________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ०३ पा० सू० ११० - ११४ ]
महावृत्तिसहितम्
१९१
कोडो
||३|२| ११० ॥ देश इति वर्त्तते । देशवाचिनो मृदः ककारोङोऽण् भवति । "बहुत्वेऽ दोरपि' [३|१|१०३ ] इति वुञोऽपवादः । ऋषिकेषु जातः प्रार्षिकः । माहिषिकः । श्राश्मकः । कथमिवाकुजात ऐवाक इति १ उच्यते, "ओदेशे" [३/२/१२] इति ठञ् प्राप्तः, तं बाधित्वा परत्वाद् "बहु दोरपि'' इति वुञ् प्राप्तः, तमपि परत्वादयमय् बाधते । “नौणहत्य" [४|४|१६६ ] इत्यादिना उखं निपात्यते । देश इति वर्त्तते ।
T
कच्छादेः ||३|२|१११॥ कच्छ इत्येवमादिभ्यो देशवाचिभ्योऽय् भवति शेषे । वुञोऽपवादः । काच्छ---कच्छशब्दादबहुत्वविषयादुत्सर्ग एवाय् सिद्धः । तस्य नृतत्स्थयोर्बुञ् यथा स्यादित्येवमर्थः पाठः । कच्छ । सिन्धु । व । गन्धार । मधुर मधुरात् । श्रस्याप्युत्तरत्र वुञर्थः पाठः । द्वीप | अनूप । श्रजावह | विज्ञापक । श्रस्यापि कोङो वुञर्थः पाठः । कुलूत । रङ्कु ।
नृतत्स्थयो||३|२|११२ ॥ कच्छादेरिति वर्त्तते । नरि तत्स्थे चाभिधेये कच्छादेर्बुञ् भवति । श्रणोऽपवादः । काच्छको ना । काच्छकमस्य हसितं जल्पितम् । काच्छिका चूला । सैन्धवको मनुष्यः । सैन्धवकमस्य हसितं जल्पितम् । सैन्धविका चूला । नृतत्स्थयोरिति किम् ? काच्छो गौः । सैन्धवोऽश्वः)
I
गोयवाग्वपदाती सत्यात् || ३ |२| ११३॥ गवि यवाग्वामपदातौ च जातादौ सत्वशब्दाद् "बहुत्वेऽदोरपि" [ ३/२/१०३ ] इत्येव वुसिद्धः । नियमार्थमिदमुच्यते । एतस्मिन्नेव जातादिविशेषे वु यथा स्यात् । अन्यत्र उत्सर्गापवादोऽय् भवति । तद्विशेषणमपदातिग्रहणम् । कच्छादिष्वस्य पाठोऽ नर्थकः । खल्वेषु जातः साल्वको गौः । साल्विका यवागूः । नृतत्स्थयोरित्येतदत्र' वर्त्तमानमपदाति विशेषणम् । साल्वको मनुष्यः । साल्वकमस्य हसितं जल्पितम् । साल्विका चूला । एतेषु वुञो नियमादन्यत्र साल्वं वस्त्रम् । साल्वाः पदातयः ।
गर्त्तद्युगहादिभ्यश्छः ||३|२| ११४ ॥ गर्त्त इत्येवं द्योदेशवाचिनो गहादिभ्यश्च छो भवति । श्रणादेरपवादः । स्वाचिद्गतयः । वाहीकग्रामेभ्य इति ठञ्ञिठयोः प्राप्तयोरनेन पुनश्छः । वृकगतयः । शृगालगतयः । श्रय् प्राप्तः । देश इत्यधिकारोऽपि गद्दादीनां सम्भवापेक्षं विशेषणम् । गहे जातः, गहीयः । गइ | अन्तस्थ । सम । मध्य मध्यम चाणू चरणेत्यस्यायमर्थः । पृथिवीमध्यशब्दस्य मध्यमादेशः । पृथिवीमध्ये शब्दस्य वा मध्यमादेशो भवति । माध्यमीयः कठः । चरणसम्बन्धे निवासलक्षणे त्यार्थे श्रणु भवति । माध्यमा इति । उत्तम । श्रङ्ग । मगध । पूर्वपक्ष । श्रपरपक्ष । श्रवमसाख । उत्तमसाख । समानशील। एकप्राम । एकवृक्ष | इवग्र । इदवनीक । अवस्पन्द । कामप्रस्थ । श्रस्मात् "प्रस्थपुरवहान्तात् " [ ३|२| १०० ] इति बुर् प्राप्तः । खाडायनिः । काठोरणिः । लावंरणिः । शैशिरि । शौङ्गि । श्रासुरि । आहिंसि । श्रमित्रि । व्याडि । भौaि | प्रावि । श्राग्नि । शमि । देवशम्मि । यौगिकतरार्कि । वाल्मीकि । माल्नकि । सोमवृत्विन् । उत्तर । मुखपार्श्वतसोः खच्च । पार्श्वतीयम् । मुखतीयम् । जनपरयोः कुक्च । जनकीयम् । परकीयम् | देवस्य च (वा) । देवकीयम् । वेणुकायाश्छण् वक्तव्यः । श्राकृतिगणोऽयम् । वैणुकीयम् । श्रतरI पदीयम् । प्रास्थीयम् । माध्यमकीयम् । मातृकीयम् । चैत्रकीयम् । कृकणवर्णाद् भारद्वाजे देशविशेषे । कृकणीयः । पर्णीयः ।
1
१. - दनुवर्त - पू० । - रित्येव तदनुवर्त - अ० । २ अन्तरपक्ष पू० । ३. लावेरणि अ० पू० । ४. आश्वि अ० । ५. ज्योति श्र० । श्रोति ( श्रौति ) पू० । ६. वाशकि पू० । वाटारकि अ० । ७. क्षेमवृत्तिन् अ० पू० । समवृत्तिम् ब० ।
For Private And Personal Use Only