________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
जैनेन्द्र-व्याकरणम् [अ० ३ पा० २ सू० ८८-१५ इजः ॥३२२८८॥ वृद्ध यो विहितः इञ् तदन्तादण भवति शेषे । दारिदं दाक्षम् । प्लाक्षम् । वृद्ध इत्येव । सौतङ्गमेरिदं सौतङ्गमीयम् ।
न द्वथचः प्राच्यभरतेषु ॥३।२।८९॥ यचो मृदः प्राच्यभरतात् वृद्धादिअन्तादण न भवति । पूर्वेण प्राप्तस्य प्रतिषिधः । प्राच्येषु चैदीयाः । पौषीयाः । भरतेषु काशीयाः । वासीयाः । द्वयच इति किम् ? पानागारेश्छात्राः पानागाराः । प्राच्यभरतेषु इति किम् ? दाक्षाः। प्लाक्षाः| "काश्यादेष्टमिजठौ" [
३२] इत्यत्र चेदिशब्देन साहचर्याद्देशवाचिनः काशिशब्दस्य ग्रहणम् । इह वृद्ध त्यान्ताच्छ उदाहृतः। ननु भरताः प्राच्या एव तेषां किमर्थ पृथगुपादानम् । अन्यत्र प्राच्यग्रहणेन भरतग्रहणं मा भूदित्येवमर्थम् ।।
दोश्छः ॥३।२६०॥ वृद्ध इति निवृत्तम् । सामान्येनोपादानात् । दोर्मुदश्छो भवति शेधे । सौतारोयम् । मालीयम् । "रूप्यद्योः" [३।२।३छं (छणं ) बाधित्वा परत्वात् "धन्वयोङः" [३।२।६६] इति वुज । माणिरूप्ये भवः माणिरूप्यकः । “उदीच्यग्रामात् प्रस्थद्योरण वक्तव्यः” [ वा. ] माषीप्रस्थम् । माहकीप्रस्थम् ।
भवतष्ठणछसौ ॥३।२।६१॥ दोरिति वर्तते । भवच्छब्दात् ठण् छस् इत्येतो त्यो भवतः शेपे । सकार: "सिति" इति पद संज्ञार्थः । भावत्कम् । भवदीयम् । "मृद्ग्रहणे हिङ्गविशिष्टस्य भवतीशब्दस्य ग्रहणे ठण्छसोः' [वा०] इति वक्ष्यमाणेनोपसंख्यातेन पुंवद्भावे तदेव रूपम् । यस्त्यदादिषु न पठ्यते शत्रन्तो भवच्छब्दः, तस्मादणि भावतमिति ।
__काश्यादेष्ठभिठौ ॥३।२१२॥ काशि इत्येवमादिभ्यः ठञ् मिठ इत्येतौ त्यो भवत शेषे । इचार उच्चारणार्थः। काशयो जनपदः तत्र जाता काशिको, काशिका | वैदिकी, वैदिका । काशि । वेदि । सांयाति । संवाह । श्रच्यत । मोदमान । संकुलाद । हस्तिकणं । कुनामन् । हिरण्य । करण । गोवासन | भोरिनि । भोलिनिअरिन्दम । शकमित्र । देवदत्त । दासमित्र । दासग्राम | गोवाहन । तरङ्ग। सौदावतामि। युवराज । उपराज | सिन्धुमित्र । देवराज । “मापदादिपूर्वपदात् कालान्ताद् ठनिठौ वक्तव्यौ" [वा०]। श्रापकालिकी । आपत्कालिका । श्रोर्ध्वकालिकी। और्वकालिका । श्रापद् । ऊर्ध्व । कूप । अनु । पूर्व । इत्यापदादिः। दोरिति वर्तते । यत्रादुसंज्ञास्तेषां वचनाद् ग्रहणम् । दोरधिकारस्य तु प्रयोजनं देवदत्तस्य प्रागदेशे वर्तमानस्य दुसंज्ञा न वाहीकग्रामे । दोरेव ठनिठौ । कथं भाष्ये प्रयोगः देवदत्तीयाः। देवदत्ताः इति । "वा नाम्नः" [११] इत्यत्र वेति व्यवस्थितविभाषा छे कर्तव्ये दुसंज्ञा भवति ठठियोर्न भवति।
वाहोकमामेभ्यः ॥२२॥६३॥ दोरिति वर्त्तते । वाहीकग्रामेभ्यष्ठभिठौ भवतः शेषे । सकलाज्जाता, साकलि की, साकलिका । मान्थपिकी । मान्थपिका । कारतायिकी । कारतायिका ।
वोशीनरेषु ॥३।२।६४॥ दोरिति वर्तते । उशीनरेषु ये ग्रामाः, तद्वाचिभ्यष्ठबिठौ वा भवतः । पाहूजालिकी, श्राहू जालिका, आहूजालीया । सौदर्शनिको, सौदर्शनिका, सौदर्शनीया ।
ओदेशे ठन. ॥३।२।९५॥ इह दो रदोत्र विधिः। उत्तरसूत्रे पुनढुंग्रहणात् । उवर्णान्ताद्देशवाचिनो मृदष्ठञ् भवति देशे। निषादका जातः, नैषादकएकः । एदञ्चरवन्तुकः । छस्य परत्वादयं ठञ् बाधकः । दाक्षिकर्युकः। दोष्ठञिटयोरपि बाधकः। वाहीकग्राम, नापितवास्तौ जातः नापितवास्तुकः । देश इति किम् १ पटोश्छात्राः-पाटवाः।
१.चेकीयाः श्र०, ब०, पृ०.। २.सौधावनानि अ०। सोधावतानि पृ० । ३. एपञ्चरजन्तुकः अ०, पू० । एयश्चरजन्तुक: ब०।
For Private And Personal Use Only