________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ३. पा० २ सू० ८१ ८७ ]
महावृत्तिसहितम्
स्तुट् ॥ ३२२८१ ॥ भिसंज्ञकाद्यो भवति तुडागमः शेषे । श्रत्र परिगणनम् । “प्रमेहकतसि त्रेभ्य'' इति । श्रमात्यः । इहत्यः । वत्यः । ततस्त्यः । तत्रत्यः । परिगणनं किम् ? उपरिष्टात् जातः, श्रौपरिष्टः । झेर्भमात्रे टिखम् । परतो जातः पारतः । उत्तराहि जातः, श्रौत्तराहः । "दोश्छः " [ ३२० ] एव भवति । श्रारातीयः । " नेध्रुव इति वक्तव्यम्" [वा०] नियतं सर्वकालं भवं नित्यम् | "निसो गत इति वक्तव्यम्” [ वा० ] निर्गतो वर्णाश्रमेभ्यो निष्टयः श्वपचादिः ।
१८७
वैषमोह्यस्श्वतः ||३|२|८२ ॥ ऐषमस् ह्यस् श्वस इत्येतेभ्यो वा यो भवति । यदा यस्तदा तुट् । ऐषमस्त्यः । ऐषमस्तनः । ह्यस्त्यः । ह्यस्तनः । श्वस्त्यः । श्वस्तनः । “श्वसस्तुट् च” [३/२/१३५] इति पाक्षिके ठञ, शौवस्तिकः । " द्वारादेः " [ ५।२६] इत्यौच् ।
रूप्यद्योः || ३|२|८३ ॥ रूप्यशब्दो द्युर्यस्य तस्मात् णो भवति शैषिकः । वृकरूप्ये जातः वार्करूप्यः । दुसंज्ञायां परत्वात् "धन्वयोः " [ शशहर ] इति वुञ् भवति । माणिरूप्ये जातः, माणिरूप्यकः ।
दिगारख ||३|२| ८४ ॥ दिग्विशेषादेर्मृदः श्रखौ वर्त्तमानात् भवति । व्यणोऽपवादः । शेषे । पूर्वस्य शालायां भवः पौर्वशालः । "हृदयं" [११३४६ ] षसः । एवम् श्रापरशालः । दाक्षिणशालः । श्रखाविति किम् ? पूर्वेषुकामसम्यां जातः पूर्वैषुकामसमः । श्रपरैषुकामसमः । "दिक्संख्यं खौ” [१|३|४५] इति सः । “प्राचां ग्रामाणाम् ” [ ५/२/११] इति द्योरैप् ।
मद्रेभ्यो ऽण् ||३|२| - ५॥ दिगादेरिति वर्त्तते । दिगादेर्मद्रशब्दात् अय् भवति शैषिकः । "बहुस्वेऽदोरपि" [ ३/२/१०१] इति वुञ प्राप्तः । तदपवादे "वृजिम द्र एकः " [ ३।२/१०६ ] इति के प्राप्त पुनरनेनाय् । पौर्वमद्रः । श्रापरमद्रः । “दिशोऽमद्राणाम् " [ २१२ १ ८ ] इति पर्युदासादादेरैप् । दिगादेरित्येव । मद्रकः । श्रारम्भसामर्थ्यादेवाणि सिद्ध े श्रय्ग्रहणं राष्ट्रलक्षणस्यापि वुत्रो बाधनार्थम् ।
पलद्यादेः ||३|२|८६|| पलदी इत्येवमादिभ्योऽय् भवति शैषिकः । पलद्यां जातः, पालदः पारिषदः। "वा नाम्नः" [ १७१ ] इति दुसंज्ञायां छः प्रसज्येत । इह वाहीकशब्दश्छबाधार्थमुपात्तः । गोष्ठीनैकेतशब्दाभ्यां छः प्राप्तः । वाहीकशब्दत्वाच्च ठमिठौ प्राप्तौ । गोमतीशब्दात् “रोडीतोः प्राचाम्" [३|२|१०१] इति वुञ प्राप्तः । "ओ' र्देशे ठ" [२|१५] इत्यत्र ( इत्यतो ) देशग्रहणमनुवर्त्तते । गोमती च नदी । “भिन्नलिङ्गो नदीदेश” [१|४|८३] इत्यत्र ज्ञापितं नदीदेशग्रहणेन न गृह्यते । गोमत्यां भवा मत्स्या गौमता इति । तस्मादिह पाठोऽनर्थकः । एकीयमतमेतत् । श्रथवा इदमेव ज्ञापकम् नद्यपि देशग्रहणेन गृह्यते । “भिच लिङ्गो नदीदेश" [१|४|८३] इत्यत्र नदीग्रहणं जलाशयनियमार्थमुक्तम् । श्रवदुदकानां द्वद्व एकवद् भवति (न) स्थिरोदकानां कूपसरस्तडागानाम् । वैश्वामित्र ं च तडागं जरत्कूपश्च वैश्वामित्रजरत्कूपौ । शूरसेन शब्दात् "बहुस्वेऽदोरपि " [ ३।२।१०३ ] इति वुञ प्राप्तः । पलदी । परिषत् । यकृत् । लोमन् । नखञ्च । पटच्चर । वाहीक । कलकीक । बहुकीट । कमलभित् । गौष्ठी । नैकेती । परिखा । उदपान | रोमक । शूरसेन । गोमती ।
For Private And Personal Use Only
शकलादिभ्यो वृद्धे ||३|२/८७ || शकल इत्येवमादिभ्यो वृद्धे यो विहितस्त्यस्तदन्तेभ्योऽण् भवति शेषे । शाकल्यस्य छात्राः शाकलाः । “क्यच्व्यना दूधृत्या पत्यस्य " [ ४|४|१४१] इति यखम् । कायवस्य छात्राः कारावाः । गौकदयस्य गौकक्षः । कौण्डिन्यस्य कौण्डिनः । वृद्ध इति किम् । शकलो देवताऽस्य शाकलः । शाकलस्येदम् शाकलीयम् । उत्तराय च वृद्धग्रहणम् ।
१. ननु " रोङोतो;" इत्यत्र देशमहणमनुवर्तते । अ० पू० ।