________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
जैनेन्द्र-व्याकरणम्
[अ० ३ पा० २ सू० ७३.८०
"भसन्ध्याथुतुभ्योऽवर्षाभ्योऽणू' [२११३०] इत्यण । "इष्टे सामनि वृद्धापक्वत् वक्तव्यम्" [वा.] औपगवेन दृष्टं साम, श्रौपगवकम् । कापटवकम् । "वृद्धचरणामित्'' [३।३।१४] इति वुन् ।
"दष्टे सामनि जाते च योऽन्योऽण् वा डिद्विधीयते । तीयादीकण् च विद्यायां वृद्धावकवदिष्यते ।"
शेष इति लक्षणमधिकारश्चायम् । शेषभूतेषु जातादिष्वर्येषु घादयो वक्ष्यमाणा वेदितव्याः। तस्येदं विशेषेष्वर्येषु अपत्यसमूहादिषु मा भूवन्निति ।
राष्ट्रावारपाराद्घखौ ॥३।२७३।। राष्ट्र अवारपार इत्येताभ्यां यथासंख्यं घ ख इत्येतौ त्यौ भवतः । राष्टे नातः राष्टियः। अवारपारीणः। “विगृहीताक्षपीष्यते"। अवारीणाः। पारीणः। "विपरीतादपि" पारावारीणः । अवारस्य पारे ( रम् ) पारावारः समुद्रः, राजदन्तादित्वात् [१॥३॥६६] परनियमः ।
ग्रामाचखौ ॥३।२७४॥ ग्रामशब्दात् य खम् इत्येतौ भवतः शेषार्थाऽमिधाने । ग्राम्यः । ग्रामीणः। खो जित्करणं "णिद्धदरकविकारे' [॥३।१५१] इत्यत्र पुंवद्भावप्रतिषेधार्थम् । ग्रामीणभार्यः।
करत्र्यादेदकम् ॥३।२।७५।। कत्त्रि इत्येवमादिभ्यो ढका भवति । कुत्सितायो यस्या यस्य वा असौ कत्तिः, तत्र जातो भवो वा कात्रेयकः । कृत्रि। उम्मि' पुष्कर । पुष्कल | पोदन । मौदन । उम्बि । कुण्डिनी' । नगरी । माहिष्मती। चर्मण्वती । कुड्या । कुल्या। अनयोर्यखं च "मामाच्चेति बनव्यम्" [वा०] मामेयकः । "कुछकुक्षिप्रीवाभ्यो यथासंख्यं श्वास्यलकारेविति वक्तव्यम्" [वा०] कौलेयको भवति श्वा चेत्, कौलोऽन्यः । कौडेयको भवत्यसिश्चेत्, कौक्षोऽन्यः। अवेयको भवत्यलङ्कारश्चेत्, प्रैवोऽन्यः।
नद्यादेढण् ॥३२७६॥ नदी इत्येवमादिभ्यो ढण भवति शेषे । नद्यां जातो भवो वा नादेयः । नदी । मही। वाराणसी। श्रावस्ती। कौशाम्बी । काशफरी" । खादिरी । पूर्वनगरी। पावा । मावा । शील्वा । दार्वा । सैतव । वडवाया नृषे इति । अत्र केचित् पूर्वनगरीशब्दस्थाने पूर्वनगिरिशब्दं पठन्ति । छेदेन च त्यमुत्पादयन्ति । पुरि भवं पौरेयम् । वने भवं वानेयम् । गिरौ भवं गैरेयम् ।
दक्षिणापश्चात्पुरसस्त्यण ॥३२७७॥ दक्षिणा पश्चात् पुरस् इत्येतेभ्यस्त्यण् भवति शेषे । दक्षिणस्यां दिशि वसति “दक्षिणादा" [१०] इति श्राकारे कृते दक्षिणा, तत्र भवो दाक्षिणात्यः । पाश्चात्यः। पौरस्त्यः।
टफण कापिश्याः ॥३॥२७८॥ ट्मण भवति कापिशीशब्दात् शेषे । कापिश्याम्भवं कापिशायनं मधु । कापिशायनी द्राक्षा । "बाहृयु दिभ्यश्चेति वक्तव्यम्" बाह्रायनी । आयनी ।
रङकोः ॥४२१७६|| रङ्कुशब्दात् टफल् भवति शैषिकः। रङ कुषु जातः राङ्कवायणो गौः। "प्राणिनीति वक्तव्यम् । इह माभूत् । राङ्कवः कम्बलः । कथं राङ्कवो गौः ? शेषे कच्छादिपाठात् अणपि भवति । मनुष्ये त्वभिधेये परत्वात् "नृतस्त्थयोवू" [३।२।११३] इति वुञ् भवति । रावको मनुष्यः ।
धुप्रागपागुदप्रतीचो यः ॥२०॥ दिव प्राच अपाच उदच प्रतीच् इत्येतेभ्यो यो भवति शेषे । दिव्यः। प्राच्यः । अपाच्यः । उदीच्यः । प्रतीच्यः । यदा प्रागादयः शब्दाः झिसंज्ञकाः कालवाचिनस्तदा परत्वात् "सायंचिरम्प्राद्ध प्रगेमिभ्यस्सनट्" [३ ९० ] इति तनन् । प्राक्तनः ।
1.सि पू० । २. पौदन ब०, स०। ३. कण्डिनी अ०, ब., पू०। १, -म्बी । बनकौशाम्बी । का-अ०, ब०, पू. ५. कासपशि । सफरी पू० । कासपारी | सफरी भ०। कासपारी खा- ब.। ६. शाल्वा भ०, पू० । .. बडवाया वषे इति काशि० ।
For Private And Personal Use Only