________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८०
जैनेन्द्र-व्याकरणम्
श्र० ३ पा० २ सू० ४०-५७
काशिकोशलीया इति छ एव भवति । तथेह वृद्धादुच्यमानस्त्यः कथं वृद्ध समुदायादिति । एवं तर्हि तदन्तविविना भविष्यति । इदमेव ज्ञापकं सामूहिके त्ये तदन्तविधिर्भवति । क्षौद्रकमालवी सेना | क्षौद्रकमालवकमन्यत् । भिक्षुक शुक उल्लूक । श्रयं यजन्तः बहुत्वेऽणं प्रयोजयति । स्वन् ( श्वन्) युग वरत्र हंस इति खण्डिकादिसामूहिके तदन्तविधिर्ज्ञापितः । तेन श्रपगवकापटवानां समूहः श्रौपगवकापटवकम् । ब्राह्राणराजन्यकम् । दम्यहस्तिनां समूहः दाम्यहस्तिकम् । गौधेनुकम् । "धेनोर्नत्र पूर्वांया नेध्यते " [वा०] अधेनूनां समूहः श्राधेनवम् ।
केशाश्वाभ्यां यच्छो वा || ३ |२|४०|| केश श्रश्व इत्येताभ्यां यथासंख्यं यञ्छ इत्येतौ त्यौ वा भवतः । केशानां समूहः कैश्यम् । कैशिकम् । श्रश्वानां समूह श्रश्वीयम् । श्राश्वम् ।
पाशादेर्यः ||३|२| ४१ || पाश इत्येवमादिभ्यो यो भवति । पाश्या । तृण तृण्या। धूम्या । वात वाल्या । लिङ्गं लोकतो ज्ञेयम् । पिटल पिटाक शकल हल नल वन पृस्व ।
Acharya Shri Kailassagarsuri Gyanmandir
तस्य समूह इति वर्तते । पाशानां समूहः पाश तृण धूम वात गार पालव
ब्राह्मणमाणववाडवात् ॥ ३२॥४२॥ य इति वर्तते । ब्राह्मण माणव वाडव इत्येतेभ्यो यो भवति तस्य समूह इत्यस्मिन्विषये । ब्राह्मणानां समूहो ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ।
ne
गोखलरथात् ॥३,२|४३॥ गो खल रथ इत्येतेभ्यस्तान्तेभ्यो यो भवति समूहे । गवां समूहः गव्या । खल्या । रथ्या । योगविभाग उत्तरार्थः ।
धेनुकट्याः ||३ | २|४४ ॥ गो खल रथ इत्येतेभ्यो यथासंख्यं त्र इन् कट्य इत्येते प्रत्यया (त्या ) भवन्ति । तस्य समूह इति वर्तते । गवां समूहः गोत्रा । खलिनी । रथकट्या । "खतादिभ्य इन् वक्तव्यः " [ वा०] डाकिनी । कुटुम्बिनी । लोकतो लिङ्गव्यवस्था ।
;
राष्ट्र ||३२|४५|| समूह इति निवृत्तम् अर्थान्तरोपादानात् । तस्येति वर्तते । राष्ट्रं जनपदः । तस्येति सामर्थात् राष्ट्रेऽर्थे यथाविहितं त्यो भवति । शिवानां राष्ट्रं शैवम् । जनपदापेक्षया पुंलिङ्गता प्रयोक्लव्या । शैवः । युष्टः ( श्रष्ट्र : ) । श्रभिसारः । "राष्ट्राभिधाने बहुत्वे उस्वक्तव्यः " [ वा० ] श्रङ्गानां राष्ट्रम् श्रङ्गाः । वङ्गाः । सुझाः । “गान्धार्यादिभ्यो वेति वक्रव्यम्" [वा०] गुन्धारीणां राष्ट्रं गान्धारयः । वासातः । वसातयः । शैवः । शिवाः । ' 'राजन्यादिभ्यो वा वुञ उस्वक्तव्यः” [ वा०] राजन्यानां राष्ट्र राजन्याः । राजन्यकः । दैवयातवः । दैवयातवकाः । “बिश्ववनादिभ्यो नित्यमुस् न भवतीति वक्तव्यम्' [ वा० ] बैल्ववनकः । आम्बरीषपुत्रकः । श्रात्मकामेयकः । नेदं बहु वक्तव्यम् । राष्ट्रविवक्षाया निवासविवक्षायाश्च प्रतिनियमात्सिद्धम् । बहुत्वविषये जनपदस्य निवासविवक्षायैव तत्र “जनपद उस” [ ३|२|६१] इति उस् भवति । गान्धार्यादीनां राजन्यादीनां च उभयी विवक्षा बिल्ववनादीनां राष्ट्रविवक्षैव ।
राजन्यादेषु ॥३|२|४६ ॥ राजन्य इत्येवमादिभ्यस्तासमर्थेभ्यो भव । राजन्यान राष्ट्रं राजन्यकः । राजन्यः । श्रभृति वात्सक ( बाभ्रव्य ) शालङ्कायन दैवयातव जालन्धरायण कौन्तल आत्मकामे आम्बरीषपुत्र घसाति बिल्वधन शैलूष उदुम्बर वैल्वल श्रर्जुनायन संप्रिय दाक्षि ऊर्णनाभ । श्राकृतिगणश्चायम् । मालवत्रिगर्तबिराटादीनां ग्रहणम् ।
भौरिया कार्यादिभ्यो विधभक्तौ ||३|२| ४७|| आदिशब्दः प्रत्येकमभिसम्बध्यते । भौरिक्यादिभ्यः ऐषुकार्यादिभ्यश्च यथासंख्यं विध भक्त इत्येतौ त्यो भवति राष्ट्रेऽर्थे । भौरिकीणां राष्ट्र भौरिभिविधः ॥ भौलिकिविधः । भौरिकि भौलिकि चौपयत चैटयत सैकयत कास्ये ( काणेय ) वाणेजक ( वाणिज्यक ) वालिकाज्यक वैकयत् । ऐषुकारिभक्ता । सारसायनभक्ता । ऐषुकारि सारसायन' चान्द्रायण द्वयाक्षायण व्याक्षायण
१. सारस्यायन ब०, स० ।
For Private And Personal Use Only