________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म०१ पा० २ सू० ५७-६०] महावृत्तिसहितम् यार्थम् । पाराशर्येण प्रोक्तं सूत्रमधीयते पाराशरिणो भिक्षवः। शिलालिना प्रोक्तमधीयते शैलालिनो नयाः । शौनकादिषु “पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः" [ग. सू० ३।३।७७ ] इति णिन् । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनः । कृशाश्वेन प्रोक्तमधीयते कृशाश्विनः। शौनकादिष्वेव 'कर्मन्दकृशाश्वाभ्यामिन्" [ग० सू० ३।३७७ ] इति भिक्षुनटसूत्रयोरिति वर्तते ।
तदस्मिन्नस्तीति देशः खौ ॥३२॥५७॥ तदिति वासमर्थादस्मिन्नितीबर्थे यथाविहितं त्यो भवति । यत्तद्वासमर्थमस्ति चेत् तद्भवति । यत्तदस्मिन्निति निर्दिष्ट देशश्चेत्तद् भवति । समुदायेन खुविषये । इतिकरणाद् भूमादिविषये विवक्षा । औदुम्बरः । वाल्वजः । पार्वतः । मत्वर्थीयोऽनेन बाध्यते ।
तेन निवृत्तः ॥३२॥८॥ देशः खाविति वर्तते । तेनेति भासमर्थाद् निर्वृत्त इत्येतस्मिन्नथें यथाविहितं त्यो भवति देशः खौ। ककन्देन निर्वृत्ता काकन्दो। मकन्देन निर्वृत्ता माकन्दी। कुशाम्बेन निवृता कौशाम्बी । सहस्रण निर्वृत्ता साहस्री परिखा ) खावित्येव । वनेन निवृत्तम् । इह यदाऽकर्मका अपि धवः सगयः सकर्मका भवन्तीति कर्मणि निवृत्तशब्दी व्युत्पाद्यते, तदा तेनेति कर्तरि करणे वा भा। यदा वकर्मकविवक्षया कर्तरि निर्वृत्तशब्दस्तदा हेतौ भा ।
तस्य निवासादूरभवौ ।।३।२।५६॥ देशः खाविति वर्तते । तस्येति तासमर्थात् निवास अदूरभवइत्येतयोरर्थयोर्यथाविहितं त्यो भवति देशनाम्नि गम्यमाने । निवसन्त्यस्मिन्निति निवासः "हलः" [२२३३०२] इत्यधिकरणे धन । भवतीति भवः । पचाद्यच् । अदूरे भवः निपातनात्सविधिः । वसतेर्निवासः वासातम् । श्रौषुष्टम् । शलाकाया निवासः शालाकम् । वाराणस्या अदूरभवा वाराणसी। विदिशाया अदूरभवं वैदिशम् । ब्रीहीमत्या अदूरभवं हिमतं नगरम् ।
बुञ्छणकठेलसेनढणण्ययफरिफभिकण्ठणोऽरीहणकृशाश्वर्यकुमुदकाशतृणप्रेक्षाश्मसखिसकाशबलपक्षकर्णसुतङगमवराहकुमुदादिभ्यः ॥३।२।६०॥ धुआदयः षोडश त्या यथासंख्यमरीहणादिभ्यः षोडशभ्यो गणेभ्यो भवन्ति यथासंभवं प्रागुक्तेषु चतुरर्थेषु । अरीहणादिभ्यो वुञ् ! अरोहणेन निवृत्त श्रारोहणकम् । अरोहण द्रुघण द्रवण खदिर भगल उलुन्द साम्परायण क्रौष्ट्रायण चैत्रायण त्रैगर्तायन रायस्पोष विपथ विसाय उद्दण्ड उदजन शालायन खाण्डायन खण्डवीरण काशकृत्स्न जाम्बवत शिशपा किरण रैवत तैश्व वैमतायन सौमायन शाण्डिल्यायन सुयश विपाश वायस । कृशाश्वादिभ्यश्छण भवति । कशाश्वेन निर्वृत्तं काश्विी यम् । कृशाश्व अरिष्ट वेश्मन् वेप्य विशाल रोमक लोमक ववर शवल रोमश वर्वर सूकर पूतर सदृश सुख धूम अजिर विनत अवनत इरस श्रयस् विकुषास अनस् अवसाय मौद्गल्य । ऋश्यादिभ्यः को भवति । ऋश्या अस्सिन्देशे सन्ति ऋश्यकः । ऋश्य । न्यग्रोध । सर (शिरा)। निलीन । निवास' । निद्यास | वितान । विधान । निबद्ध । बिबुद्ध । परिगूढ । उपगूढ । उपगूह। उच्चराश्मन् । स्थूलबाहु। स्थूलवाह । खदिर। शर्करा । अनडुह् । परिवंश । वेणु । वीरण । कुमुदादिभ्यो भवति । कुमुदान्यस्मिन् देशे सन्ति कुमुदिकम् । कुमुद । शर्करा । न्यग्रोध । कर्कट । संकट। इत्कट । मन्तु। बीज । अश्वत्थ । बल्वज । अथक । गत । वरिवाप। अक्ष। पवाश । शिरीष। कृप । विकङ्कत । कासादिभ्य इलो भवति । काशा अस्मिन्देशे सन्ति काशिलम । प्राश । वास। अश्वत्थ । पलाश। पीलूष । विस । तृण । वधूल। कार्दम। नड । वन । कपर। कर्कट । गुहा । सा(शा)कटिक । तृणादिभ्यः सो भवति । तृणान्यस्यां सन्ति तृणसा । तृण । नड ।
१. निवात ब०, पू० । २. उत्तराश्मन् पू० । ३. परिवाय २०, ३०। ४. वाम पू०। ५. वधूल ब०।
For Private And Personal Use Only