________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४
जैनेन्द्र-व्याकरणम् [अ० ३ पा० २ सू० १३३-१४० वा रोगातपयोः ॥२२।१३३॥ रोगे श्रातपे चाभिधेये शरच्छब्दाच्छैषिको वा ठा. भवति । शारदिकः । शारदो रोग भातपो वा।
निशाप्रदोषाभ्याम् ॥३२॥१३४॥ वेति वर्तते । निशाप्रदोषशब्दाभ्यां वा ठत्र भवति शेषे । नित्ये कालाइभि प्राप्ते विकल्पोऽयम् । निशा सोढाऽस्य, नैशिकः । नैशः। प्रादोषिकः । प्रादोषः । निशाप्रदोषसहचरितमध्ययनमुपचारात्तथोच्यते ।
श्वसस्तटच ॥३२॥१३५॥ श्वसशब्दाहम भवति। तस्य च टन इकादेशे कृते तुडागमः। ठोऽपवादो भिलक्षणस्तुट प्राप्तः, तं बाधित्वा "वैषमोह्यश्वसः" [३।२।३] इति विभाषया ये प्राप्त अनेन ठा विभाष्यते । श्वो बातो भवो वा शौवस्तिकः, श्वस्त्य: । आभ्यां मुक्त तनप् श्वस्तनः ।
प्रावृष परायः॥३२१३६॥ प्रावृष शब्दात् एण्यो भवति शेषे। ऋत्खणोऽपवादः। प्रावृषेण्यो बलाहकः । गत्वं किमर्थम् ! प्रावृषेण्यमाचष्टे णिचि विपि अतः खे च कृते णकारस्य श्रवणार्थम् ।
भसन्ध्याधुतुभ्योऽवर्षाभ्योऽण ॥३।२।१३७॥ कालादिति वर्तते । “भाधु क्तः कालः'' [३।२।४] इत्यागतस्याणः "उसभेदे" शशश इत्युसि कृते कालवाचिभ्यो भेभ्यः सन्ध्यादिभ्य ऋतुभ्यो वर्षावर्जितेभ्योऽण् भवति शेषे। ठोऽपवादः। भेभ्यः-तैषः । पौषः । “तिष्यपुष्ययोर्माणि" [५४१३७] इति यखम् । सन्ध्यादिभ्यः-सन्ध्यायां भवो जातो वा सान्ध्यः । सन्ध्या सविखला ( सन्धिवेला)। श्रमावास्या । एकदेशविकृतस्य अमावस्याशब्दस्यापि ग्रहणम् । त्रयोदशी चतुर्दशी पञ्चदशी पौर्णमासी प्रतिपद् । “संवत्सराफरूपर्वणोः" [ग.सू.] सांवत्सरं फलम् । सांवत्सरं पर्व । अन्यत्र सांवत्सरिको रोगः । ऋतुभ्यः-शरद्धेमन्त शिशिरवसन्त गृष्मः। अवर्षाभ्य इति किम् ? वर्षासु साधु वार्षिकं वासः । अणग्रहणं छबाधनार्थम् । स्वातौ तदं ( भवं ) सौवातम् "पदे य्वोरैयौव" [५।२।८] इत्यौव् ।
हेमन्तात्तखम् ॥३२॥१३८॥ हेमन्तशब्दादणभवति तत्सन्नियोगेन चास्य तखम् । हेमन्ते साधुः हैमनम् । हैमन्तः। (हैमनमनुलेपनम् । हैमनं वासः । ठमपीष्यते ।) हैमन्तिकमिति । हेमन्ततखमिति वक्तव्यम् । कानिर्देशः किमर्थः १ केवलेऽप्यऽण (हेमन्ताद) यथा स्यात् । तेन सिद्धम् । हेमन्ती पक्तिः ।
सार्याचरम्पाहणेप्रगेमिभ्यस्तनट ॥३२॥१३६॥ कालादिति वर्तते । सायं चिरं प्राह्न प्रगे शब्दभ्या झिभ्यः कालवाचिभ्यस्तनड भवति शेषे । सायचिरंशब्दयोरभिसंज्ञयोस्त्यसन्नियोगेन मकारान्तता निपात्यते । सायन्तनम् । चिरन्तनम । प्राणप्रगयोस्त्वकारान्तता निपात्यते । प्राहः सोढोऽस्य, प्रातनः। प्रगः सोदोऽस्य, प्रगेतनः। ईबन्तात्तनटि "झकालतनेकालेभ्यो वा'" [४१३३] इत्यनुपा सिद्धम् । प्रातस्तनम् । दिवातनम् । दोषातनम् । “चिरपरस्परारिभ्यस्त्नो वक्तव्यः', [वा०] चिरत्नम् । परुत्नम् । परारिलम् । "अन्तादिमो वक्तव्यः'' [वा० ] अन्तिमम् ।
वा पूर्वापरादह्नात् ॥३२॥१४०॥ पूर्व अपर इत्येवंपूर्वादह्नशब्दाद् वा तनड् भवति शेषे । नित्ये कालाइञि प्राप्ते विभाषेयम् । पूर्वाह्न तनः । पूर्वाह्नतनः । अपराह्नतनः । अपराह्नतनः । पौर्वाह्निकम् । अापराह्निकम् । यदा पूर्वाह्नः सोढोऽस्य तदा पूर्वाह्नतनः, अपराहृतनः ।
इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ तृतीयस्याऽध्यायस्य द्वितीयः पादः समाप्तः।
१.प्रावट् प० ।
For Private And Personal Use Only