________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म. ३ पा०२ सू०१८-५२) महावृत्तिसहितम्
१८१ अलायन ताडायन खाडायन सौवीर ( सौवीरायण ) दासमित्रायण शौद्रायण स (श) यण्ड शौण्ड । वैश्वमाणव वैश्वधेनव तुण्डदेव सापिण्डि ।
तदस्मिन्यदधे योदधृप्रयोजनात् ॥४८॥ योद्धारश्च प्रयोजनं च योद्धृप्रयोजनम्, तदिति वासमर्थाद अस्मिन्निति ईबर्थे यथाविहितं त्यो भवति यत्तद्वानिर्दिष्ट योद्धारश्चेत् तद्भवन्ति । प्रयोजनं चेत् तद्भवति । यत्तस्मिन्निति निर्दिष्टं युद्धं चेद्भवति । विद्याधराः योद्धारोऽस्मिन् युद्धे वैद्याधर युद्धम् । कौरवम् । भारतम् । प्रयोजनात् खल्वपि । सुलोचना प्रयोजनमस्मिन् युद्धे सौलोचनम् । स्वायंप्रभम् । सौतारम् । संग्रामे खभिधेये पुलिङ्गता । वैद्याधरः संग्रामः । सौलोचनः संग्रामः । युद्ध इति किम् ? सुभद्रा प्रयोजनमस्मिन्वैरे । योद्धृप्रयोजनादिति किम् ? रथा वाइनमस्मिन् युद्धे ।
प्रहरणमिति क्रोडायां णः ॥३।२।४६॥ तदस्मिन्निति वर्तते । तदिति वासमर्थादस्मिन्निति ईबर्थे यो भवति यत्तद्वासमर्थ प्रहरणं चेत्तद्भवति यत्तदस्सिन्निति निर्दिष्ट क्रीडा सा चेद्भवति । इतिकरणस्ततश्चेतिवक्षा । श्रद्रोहेण यत्र घातः सा क्रीडा । दण्डः प्रहरणमस्यां क्रीडायां दाण्डा । मौष्टा । पादा । प्रहरणमिति किम् ? गन्धोदकसेचनमस्यां क्रीडायाम् । क्रीडायामिति किम् १ असिः प्रहरणमस्मिन् युद्ध ।
पातातलंपाता ॥३२॥५०॥ श्यैनंपाता तैलंपाता इत्येतौ शब्दौ निपात्यते । श्येनानामिव पातः श्येनपातोऽस्यां क्राडायां वर्तते श्यैनंपाता । तिलानामिव पातस्तिलपातीऽस्यां क्रीडायां तैलंपाता। अस्मिन्नर्थे यो निपात्यते पूर्वपदस्य च मुमागमः । कथं दण्डपातः क्रिया अस्यां तिथौ वर्तते दाण्डपाता तिथिः। मुशलपातोऽस्यां वर्तते मौशलपाता भूमिः । पूर्वसूत्रे इतिकरणादन्यत्रापि णो भवति ।
नत्यधीते ॥२२॥५१॥ तदिति इप्समर्थात् वेति अधीते इत्येतयोरर्थयोर्यथाविहितं त्यो भवति । तदिति प्रत्येकं सम्बद्धयते । तद्वेत्ति तदधीते इति । यथा "तेन दीव्यति खनति जयति जितम् ॥१७॥ इत्यत्र तेनेति । मुहूर्त वेत्ति मौहूर्तः । श्रौत्पातः । व्याकरणमधीते वैयाकरणः । सैद्धान्तः ।
ऋतूक्थादिसूत्रान्ताट्ठण ॥३॥२॥५२॥ सपूपा यज्ञाः क्रतवः । ऋतुविशेषवाचिभ्यो मृभ्य उक्यादिभ्यः सत्रान्ताच ठण भवति । तद्वत्यधीते इति वर्तते। अग्निष्टोमं वेत्यधीते वा श्राग्निष्टोमिकः। राजसयिकः । वाजपेयिकः । उक्थादिभ्यः उक्थशब्दः केषुचिदेव सामसु रूढः । स च ौस्थिक्ये वर्तमानस्त्यविधि लमते । उक्थमधीते श्रोक्थिकः । श्रोक्थिक्यमधीते इत्यर्थः । श्रोक्थिक्यशब्दात्तु न त्यावधिर्भवत्यनभिधानात् । एवं यज्ञशब्दोऽपि याज्ञिक्ये त्यविधि लभते । याशिकः । लोकायतमधीते लोकायतिकः । सूत्रान्तात् - वार्तिसूत्रिकः । सांग्रहसत्रिकः। "सूत्रान्तादकल्पादेरिष्यते' [वा०] । तेन काल्पसूत्र इत्यणेव भवति । सूत्रान्तग्रहणमुक्थादेः प्रपञ्चः । उक्थ लोकायत न्याय न्यास पुनरुक्त संज्ञा चर्चा कमेतर श्लक्ष्ण संहिता पद क्रम संघात वृत्ति संग्रह गण गुण आयुर्वेद वसन्त । सहचरितेऽध्ययने वसन्तात् । वर्षा शरद् । व्यस्तसमस्तात् । शिशिर हेमन्त प्रथमगुण अनुगुण प्रथमगण । अनुगण इति केचित् । अथर्वन् । "वद्यालक्षणकाल्पसूत्रान्तादकल्पादेः" [वा. वायसविद्यिकः। साविधिकः । हास्तिलक्षणिकः । श्राश्वलक्षणिक। मातृकल्पिकः। पेतृकल्पिकः । वातिसूत्रिकः । अकल्पादेरिति किम् ? काल्पसूत्रः। "विद्यामाननक्षत्र (विद्या च नाक्षेत्र) धर्मत्रिपूर्वा" वा०] इह विद्यान्ताहणुक्तस्तस्यायं प्रतिषेधः। अङ्गविद्यामधीते श्राङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः। विद्यः । व्यवयवा विद्या इति यसेऽयं प्रतिषेधः। रसे तु "रस्योबनपत्ये" [३।०७४] इत्युपा भवितव्यम् । वत्र नास्ति विशेषः । “आख्यानाख्यायिकेतिहासपुराणेभ्यश्च" [वा० ] श्राख्यानाख्यायिकयोरर्थग्रहणमितिहासपुराणयोः स्वरूपग्रहणम् । श्राख्यानात्-यावक्रीतिकः । आधिभारिकः' । आख्यायिकायाः वासव
.. श्राधिमारिक: ब०, स.।
For Private And Personal Use Only