________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९०
जैनेन्द्र-व्याकरणम्
[अ० ३ पा० २ सू० १०४ - १०६
कच्छाग्निवक्त्रवर्त्त' (गर्त द्योः || ३|२| १०४ ॥ कच्छ श्रग्नि वक्र वर्त्त' (गर्त ) इत्येवं द्योर्देशवाचिनो मृदो दोरदोश्च वुञ् भवति शेषे । छाणोऽपवादः । भरुकच्छे जातः, भारुकच्छकः । पैप्पलीयकच्छुकः । aresग्नौ जातः काडाग्नकः । वैभुजाग्नकः । तेन्दुवक्त्रकः । सैन्धुवक्त्रकः । बाहुवर्तकः । चाक्रवर्तकः ।
Acharya Shri Kailassagarsuri Gyanmandir
धूमादेः ||३२|१०५ ॥ धूम इत्येवमादिभ्यो वुञ भवति शेषे । श्रणादीनामपवादः । धूमे बातः, धौमकः । धूम | षण्ड । शशादन । अर्जुनवा । दण्डायन । स्थली माणवस्थली । घोषस्थली । पोषस्थली । माइकस्थली | राजगृह | सत्रासाह । भक्षास्थली । समुद्रस्थली । मद्रस्थल । अञ्जलीकूल । द्वयाहाव | त्र्याहाव | संस्फीय | पर्वत | गर्भ | विदेह । श्रानर्त्त । श्रनयोरराष्ट्रार्थं ग्रहणम् । पादूर | पाथेय । योङोऽप्यदेशार्थं 1 ग्रहणम् । घोष । सव्य' । पल्लि । राज्ञी । श्राराज्ञकः । धार्त्तराशी । धार्तराज्ञकः । इत्येवमादिग्रहणमप्रागर्थम् । अभय । तीर्था । तीरकूलात्सौवीरेषु । कौलमन्यत् । समुद्रान्नावि मनुष्ये च । सामुद्रमन्यत् । कुक्षि । श्रन्तरीप | रुण | उज्जयिनी । दक्षिणापथ | साकेत |
।
नगरात्कुत्सादाच्ययोः ||३|२| १०६ ॥ कुत्सा निन्दा, दाक्ष्यं नैपुण्यम् । एते त्यार्थस्य जाता दे - विशेषणम् । नगरशब्दाद् वुञ् भवति शैषिक: कुत्स्यदा दययोर्गम्यमानयोः । तत्र कुत्सायां केनाऽयं मुषितः । इ नगरे मनुष्येण । सम्भाव्यत एतत् । नागरका चौरा हि जागरूका भवन्ति । केनेयं वीणा वादिता इह नगरे मनुष्येण । उपपद्यत एतन्नागरको (कैः ) निपुणा हि नागरका भवन्ति । कुत्सादाच्ययोरिति किम् १ नागरः पुरुषः । कत्र्यादिषु नगरीशब्दः पठ्यते । तस्मादृढकञि नागरेयक इति भवति ।
मनुष्यादिष्वरण्यात् ||३|२| १०७ ॥ अर(यशब्दान्मनुष्याभिधेये शैषिको वुञ् भवति । "अरण्याण्यो वक्तव्य:" [वा०] इत्युक्तम्, तस्यायमपवादः । श्रारण्यको मनुष्यो वा पन्था वा अध्यायो वा न्यायो वा विहारो बा हस्ती वा । एते मनुष्यादयः । "वा गोमयेष्विति वक्रव्यम्” [वा०] श्रारयका श्रारण्या गोमयाः । मनुष्यादिष्विति किम् ? श्रारण्या श्रोषधयः ।
कुरुयुगन्धरेभ्यो वा ||३|२|१०८ ॥ कुरु युगन्धर इत्येताभ्यां शैषिको वुञ भवति । 'राष्ट्रशब्दो वा (राष्ट्रवध्योः)" [३।२ । १०२] इति "बहुत्वेऽदोरपि” [३१२ १०३ ] इति नित्ये वुभि प्राप्त विकल्पोऽयम् । कुरुषु जातः कौरवकः । कच्छादिपाठादपि भवति । कौरवः । वाग्रहणं युगन्धरार्थमेव । युगन्धरेषु जातः यौगन्धरकः । यौगन्धरः । नृतत्स्थयोरभिधेययोः कुरुशब्दान्नित्यो वुञ भवति । कौरवको मानुष्यः । कौरव कमस्य जल्पितम् ।
"
वृजिमद्वात् कः ||३|२| १०६ ॥ वृजिमद्रशब्दाभ्यां को भवति शेषे । राष्ट्रलक्षणस्य "बहुस्वेऽदोरपि " [३।२।१०३] इत्यस्य वुञोऽपवादः । वृजिक: । मद्रकः । यस्मिन्प्रकरणे जनपदास्तेषु "सस्यविधौ (म) तदन्तविधिरिति प्रतिषेधे प्राप्ते "सर्वार्द्धदिक्छब्देभ्यो जनपदस्य" [वा०] इति सर्वत्र तदन्तविधिः । सुमागधकः । सर्वमागधकः । अर्धमागधकः । पूर्वमामधकः । सुमद्रकः । सर्वमद्रकः । अर्धमद्रकः । दिक्शब्दपूर्वकत्वे तु मद्रशब्दस्य " दिगर (गा) देखो" [ ३२८४ ] "मद्रेभ्योऽ” [१९१८५ ] इत्यपि । पौर्वमद्रः ।
स० ।
१. अत्र गर्तयोरिति पाठः सुवचः । पूर्वत्र राष्ट्रावध्योरिति सूत्रवृत्तौ तुभेवोत्तरसूत्रेण त्रगर्तकः । इत्युक्तेः । बाहुवर्तकः । चाक्रवर्तकः । इत्युदाहरणमप्यन्त्रोक्तं चिन्त्यम् । २. शप अ०, ब०, ३. - व्यत एतन्नागरको (कै: ) निपुणा भवन्ति । केने- ब० । व एतनागर के ( कै: ) चौरा हि नागरका भवन्ति । केने - अ० पू०
For Private And Personal Use Only