________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
जैनेन्द्र-व्याकरणम्
[अ० ३ पा० २ सू० ५३ - १६
दत्तिकः । ऐतिहासिकः । पौराणिकः । " सर्वसादेरसाच्चोपू" [वा०] सर्वादेः सादेरसाच्चोन् भवति । सर्ववेदः । सर्वतन्त्रः । सादे :- सवार्त्तिकः । ससंग्रहः । सर्वत्र ठण उप् । रसात् । पञ्चकल्पः । त्रिलक्षणः । त्रिसूत्रः । विद्यालक्षण कल्पसूत्रागुक्तः । पदोत्तरपदादिकः । पूर्वपदिकः । उत्तरपदिकः । " ज्ञातषष्टिभ्यां पथष्टिकः " वा०] शतपथिकः । शतपथिकी । षष्टिपथिकः । षष्टिपथिकी । “अनुसूखच्यलक्षणेभ्यश्च ठय्' [वा०] अनुसूनम ग्रन्थः । अनुसूमधीते श्रानुसुकः । लाचियकः । लाक्षणिकः । द्विपद ज्योतिष प्रभुपद अनुकल्प । "इतिकरणं प्रयोगार्थं वर्तते । ततोऽयं विभागो लभ्यते ।
क्रमादेर्बुन् ||३|२|५३॥ तद्वेत्यधीते इति वर्तते । क्रम इत्येवमादिभ्यो वुन् भवति । क्रमं वेत्यधीते वा क्रमकः । क्रम पद शिक्षा मीमांसा सामन् । “अनुब्राह्मणादिन्वक्तव्यः " [ घाο ] ब्राह्मणसदृशो ग्रन्थो अनुब्राह्मणं तदधीते अनुब्राह्मणी । अनुब्राह्मणिनौ । श्रनुब्राह्मणिनः । मत्वर्थीयेन सिद्धेऽपि बाधनार्थमिदं वक्तव्यम् ।
उमात् ||३|२|५४॥प्रोऽर्थे विहितः प्रोक्तः । प्रोक्कत्यान्तादध्येतृवेदित्रोरुत्पन्नस्य त्यस्योबू भवति । (गोतमेनं प्रोक्तं गौतमं तद्वेत्यधीते वा गौतमः । भद्रबाहुना प्रोक्त भाद्रबाहवं तद्वेत्यधीते वा भाद्रबाद्दवः । परस्याण उपि कृते योऽवस्थितः प्रोक्तार्थविषयोऽय् तस्य न्यक्तित्वात् "अनीचः " [३१७] इत्यधिकारात् “टिड्ढाणन् ” [३।१।१८ ] इति ङीविधिर्न भवति तष्टापि गौतमा । भाद्रबाहवा स्त्री ।
सूत्रात्कोः ||३|२|५५|| सूत्रवाचिनः ककारोङः अध्येतृवेदित्रोरुत्पन्नस्य त्यस्योन्भवति । अप्रोक्ला - र्थोऽयमारम्भः । पञ्चाध्यायाः परिमाणमस्य पञ्चकं सूत्रम् । एवमष्टकं द्वादशकम् । पञ्चकमधीयते विदन्ति व पञ्चका जैनेन्द्राः । अष्टकाः पाणिनीयाः । द्वादशका आईताः । "संख्याप्रकृतेरिति वक्तव्यम्" [वा०] इह मा भूत् । तत्त्वार्थवार्तिकमधीते ताच्वार्थवार्त्तिकः । कलापकमधीयते कालापाः
छन्दो ब्राह्मणानि चात्रेव ||३२|५६ ॥ प्रोक्क्रमणमनुवर्तमानं छन्दो ब्राह्मणानां विशेषणम् । श्रत्रेत्यनाध्येतृवेदितृत्यविषयों गृह्यते । छन्दोवाचीनि ब्राह्मणवाचीनि च प्रोक्त्यान्तान्यत्रैवाभ्येतृवेदितुत्यविषये वर्तन्ते । अध्येतृवेदितृत्यविषया वृत्तिरेव यथा स्यादित्यर्थः । उभयावधारणं चेदमेवकारोपादानाल्लभ्यते । श्रन्यथाऽ रम्भसामर्थ्यात् विषयावधारणे सिद्ध एवकारोऽनर्थकः स्यात् । प्रोक्कृत्यान्तस्यात्रैव वृत्तिर्नान्यत्र । तथा वृत्तिरेव न केवलावस्थानमित्युभयथा नियमः । अन्यत्रानियमात् क्वचित् स्वातन्त्र्यं भवति । श्रर्हता प्रोक्तं शास्त्रं क्वचिदुपान्यतरयोगः । श्रार्हतमईत्सु विहितमिति । कचिद्वाक्यमर्हितमधीते । कचिवृत्तिः श्रईत इति । इदं पुनर्नि यमाद्युगपदेव विग्रहः । कठेन प्रोक्तं छन्दोऽधीयते कठाः । शौनकादिषु "वैशम्पायनान्तेवासिभ्य:" [ग०सू० ||७७ ] इति वचनात् णिन् । तत्रैव "कठचर कादुप्'' [ग० सू० ३।३।०७ ] इति तस्योप् । ततः परस्याणः “उष्प्रोक्तात्” [३।२।१४] इत्युप् । नोदेन प्रोक्तमधीयते नोदाः । पैप्पलादाः । “कलापिनोऽय्' [ ३३७६ ] इत्यत्राण्यइणसामर्थ्यात् श्रन्यत्राप्यण । श्रार्चानिनः ( श्राचयिनः ) " वैशम्पायनान्तेवासिभ्य: [ ३।३।७७ ] इति णिन् । वाजसनेयिनः । शौनकादित्वात् णिन् । ब्राह्मणानि खल्वपि । ताण्डिना प्रोक्त ब्राह्मणमधीयते ताण्डिनः । शौनकादिषु " पुरायप्रोकेषु ब्राह्मण करूपेषु'' [ग०सू०३ | ३|०७] इति णिन् । भल्लवेन प्रोक्तमधीते पूर्ववरिन् । भाल्लविनः । एवं साय्यायनिनः । ऐतरेयिणः । छन्दोग्रहणेन सिद्ध पृथग् ब्राह्मणग्रहणं किम् १ पुराणोक्तत्वविशिष्टब्राह्मणपरिग्रहार्थम् । इह मा भूत् । याज्ञवल्केन प्रोक्तानि याज्ञवल्कानि ब्राह्मणानि । "शकलादिभ्यो वृद्धे" [श२२८७] इत्यण् । यत्खम् । सुलभेन प्रोक्तानि सौलमानि " कलापिनोऽयू" [ ३३७१] इत्यन्यत्राप्यण् । याज्ञवल्क्यादयोऽवरकाला इति व्यवहारः । चकारः किमर्थः ? ब्राह्मणसदृशब्राह्मणानां समुच्चयार्थः । काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिनः । कौशिकेन प्रोक्कं कल्पमधीयते कौशिकिनः । शौनकादिषु "काश्यप कौशिकाभ्याम् ' [ग० सू० ३ | ३|७७ ] इति णिन् । गुणभूतछन्दसां च समुच्च
For Private And Personal Use Only