्तरस्य जातार्थ आगतस्याण' उन्भवति । गोस्थाने जातः गोस्थानः । अश्वस्थानः।
शालाद् गोखरात् ।।३।३।११।। गो खर इत्येवम्पूर्वाच्छालात्परस्य आतार्थे श्रागतस्य त्यस्योभवति । गवां शाला गोशालम् । खराए। शाला खरशालम् । “सनासुराच्छायाशालानिशा वा" [११] इति नम् । गोशाले जातः, गोशालः । खरशालः । लिङ्गविशिष्टस्य स्त्रीलिङ्गस्याऽपि "चुप्युप'' इति याप उपि सति तदेवोदाहरणम् ।
वत्साद् वा ।।४।३।१२।। वत्सपूर्वात् शालापरस्य जातार्थे आगतस्य त्यस्योन्भवात वा। वत्सशाले जातः, वत्सशालः । वात्स्यशालः।
१. धान्यम् अ, ब०, पृ० । २. छण चेति अ०, ब०, पू० । ३.-स्य त्यस्यो-म०, ब०, ३० ।
For Private And Personal Use Only