________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म० ३ पा० २ सू० ६३-७२] महावृत्तिसहितम्
शर्कराया वा ॥३।२।६३॥ शर्कराशब्दादुत्पन्नस्य चातुरर्थिकस्य वा उस्भवति । शर्कराशब्दः । कुमुदादिषु वराहादिषु च पाठसामर्थ्यात् पक्षे ठण कणोः श्रवणं भवति । शर्कराग्रामः । शर्करिकः । शारिकः । "केऽण :'' [ ५।२।१२५ ] इति प्रादेशः। अन्ते उत्सर्गस्येमं विकल्पमिच्छन्ति । तेषां शार्करेत्यपि भवति । अन्यथा विकल्पोऽनर्थकः स्यात् ।
ठणछौ ॥३।२।६४॥ ठण्छ इत्येतौ त्यौ भवतः शर्कराशब्दात् चतुर्वर्थेषु । शारिकम् शर्करीयम् ।
नद्या मतुः ॥३२॥६५॥ नद्यामभिधेयायां मृदो मतुर्भवति चतुर्वर्थेषु देशे खौ। उदुम्बरा अस्यां सन्ति, उदुम्बरावती । वीरणावती । पुष्करावती । इक्षुमती । द्रुमती। कथं भागीरथी भैमरथी जाह्नवी ! वेत्यनुवृत्तेर्व्यवस्था ।
मध्यादेः ॥३२॥६६॥ मधु इत्येवमादिभ्यो मतुर्भवति चतुर्वर्थेषु । अनद्यर्थोऽयमारम्भः। मधु अस्सिन्देशेऽस्ति, मधुमान् । मधु । विश । स्थाणु । पृर्थि । इक्षु । वेणु । कर्कन्धु । शमी । करीर । हिम । किसरा । सार्यण । उमस । बार्दाकी । वल्मीक । इष्टका । शुक्ति । आसुति । श्रासन्दी। शालाका । वेयवेण ।
कुमुदनडवेतसाड्डित् ॥३।२।६७॥ कुमुद नड वेतस इत्येतेभ्यश्चतुर्वर्थेषु मनुर्भवति डिच्च । कुमु • दान्यस्मिन्देशे सन्ति, कुमुद्वान् । वेतवान् । 'महिषाच्चेति वक्तव्यम्" [ वा०] | महिष्मान् ।
शिखाया वलः ॥३२॥६८॥ शिखाशब्दात् वलो भवति चातुरर्थिकः । शिखया निवृत्त शिखाया अदूरभवं वा शिखावलं नाम नगरम् ।
नडशादाडित् ॥३२॥६६॥ नडशादाभ्यां वलो भवति डिच्चतुर्वर्थेषु । नडा अस्मिन्देशे सन्ति नड्वलः । शाडवलः।
उत्करादेश्छः ॥३।२।७०॥ उत्कर इत्येवमादिभ्यश्छो भवति चतुर्थेषु यथासम्भवम् । उत्करेण निवृत्तम्, उत्करीयम् । उत्कर । संकर । सम्फल । पिप्पल । मूल । अश्मन् । अर्क । पर्ण | खण्डाजिन। अग्नि । तिक । कितव। आतप । अंशक' ।
नडादेः कुक् ॥३।२७१॥ नड शब्द आदिर्यस्य नडादिः, तस्मात्, नड इत्येवमादिभ्यो यथासम्भवं चातुर्रार्थवश्छो भवति कुगागामश्च । नडा अस्मिन्देशे सन्ति नडकीयः । नड । लक्ष । विल्व । बेणु । वेत्र । वेतस । तृण । इत्तु । वाष्ठ । कपोत । क्रौञ्चः प्रादेशश्च । तक्षन् तखञ्च ।
शेषे ॥३२॥७२॥ अपत्यादयश्चतुरर्थपर्यन्ता येऽर्था उक्लासतोऽन्यः शेषः, शेषेऽर्थविशेषे यथाविहितं त्यो भवति । चतुर्भिरुह्यते चातुरं शकटम् । अश्वैरुह्यते श्राश्वो रथः। चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । दार्शनं स्पार्शनं च द्रव्यम् । दृषदि पिष्टाः दार्षदाः सक्तकः । उलूखले क्षुण्णः, औलूखलो यावकः । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः। अनुष्टुबादिरस्य प्रगाथस्य, श्रानुष्टुभः । पाङ्क्तः । जागतः। स्वार्थेऽनुष्टुबेव आनुष्टुभम् । पाकम् | जागतम् । “तेन दृष्ट साम ।' क्रौञ्चेन दृष्टं साम, क्रौञ्चम् । वासिष्ठम् । वैश्वामित्रम् । मायूरम् । “वामदेवायो वक्तव्यः" [वा०] । वामदेवेन दृष्टं वामदेव्यम् । "क्वचिदृष्टे सामान जाते चाथै योऽन्योऽण विधीयते स च डिद्भवतीति बक्तव्यम् ।" उशनसा दृष्टं साम श्रौशनम् । श्रौशनसम् । शतभिषजि जातः शातभिषः शातभिषजः । “काकाटुनि" [३।२।१३१] प्राप्ते
१. पृष्टि ब०, पृ० । २. सीर्यण ब० । ३, वार्दाका पू० । ४. पर्ण । सुपणं । ख-ब०, पू०। ५.-जिन । बलाजिन | अग्नि ब०, पृ०। ६. अशंक पू०। ।
२४
For Private And Personal Use Only