________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म० ३ पा० २ सू० ३३-३६] महावृत्तिसहितम्
१७६ पदमुक्षादिभ्योऽपि वुआदि। । काकानां समूहः काकम् । शौकम् । वार्कम् । इह पञ्चानां पूलानां समूहः पञ्चपूला इति प्राप्नोति । समूहार्थेऽण् तस्य "रस्योगनपत्ये" [३।११७५] इत्युप् “परिमाणादुपि" [३।१।२५] इति नियमात् । असति डीविधौ टापा भवितव्यम् । नायं दोषः। समाहारलक्षण एवात्र रसः । हृदुत्पत्तिर्न भवत्यनभिधानात् ।
भिक्षादेः ॥३२॥३३॥ तस्य समूह इति वर्तते । भिक्षा इत्येवमादिभ्यः यथाविहितं त्यो भवति । पुनर्विधानं ठणो बाधनार्थम् । भिक्षाणां समूहः भैवम् । भिक्षा गर्भिणी क्षेत्र करीष अङ्गार चर्मन् सहस्र युवति पद्धति अथर्वन् दक्षिणा । इह पाठसामर्थ्यात् गर्भिणी-युवतिशब्दे न पुंवद्भावः ।
वृद्धोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजावुन ॥ ३२॥३४ ।। वृद्धादिभ्यो वुन भवति । तस्य समूह इति वर्तते । श्रौपगवानां समूह श्रौपगवकम् । कापटयकम् । श्रीक्षकम् । श्रौष्ट्रकम् । औरभ्रकम् । राजकम् । राजन्यकम् । राजपुत्रकम् । वात्सकम् । मानुष्यकम् । आजकम् ।' 'दाच्चेति वनम्यम्" [वा. ] वार्द्धकम् । “प्रकृत्या अके राजन्यमनुष्ययुवानः" इति "क्यच्यनाद्धृत्यापत्यस्य'[ १] इति यखं न भवति । इह वृद्धग्रहणात् सिद्धे राजन्यमनुष्ययोः पृथगग्रहणं ज्ञापकम् । अपत्याधिकारादन्यत्र वृद्धग्रहणेन लौकिकं गोत्रमपत्यमात्रमुच्यते न तु पौत्राद्यपत्यं वृद्धमिति । तथाहि लोके किङ्गोत्रो भवान् इति पृष्टः वात्स्यायनोऽस्मीत्याह । राजन्यमनुष्ययोस्तु जातिशब्दत्वात् लौकिकगोत्रग्रहणम् ।
केदारायश्च ॥३२॥३५॥ केदारशब्दाद्या भवति बुञ् च तस्य समूह इत्यस्मिन्विषये । ठणोऽ पवादः । केदाराणा समूहः कैदार्य्यम् । केदारकम् । "गणिकायाः यश्च वक्तव्यः' [वा०] गणिकाणां समूहः गाणिक्यम् ।
ठम् कवचिनश्च ॥३२॥३६॥ ठञ् भवति कवचिनश्च केदाराच्च तस्य समूह इत्यस्मिन्विषये । कवचिनां समूहः कावचिकम् । कैदारिकम् ।
ग्रामजनबन्धुसहायेभ्यस्तल् ॥३॥२॥३७॥ प्रामादिभ्यस्तल भवति तस्य समूह इति वर्तते । प्रामाणां समूहो ग्रामता । जनता । बन्धुता । सहायता । "गजाच्चेति वक्तव्यम्" [वा०] गजता ।
(घरणेभ्यो धर्मवत् ॥३॥२॥३८॥ चरणवाचिशब्देभ्यः समूह इत्येतस्मिन्नर्थे धर्म इव त्या भवन्ति । इदमेव शाकम् । अस्त्येतत् 'चरणाद्धर्माम्नाययोः" [वा०] इति "वृद्धचरणाम्मित् [३३] इत्यारभ्य चरणाद्धर्मे त्यविधिर्वक्ष्यते, स इहातिदिश्यते । वत्करणं सर्वविशेषपरिग्रहार्थम् । यथा कठानां धर्म काठकम । कालापकम् । मौदकम् । पैप्पलादकम् । श्राभिकम् । वाजसनेयकम् । छान्दोग्यम् । श्रोक्थिक्यम् । श्रावणः । "वृद्धचरणामित्" इति वुन् “छन्दोगौक्थिकयाज्ञिकबट्टचनटाळ्यः'' [१।३।१७] इति ज्यः । "पाथर्वणः' [३।३।१०] इति च निपात्यते पाथर्वणिकानां धर्म इत्यत्र वाक्ये । तथा कठानां समूहः काठकमित्येवमादि योग्यम् । )
अचित्तहस्तिधनीष्ठण ॥३॥२॥३६॥ अचित्तमचेतनम् । अचित्तार्थवाचिभ्यो हस्तिधेनुशब्दाभ्यां च ठण भवति तस्य समूह इत्यस्मिन् विषये । अपूपानां समूहः श्रापूपिकम् । शकुलीनां समूहः शाष्कुलिकम् । हास्तिकम् । धैनुकम् । “पर्वा णस् वक्तव्यः" [वा०] पशूनां स्त्रीणां समूहः पार्श्वम् । सित्वात्पदसंज्ञायां भलक्षणमोरोत्वं न भवति । खण्डिकादिभ्योऽअ वक्तव्य इति चेत् न वक्तव्यः । नास्ति विशेषोऽभि वा सत्यणि वा । खण्डिकादिषु ये चित्तवतस्तेभ्य श्रौत्सर्गिकोऽण् सिद्धः। ये त्वचित्तास्ते भिक्षादिषु पठनीयाः । खण्डिका अहन् वडवतुद्रकमालवाद्रिसंशाताः क्षत्रिया इत्यर्थः । तेषां समूह वृद्धलक्षणो वुन प्राप्तः। ननु च यथा "राष्ट्रावध्यो:" [२।०२] इत्यत्र राष्ट्रादुच्यमानो वुझ न राष्ट्रसमुदायाद्भवति । काशिकौशलेषु भवा
For Private And Personal Use Only