________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९२
जैनेन्द्र-व्याकरणम्
प्राचां कटादेः || ३|२| ११५ ॥ देश इति वर्तते । तद्विशेषणं प्राग्रहणम् । कटादेः शब्दात्प्राग्देशवाचिनश्को भवति शेषे । श्रणोऽपवादः । कटनगरीयः । क्टग्रामीयः । कटघोषीयः । कटपल्वलीयः ।
Acharya Shri Kailassagarsuri Gyanmandir
अ० ३ १० २ ११५-१२३
राशः क च ||३|२|११६ ॥ श्रसम्भवाद् देश इति नाभिसम्बध्यते । राजशब्दस्य ककारो ऽन्तादेशो भवति छश्च । श्रादेशार्थमिदम् | "दोश्छः " [३ २ ६०] सिद्ध एव । राज्ञ इदम् राजकीयम् । एकदेशविकृतस्यानन्यत्वाद “श्वनोऽखं” [ ४|४|१२० ] नाशङ्कनीयम् । तानिर्दिष्टस्यानन्यवद् भाव उक्तः । न चेहाऽनस्तानिर्देशः; कि तर्हि राजशब्दस्य ।
दोः कखोङः ||३|२| ११७ ॥ देश इति वर्त्तते । दोदेशवाचिनः ककारोङः खकारोङश्छो भवति शेषे । श्रारीणकीयः । द्रौघणकीयः । श्राश्वत्थिके जातः, आश्वस्थिकीयः । शाल्मलि के जातः शाल्मलिकीयः । कोङ इत्यणि प्राप्ते कः । सौसुके जातः, सौसुकीयः । वाहीकग्रामलक्षणौ ठनठी बाधित्वा को इत्य प्रातः ( आष्टकं नाम बन्धः तत्र जातः) श्राष्टकीयः । बन्धलक्षणं वुञ बाधित्वा कोङ इत्यण् प्राप्तः ब्राह्मणको नाम राष्ट्रम्, तत्र जातः, ब्राह्मणकीयः । "राष्ट्र" [३।२।१०२ ] वुञोऽपवादः "कोड: " [३।१।११० ] इत्यण् प्राप्तः । खोङः खल्वपि। कौटिशिखीयः । माटिशिखीयः । कोटिशिखादयो वाहीकग्रामः
कन्थापलदनगर ग्राम हृदयोः || ३|२| ११८ || देश इति वर्त्तते दोश्छ इति च । द्य शब्दः प्रत्येकमभिसम्बद्धयते । कन्थादि द्योदेशवाचिनो दोश्छो भवति शेषे । वाहीकग्रामादिलक्षणस्य त्यस्यापवादः । दाक्षिकन्यायां जातः दाक्षिकन्थोयः । माहकिकन्थीयः । यदोशीनरेषु ग्रामस्तदा नपुंसकलिङ्गत्वम् । "वोशीनरेषु'' [ ३।२।१४ ] ठञिठयोः प्राप्तिः । यदा तु वाहीकग्रामः, तदा स्त्रीलिङ्गत्वम् । “वाहीक" ग्रामेभ्य:" [ ३ | २|३३] इति प्राप्तिः । दाक्षिपलदीयः । माहकिपलदीयः । दाक्षिनगरीयः । माहकिनगरीयः । दाक्षिग्रामीयः । माहकिग्रामीयः । दाक्षिहृदीयः । गोमयहृदीयः ।
पर्वतात् || ३ |२| ११६ ॥ पर्वतशब्दाच्छो भवति शेषे । अणोऽपवादः । उत्तरत्रामर्त्यविभाषा वक्ष्यते । मदोदाहरणम् । पर्वतीयो मनुष्यः ।
वामयें ||३२|१२० ॥ मर्त्त्यादन्यस्मिन्नभिधेये पर्वता वा छो भवति । पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । पर्वतीयं फलम् । पर्वतीयमुदकम् । पार्वतमुदकम् । श्रमर्त्य इति किम् ? पर्वतीयो ना ।
1
युष्मदस्मदोऽकङ् खन् || ३ |२| १२१|| देश इति निवृत्तम् । वेति वर्त्तते । युष्मदस्मद्भ्यां वा खञ भवति, यदा खञ तदाऽकङादेशः । योष्माकीणः । श्रास्माकीनः | "ङित् " [ १३०] इति दकारस्याकङादेशः, कारोच्चारणसामर्थ्यात् "स्वेऽको दीखम्" [४३८] | वेत्याधिकाराच्छो भवति । युष्मदीयः । श्रस्मदीयः ।
अणि ॥३|२|१२२ ॥ अणि च परतो युष्मदस्मदोरकङादेशो भवति । इदमेव ज्ञापकम्, युष्मदस्मद्यामपि भवति । यौष्माकः । श्रास्माकः ।
1
For Private And Personal Use Only
तवकममकावेकार्थे ||३२|१२३ ॥ अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति परिभाषेयमनित्या । अणि खञि च परतो युष्मदस्मदोरेकार्थे वर्त्तमानयोस्तवक ममक इत्येतावादेशौ भवतः । स्थान्या देशयोर्यथासंख्यं न त्वादेशनिमित्तयोः । तावकीनो मामकीनः । तावको मामकः । युष्माकं युवयोर्वाऽयं यौष्माकीणः । एवम् श्रास्माकीनः । यौष्माकः । श्रास्माकः । श्रर्थग्रहणं किम् ? तवकममकावेक इत्युच्यमाने, एकवचने परत इति विज्ञायेत, तदाऽत्र को दोषः १ यौष्माकीण श्रस्माकीन इत्यत्राऽप्यादेशविधिः स्यात् । तावकीना मामकीना इत्यत्र च न स्यात् श्रतोऽर्थग्रहणं क्रियते । तेनैकार्थे वर्त्तमानयोर्युष्मदस्मदोरेकवचने बहुवचने वा परत आदेशविधिः सिद्धो भवति ।